विश्वास-प्रस्तुतिः
पुष्करपर्णमुपदधाति स्तम्बे पूर्ववत् १
मूलम्
पुष्करपर्णमुपदधाति स्तम्बे पूर्ववत् १
विश्वास-प्रस्तुतिः
तस्मिन्रुक्ममधःपिण्डं ब्रह्म जज्ञानमिति २
मूलम्
तस्मिन्रुक्ममधःपिण्डं ब्रह्म जज्ञानमिति २
विश्वास-प्रस्तुतिः
उत्तानं प्राञ्चं हिरण्यपुरुषं तस्मिन्हिरण्यगर्भ इति ३
मूलम्
उत्तानं प्राञ्चं हिरण्यपुरुषं तस्मिन्हिरण्यगर्भ इति ३
विश्वास-प्रस्तुतिः
पुरुषे चित्रे साम गायति ४
मूलम्
पुरुषे चित्रे साम गायति ४
विश्वास-प्रस्तुतिः
पूर्वेणाऽपरीत्योऽतः ५
मूलम्
पूर्वेणाऽपरीत्योऽतः ५
विश्वास-प्रस्तुतिः
उपतिष्ठते यजमानो नमोऽस्त्विति ६
मूलम्
उपतिष्ठते यजमानो नमोऽस्त्विति ६
विश्वास-प्रस्तुतिः
उपविश्य पञ्चगृहीतं जुहोति पुरुषे कृणुष्व पाज इति प्रत्यृचं प्रतिदिशं परिसर्पम् ७
मूलम्
उपविश्य पञ्चगृहीतं जुहोति पुरुषे कृणुष्व पाज इति प्रत्यृचं प्रतिदिशं परिसर्पम् ७
विश्वास-प्रस्तुतिः
प्रत्येत्य दक्षिणतः ८
मूलम्
प्रत्येत्य दक्षिणतः ८
विश्वास-प्रस्तुतिः
पश्चात्प्रथमान्त्ये ९
मूलम्
पश्चात्प्रथमान्त्ये ९
विश्वास-प्रस्तुतिः
पुरुषमवच्छाद्योरसाऽस्पृष्टं बाह्वोः प्रापणान्ते लिखति १०
मूलम्
पुरुषमवच्छाद्योरसाऽस्पृष्टं बाह्वोः प्रापणान्ते लिखति १०
विश्वास-प्रस्तुतिः
तत्र स्रुगुपधानं प्राच्योः ११
मूलम्
तत्र स्रुगुपधानं प्राच्योः ११
विश्वास-प्रस्तुतिः
कार्ष्मर्यमयीं दक्षिणतः पाणिमात्रपुष्करां बाहुमात्रीं पादमात्रीं वा सामर्थ्याद् घृतपूर्णामग्नेष्ष्ट्वेति १२
मूलम्
कार्ष्मर्यमयीं दक्षिणतः पाणिमात्रपुष्करां बाहुमात्रीं पादमात्रीं वा सामर्थ्याद् घृतपूर्णामग्नेष्ष्ट्वेति १२
विश्वास-प्रस्तुतिः
एवमौदुम्बरीमुत्तरतो दधिपूर्णामिन्द्र स्य त्वेति १३
मूलम्
एवमौदुम्बरीमुत्तरतो दधिपूर्णामिन्द्र स्य त्वेति १३
विश्वास-प्रस्तुतिः
तिरश्च्यावेके १४
मूलम्
तिरश्च्यावेके १४
विश्वास-प्रस्तुतिः
स्वयमातृण्णां पुरुषे शर्करां छिद्रा ंध्रुवाऽसीति १५
मूलम्
स्वयमातृण्णां पुरुषे शर्करां छिद्रा ंध्रुवाऽसीति १५
विश्वास-प्रस्तुतिः
भूरित्येतस्यां साम गायति १६
मूलम्
भूरित्येतस्यां साम गायति १६
विश्वास-प्रस्तुतिः
अन्यत्राऽपि व्याहृतिषु १७
मूलम्
अन्यत्राऽपि व्याहृतिषु १७
विश्वास-प्रस्तुतिः
मूलाग्रवतीं दूर्वा तस्यां पुरस्ताद् भूमिप्राप्तां काण्डात्काण्डादिति १८
मूलम्
मूलाग्रवतीं दूर्वा तस्यां पुरस्ताद् भूमिप्राप्तां काण्डात्काण्डादिति १८
विश्वास-प्रस्तुतिः
पूर्वां पूर्वामुत्तराः १९
मूलम्
पूर्वां पूर्वामुत्तराः १९
विश्वास-प्रस्तुतिः
यास्त इति द्वियजुषं द्वितीये २०
मूलम्
यास्त इति द्वियजुषं द्वितीये २०
विश्वास-प्रस्तुतिः
उलूखलस्य रेतःसिग्वेलायामरत्निमात्रश्रुतेः २१
मूलम्
उलूखलस्य रेतःसिग्वेलायामरत्निमात्रश्रुतेः २१
विश्वास-प्रस्तुतिः
विराट् स्वराडिति रेतःसिचौ प्रतिमन्त्रम् २२
मूलम्
विराट् स्वराडिति रेतःसिचौ प्रतिमन्त्रम् २२
विश्वास-प्रस्तुतिः
प्रजापतिरिति विश्वज्योतिषम् २३
मूलम्
प्रजापतिरिति विश्वज्योतिषम् २३
विश्वास-प्रस्तुतिः
ऋतव्ये मधुश्च माधवश्चेति २४
मूलम्
ऋतव्ये मधुश्च माधवश्चेति २४
विश्वास-प्रस्तुतिः
अषाढाऽसीत्यषाढाम् २५
मूलम्
अषाढाऽसीत्यषाढाम् २५
विश्वास-प्रस्तुतिः
स्वयमातृण्णारेतःसिग्विश्वज्योतिरृतव्याऽषाढासु लक्षणानि कुरुते रज्वां वेलार्थानि २६
मूलम्
स्वयमातृण्णारेतःसिग्विश्वज्योतिरृतव्याऽषाढासु लक्षणानि कुरुते रज्वां वेलार्थानि २६
विश्वास-प्रस्तुतिः
कूर्म दधिमधुघृतैरनक्ति मधु वाता इति २७
मूलम्
कूर्म दधिमधुघृतैरनक्ति मधु वाता इति २७
विश्वास-प्रस्तुतिः
अरत्निमात्रेऽषाढां दक्षिणेनाऽवकामुपरिष्टाच्च पुरुषमभिमुखम् २८
मूलम्
अरत्निमात्रेऽषाढां दक्षिणेनाऽवकामुपरिष्टाच्च पुरुषमभिमुखम् २८