०२

विश्वास-प्रस्तुतिः

अभ्यात्ममेके १

मूलम्

अभ्यात्ममेके १

विश्वास-प्रस्तुतिः

नित्याभावः २

मूलम्

नित्याभावः २

विश्वास-प्रस्तुतिः

शिक्यरुक्मपाशेण्ड्वासन्दीः परेणास्यति यं त इति ३

मूलम्

शिक्यरुक्मपाशेण्ड्वासन्दीः परेणास्यति यं त इति ३

विश्वास-प्रस्तुतिः

उदपात्रं निषिच्याऽन्तरात्मेष्टकमुत्तिष्ठन्ति नमो भूत्या इति ४

मूलम्

उदपात्रं निषिच्याऽन्तरात्मेष्टकमुत्तिष्ठन्ति नमो भूत्या इति ४

विश्वास-प्रस्तुतिः

अनपेक्षमेत्य शालाद्वार्योपस्थानं निवेशन इति ५

मूलम्

अनपेक्षमेत्य शालाद्वार्योपस्थानं निवेशन इति ५

विश्वास-प्रस्तुतिः

प्रायणीयहविष्कृदन्ते महावेदेस्फ्याद्या सम्मर्शनात्करोति ६

मूलम्

प्रायणीयहविष्कृदन्ते महावेदेस्फ्याद्या सम्मर्शनात्करोति ६

विश्वास-प्रस्तुतिः

प्रायणीयान्ते सीरं युनक्त्यौदुम्बरम् ७

मूलम्

प्रायणीयान्ते सीरं युनक्त्यौदुम्बरम् ७

विश्वास-प्रस्तुतिः

मौञ्ज त्रिवृद्र ज्जव्यम् ८

मूलम्

मौञ्ज त्रिवृद्र ज्जव्यम् ८

विश्वास-प्रस्तुतिः

षड् द्वादश चतुर्विंशतिं वा युनक्ति पूर्वेणोत्तरांसम् ९

मूलम्

षड् द्वादश चतुर्विंशतिं वा युनक्ति पूर्वेणोत्तरांसम् ९

विश्वास-प्रस्तुतिः

दक्षिणामग्निश्रोणिमपरेण तिष्ठन्युयुज्यमानमभिमन्त्रयते सीरा युञ्जन्तीति १०

मूलम्

दक्षिणामग्निश्रोणिमपरेण तिष्ठन्युयुज्यमानमभिमन्त्रयते सीरा युञ्जन्तीति १०

विश्वास-प्रस्तुतिः

आत्मनि कृषत्यनुपरिश्रिच्छुनं सुफाला इति प्रत्यृचम् ११

मूलम्

आत्मनि कृषत्यनुपरिश्रिच्छुनं सुफाला इति प्रत्यृचम् ११

विश्वास-प्रस्तुतिः

दक्षिणतः प्राचीम् १२

मूलम्

दक्षिणतः प्राचीम् १२

विश्वास-प्रस्तुतिः

प्रदक्षिणमितराः १३

मूलम्

प्रदक्षिणमितराः १३

विश्वास-प्रस्तुतिः

तूष्णीं तिस्रस्तिस्रः प्रदक्षिणम् १४

मूलम्

तूष्णीं तिस्रस्तिस्रः प्रदक्षिणम् १४

विश्वास-प्रस्तुतिः

तिर्यगनूके १५

मूलम्

तिर्यगनूके १५

विश्वास-प्रस्तुतिः

अक्ष्णया श्रोण्यंसयोः १६

मूलम्

अक्ष्णया श्रोण्यंसयोः १६

विश्वास-प्रस्तुतिः

अनूके १७

मूलम्

अनूके १७

विश्वास-प्रस्तुतिः

अक्ष्णया श्रोण्यंसयोः १८

मूलम्

अक्ष्णया श्रोण्यंसयोः १८

विश्वास-प्रस्तुतिः

दीर्घप्रयुक्तेषु वा पुरुषाः कृषन्ति १९

मूलम्

दीर्घप्रयुक्तेषु वा पुरुषाः कृषन्ति १९

विश्वास-प्रस्तुतिः

अनडुहो विमुच्य विमुच्यध्वमिति २०

मूलम्

अनडुहो विमुच्य विमुच्यध्वमिति २०

विश्वास-प्रस्तुतिः

पशुवदुत्सृज्य दक्षिणाकालेऽध्वर्यवे ददाति २१

मूलम्

पशुवदुत्सृज्य दक्षिणाकालेऽध्वर्यवे ददाति २१

विश्वास-प्रस्तुतिः

सीरमुत्करे कृत्वा २२

मूलम्

सीरमुत्करे कृत्वा २२