विश्वास-प्रस्तुतिः
कुशस्तम्बमुपदधाति मध्ये तूष्णीम् १
मूलम्
कुशस्तम्बमुपदधाति मध्ये तूष्णीम् १
विश्वास-प्रस्तुतिः
पञ्चगृहीतेनोद्गृह्णन्नभिजुहोति सजूरब्द इति २
मूलम्
पञ्चगृहीतेनोद्गृह्णन्नभिजुहोति सजूरब्द इति २
विश्वास-प्रस्तुतिः
चतसृषु चतसृषु त्रींस्त्रीनुदचमसान्निनयति यथाकृष्टमौदुम्बरेण चतुःस्रक्तिना ३
मूलम्
चतसृषु चतसृषु त्रींस्त्रीनुदचमसान्निनयति यथाकृष्टमौदुम्बरेण चतुःस्रक्तिना ३
विश्वास-प्रस्तुतिः
त्रीन्कृष्टाकृष्टयोः ४
मूलम्
त्रीन्कृष्टाकृष्टयोः ४
विश्वास-प्रस्तुतिः
कृष्टमात्रे वा ५
मूलम्
कृष्टमात्रे वा ५
विश्वास-प्रस्तुतिः
तस्मिन्त्सर्वौषधमावपत्येकवर्जमथोजनं तस्योच्छ्वासात् ६
मूलम्
तस्मिन्त्सर्वौषधमावपत्येकवर्जमथोजनं तस्योच्छ्वासात् ६
विश्वास-प्रस्तुतिः
या ओषधीरिति तृचैर्वपत्युदपात्रवत् ७
मूलम्
या ओषधीरिति तृचैर्वपत्युदपात्रवत् ७
विश्वास-प्रस्तुतिः
सोमनिवपनाद्यातिथ्यहविष्कृतः कृत्वाऽऽहवनीयपरिश्रितोऽभिमन्त्रयते चित स्थेति ८
मूलम्
सोमनिवपनाद्यातिथ्यहविष्कृतः कृत्वाऽऽहवनीयपरिश्रितोऽभिमन्त्रयते चित स्थेति ८
विश्वास-प्रस्तुतिः
सप्त सप्त वा ९
मूलम्
सप्त सप्त वा ९
विश्वास-प्रस्तुतिः
लोगेष्टकाः स्फ्येनाऽऽहृत्य बहिर्वेदेरनूकान्तेषू पदधाति तिष्ठन्मा मा हिंसीदिति प्रत्यृचं प्रतिदिशं पुरस्तात्प्रथमम् १०
मूलम्
लोगेष्टकाः स्फ्येनाऽऽहृत्य बहिर्वेदेरनूकान्तेषू पदधाति तिष्ठन्मा मा हिंसीदिति प्रत्यृचं प्रतिदिशं पुरस्तात्प्रथमम् १०
विश्वास-प्रस्तुतिः
उत्तरापरस्याः पश्चात् ११
मूलम्
उत्तरापरस्याः पश्चात् ११
विश्वास-प्रस्तुतिः
उत्तरस्याः सिकताः प्रमार्ष्टि जहामि सेदिमिति १२
मूलम्
उत्तरस्याः सिकताः प्रमार्ष्टि जहामि सेदिमिति १२
विश्वास-प्रस्तुतिः
उत्तरवेदिं सिकता न्युप्य च्छादयत्यात्मानम् १४
मूलम्
उत्तरवेदिं सिकता न्युप्य च्छादयत्यात्मानम् १४
विश्वास-प्रस्तुतिः
आप्यायस्वेति सिकतालम्भनमृग्भ्याम् १५
मूलम्
आप्यायस्वेति सिकतालम्भनमृग्भ्याम् १५
विश्वास-प्रस्तुतिः
आतिथ्याशेषाद्योपसदः कृत्वा रोहिते चर्मण्यानडुहेऽन्तः पात्यस्यपुरस्तादिष्टकाः करोति प्रथमचितेः १६
मूलम्
आतिथ्याशेषाद्योपसदः कृत्वा रोहिते चर्मण्यानडुहेऽन्तः पात्यस्यपुरस्तादिष्टकाः करोति प्रथमचितेः १६
विश्वास-प्रस्तुतिः
इतरासां च चितीनां स्वयामातृण्णाः १७
मूलम्
इतरासां च चितीनां स्वयामातृण्णाः १७
विश्वास-प्रस्तुतिः
मत्या च १८
मूलम्
मत्या च १८
विश्वास-प्रस्तुतिः
आज्ये न्यज्य कुशाग्राणि तूष्णीं प्रोक्षति श्वेतेऽश्वे पुरस्तात्तिष्ठति श्वेताऽभावेऽश्वेतेऽश्वाभावेऽनडुहि १९
मूलम्
आज्ये न्यज्य कुशाग्राणि तूष्णीं प्रोक्षति श्वेतेऽश्वे पुरस्तात्तिष्ठति श्वेताऽभावेऽश्वेतेऽश्वाभावेऽनडुहि १९
विश्वास-प्रस्तुतिः
अग्निभ्यः प्रह्रियमाणेभ्योऽनुवाचयति २०
मूलम्
अग्निभ्यः प्रह्रियमाणेभ्योऽनुवाचयति २०
विश्वास-प्रस्तुतिः
त्रिरुक्तायामश्वपूर्वां चिति हृत्वा पुच्छाद्दक्षिणां निदधाति २१
मूलम्
त्रिरुक्तायामश्वपूर्वां चिति हृत्वा पुच्छाद्दक्षिणां निदधाति २१
विश्वास-प्रस्तुतिः
तीर्थेनाऽश्वमारोहयत्युत्तरपक्षमपरेण २२
मूलम्
तीर्थेनाऽश्वमारोहयत्युत्तरपक्षमपरेण २२
विश्वास-प्रस्तुतिः
पुरस्तात्पश्चाद्वैके २३
मूलम्
पुरस्तात्पश्चाद्वैके २३
विश्वास-प्रस्तुतिः
अनुयजुः कृष्टं परिणयत्युत्तरतः प्रथमम् २४
मूलम्
अनुयजुः कृष्टं परिणयत्युत्तरतः प्रथमम् २४
विश्वास-प्रस्तुतिः
प्रत्यञ्चमागतं चितिमवघ्राप्य परिणीयोत्सृजति पशुवत् २५
मूलम्
प्रत्यञ्चमागतं चितिमवघ्राप्य परिणीयोत्सृजति पशुवत् २५
विश्वास-प्रस्तुतिः
उत्तरवेदिप्रोक्षणाद्यासम्भारनिवपनात्कृत्वोत्तरवेदिमपरेण तिष्ठन्यजमानो मयि गृह्णामीति जपति २६
मूलम्
उत्तरवेदिप्रोक्षणाद्यासम्भारनिवपनात्कृत्वोत्तरवेदिमपरेण तिष्ठन्यजमानो मयि गृह्णामीति जपति २६
विश्वास-प्रस्तुतिः
सत्यसाम गायति २७
मूलम्
सत्यसाम गायति २७