विश्वास-प्रस्तुतिः
एत्य च त्वं यविष्ठेति चित्योपस्थानम् १
मूलम्
एत्य च त्वं यविष्ठेति चित्योपस्थानम् १
विश्वास-प्रस्तुतिः
अपरेण स्वयमातृण्णामेत्यापस्याः पञ्च पञ्चानूकान्तेष्वपां त्वेमन्निति प्रतिमन्त्रम् २
मूलम्
अपरेण स्वयमातृण्णामेत्यापस्याः पञ्च पञ्चानूकान्तेष्वपां त्वेमन्निति प्रतिमन्त्रम् २
विश्वास-प्रस्तुतिः
व्याघारणवत्प्राणभृतः कर्णसहिता दश दश पुरुषमुपार्प्यैके रेतःसिग्वेलायां च सर्वतो यथायोगमयं पुर इति प्रतिमन्त्रम् ३
मूलम्
व्याघारणवत्प्राणभृतः कर्णसहिता दश दश पुरुषमुपार्प्यैके रेतःसिग्वेलायां च सर्वतो यथायोगमयं पुर इति प्रतिमन्त्रम् ३
विश्वास-प्रस्तुतिः
द्वितीयमयं पश्चादिति ४
मूलम्
द्वितीयमयं पश्चादिति ४
विश्वास-प्रस्तुतिः
लोकम्पृणा दक्षिणांसादध्या मध्यात्प्रदक्षिणमाऽऽनूकान्तात्पूर्वस्मात् ५
मूलम्
लोकम्पृणा दक्षिणांसादध्या मध्यात्प्रदक्षिणमाऽऽनूकान्तात्पूर्वस्मात् ५
विश्वास-प्रस्तुतिः
प्रत्येत्य शेषम् ६
मूलम्
प्रत्येत्य शेषम् ६
विश्वास-प्रस्तुतिः
पक्षपुच्छानि पराग्भिरप्ययेभ्योऽधि ७
मूलम्
पक्षपुच्छानि पराग्भिरप्ययेभ्योऽधि ७
विश्वास-प्रस्तुतिः
एवं सर्वत्र ८
मूलम्
एवं सर्वत्र ८
विश्वास-प्रस्तुतिः
मध्ये पुरीषं निवपति पुर्ववत् ९
मूलम्
मध्ये पुरीषं निवपति पुर्ववत् ९
विश्वास-प्रस्तुतिः
पूर्वमर्धानूकं छादयति १०
मूलम्
पूर्वमर्धानूकं छादयति १०
विश्वास-प्रस्तुतिः
प्रदक्षिणमात्मानम् ११
मूलम्
प्रदक्षिणमात्मानम् ११
विश्वास-प्रस्तुतिः
पक्षपुच्छानि च १२
मूलम्
पक्षपुच्छानि च १२
विश्वास-प्रस्तुतिः
एवं सर्वत्र १३
मूलम्
एवं सर्वत्र १३