विश्वास-प्रस्तुतिः
अपां गम्भन्निति तिसृभिः १
मूलम्
अपां गम्भन्निति तिसृभिः १
विश्वास-प्रस्तुतिः
घट्टयति मध्यमया २
मूलम्
घट्टयति मध्यमया २
विश्वास-प्रस्तुतिः
उलूखलमुसले स्वयमातृण्णामुत्तरेणारत्निमात्रे औदुम्बरे प्रादेशमात्रे चतुरश्रमुलूखलं मध्यसङ्गृहीतमूर्ध्वं वृत्तं मुसलं दक्षिणमुलूखलाद्विष्णोः कर्माणीति ३
मूलम्
उलूखलमुसले स्वयमातृण्णामुत्तरेणारत्निमात्रे औदुम्बरे प्रादेशमात्रे चतुरश्रमुलूखलं मध्यसङ्गृहीतमूर्ध्वं वृत्तं मुसलं दक्षिणमुलूखलाद्विष्णोः कर्माणीति ३
विश्वास-प्रस्तुतिः
उलूखले उखां कृत्वोपशया पिष्ट्वा न्युप्य पुरस्ताद् ध्रुवासीत्युखाम् ४
मूलम्
उलूखले उखां कृत्वोपशया पिष्ट्वा न्युप्य पुरस्ताद् ध्रुवासीत्युखाम् ४
विश्वास-प्रस्तुतिः
अग्ने युक्ष्वाहीति प्रत्यृचं स्रुवाहुतीर्जुहोत्युखायाम् ५
मूलम्
अग्ने युक्ष्वाहीति प्रत्यृचं स्रुवाहुतीर्जुहोत्युखायाम् ५
विश्वास-प्रस्तुतिः
उपस्यानं वाऽसम्वत्सरभूतिनः ६
मूलम्
उपस्यानं वाऽसम्वत्सरभूतिनः ६
विश्वास-प्रस्तुतिः
प्रतिशिरः सप्त सप्त हिरण्यशकलान्मुखे करोति सम्यक्स्रवन्तीति ७
मूलम्
प्रतिशिरः सप्त सप्त हिरण्यशकलान्मुखे करोति सम्यक्स्रवन्तीति ७
विश्वास-प्रस्तुतिः
उत्तरां द्वौ द्वौ ८
मूलम्
उत्तरां द्वौ द्वौ ८
विश्वास-प्रस्तुतिः
नासिकयोरृचे त्वेति ९
मूलम्
नासिकयोरृचे त्वेति ९
विश्वास-प्रस्तुतिः
अक्ष्योर्भासे त्वेति १०
मूलम्
अक्ष्योर्भासे त्वेति १०
विश्वास-प्रस्तुतिः
श्रोत्रयोरभूदिदमिति ११
मूलम्
श्रोत्रयोरभूदिदमिति ११
विश्वास-प्रस्तुतिः
सर्वानप्येकस्मिन्नेके १२
मूलम्
सर्वानप्येकस्मिन्नेके १२
विश्वास-प्रस्तुतिः
उखायां प्रत्यञ्चि १३
मूलम्
उखायां प्रत्यञ्चि १३
विश्वास-प्रस्तुतिः
सहस्रदा इति पुरुषशिर उद्गृह्य मध्ये १४
मूलम्
सहस्रदा इति पुरुषशिर उद्गृह्य मध्ये १४
विश्वास-प्रस्तुतिः
अश्वाव्योरुत्तरतः पूर्वापरे १५
मूलम्
अश्वाव्योरुत्तरतः पूर्वापरे १५
विश्वास-प्रस्तुतिः
गोअजयोश्च दक्षिणतः १६
मूलम्
गोअजयोश्च दक्षिणतः १६
विश्वास-प्रस्तुतिः
आदित्यं गर्भमिति प्रतिमन्त्रम् १७
मूलम्
आदित्यं गर्भमिति प्रतिमन्त्रम् १७
विश्वास-प्रस्तुतिः
चित्रं देवानामित्यर्धर्चशः स्रुवाहुती मध्यमे १८
मूलम्
चित्रं देवानामित्यर्धर्चशः स्रुवाहुती मध्यमे १८
विश्वास-प्रस्तुतिः
बहिर्वेद्युदङ् तिष्ठन्नुपतिष्ठत उत्सर्गैरिमं मा हिंसीरिति प्रतिमन्त्रम् १९
मूलम्
बहिर्वेद्युदङ् तिष्ठन्नुपतिष्ठत उत्सर्गैरिमं मा हिंसीरिति प्रतिमन्त्रम् १९
विश्वास-प्रस्तुतिः
उखां परिक्रम्यैके २०
मूलम्
उखां परिक्रम्यैके २०
विश्वास-प्रस्तुतिः
उपधायोपधाय वा तस्य तस्य यथालिङ्गम् २१
मूलम्
उपधायोपधाय वा तस्य तस्य यथालिङ्गम् २१
विश्वास-प्रस्तुतिः
सर्वमन्त्रानप्येकेऽस्मिन्नेके २२
मूलम्
सर्वमन्त्रानप्येकेऽस्मिन्नेके २२
विश्वास-प्रस्तुतिः
उपधानमन्त्रान्विपरिहरन्नङ्गु लिं प्रथिष्ठे शिरसि २३
मूलम्
उपधानमन्त्रान्विपरिहरन्नङ्गु लिं प्रथिष्ठे शिरसि २३