(चयनम्)
विश्वास-प्रस्तुतिः
श्वोऽभ्यवहरणादि प्रायश्चित्त्यन्तं कृत्वा विष्णुक्रमवात्सप्रसमासः १
मूलम्
श्वोऽभ्यवहरणादि प्रायश्चित्त्यन्तं कृत्वा विष्णुक्रमवात्सप्रसमासः १
विश्वास-प्रस्तुतिः
वात्सप्रं कृत्वोपस्थेयं चेत् २
मूलम्
वात्सप्रं कृत्वोपस्थेयं चेत् २
विश्वास-प्रस्तुतिः
पलाशशाखया गार्हपत्यं व्युदूहत्यपेत वीतेति पच्छः प्रतिदिशं पुरस्तात्प्रथमम् ३
मूलम्
पलाशशाखया गार्हपत्यं व्युदूहत्यपेत वीतेति पच्छः प्रतिदिशं पुरस्तात्प्रथमम् ३
विश्वास-प्रस्तुतिः
उदीचीं शाखामुदस्योषां निवपति सञ्ज्ञानमिति ४
मूलम्
उदीचीं शाखामुदस्योषां निवपति सञ्ज्ञानमिति ४
विश्वास-प्रस्तुतिः
मण्डलं छादयति ५
मूलम्
मण्डलं छादयति ५
विश्वास-प्रस्तुतिः
सिकताश्चाऽग्नेर्भस्मेत्यूषवत् ६
मूलम्
सिकताश्चाऽग्नेर्भस्मेत्यूषवत् ६
विश्वास-प्रस्तुतिः
परिश्रिद्भिः परिश्रयति पूर्ववदेकविंशत्या चित स्थेति ७
मूलम्
परिश्रिद्भिः परिश्रयति पूर्ववदेकविंशत्या चित स्थेति ७
विश्वास-प्रस्तुतिः
मध्येऽर्धबृहतीश्चतस्रो दक्षिणोत्तराः प्राचीरुपदधाति दक्षिणत उदङ्ङयं सोऽअग्निरिति प्रत्यृचम् ८
मूलम्
मध्येऽर्धबृहतीश्चतस्रो दक्षिणोत्तराः प्राचीरुपदधाति दक्षिणत उदङ्ङयं सोऽअग्निरिति प्रत्यृचम् ८
विश्वास-प्रस्तुतिः
सकृन्नित्ये ९
मूलम्
सकृन्नित्ये ९
विश्वास-प्रस्तुतिः
पश्चात्सहितो पादमात्र्यौ । तिरश्च्यौ पुरस्ताच्च १०
मूलम्
पश्चात्सहितो पादमात्र्यौ । तिरश्च्यौ पुरस्ताच्च १०
विश्वास-प्रस्तुतिः
अपरेण परिक्रम्य चयनमिडामग्न इति पश्चिमे प्रतिमन्त्रमुत्तरतः ११
मूलम्
अपरेण परिक्रम्य चयनमिडामग्न इति पश्चिमे प्रतिमन्त्रमुत्तरतः ११
विश्वास-प्रस्तुतिः
चिदसीति पूर्वे दक्षिणतः प्रतिमन्त्रम् १२
मूलम्
चिदसीति पूर्वे दक्षिणतः प्रतिमन्त्रम् १२
विश्वास-प्रस्तुतिः
नित्ये प्रतीष्टकं तिरश्चीषु १३
मूलम्
नित्ये प्रतीष्टकं तिरश्चीषु १३
विश्वास-प्रस्तुतिः
स्रक्तिषु पादमात्रीः १४
मूलम्
स्रक्तिषु पादमात्रीः १४
विश्वास-प्रस्तुतिः
पूर्वदक्षिणस्यामर्धपद्ये १५
मूलम्
पूर्वदक्षिणस्यामर्धपद्ये १५
विश्वास-प्रस्तुतिः
शेषे वक्राः १६
मूलम्
शेषे वक्राः १६
विश्वास-प्रस्तुतिः
तिसृषु लोकम्पृणासु मन्त्रो दशसु च १७
मूलम्
तिसृषु लोकम्पृणासु मन्त्रो दशसु च १७
विश्वास-प्रस्तुतिः
द्वयोर्वा दशस्वेकस्यां च १८
मूलम्
द्वयोर्वा दशस्वेकस्यां च १८
विश्वास-प्रस्तुतिः
चात्वालदेशात्पुरीषं निवपतीन्द्रं विश्वा इति १९
मूलम्
चात्वालदेशात्पुरीषं निवपतीन्द्रं विश्वा इति १९
विश्वास-प्रस्तुतिः
समम्बिलां कृत्वोख्यं निवपति समितमिति २०
मूलम्
समम्बिलां कृत्वोख्यं निवपति समितमिति २०
विश्वास-प्रस्तुतिः
रिक्तां नावेक्षेतोखाम् २१
मूलम्
रिक्तां नावेक्षेतोखाम् २१
विश्वास-प्रस्तुतिः
सिकताभिः समं बिलां कृत्वा मातेव पुत्रमिति शिक्याद्विमुच्याभ्रिवन्निधायाऽऽसिञ्चति पयो मध्ये तूष्णीम् २२
मूलम्
सिकताभिः समं बिलां कृत्वा मातेव पुत्रमिति शिक्याद्विमुच्याभ्रिवन्निधायाऽऽसिञ्चति पयो मध्ये तूष्णीम् २२
विश्वास-प्रस्तुतिः
त्रिचितमेके २३
मूलम्
त्रिचितमेके २३
विश्वास-प्रस्तुतिः
नैरृतीः कृष्णास्तुषपक्वास्तिस्रोऽलक्षणाः पादमात्रीर्हविष्यस्कन्नहोमवद्देशे दक्षिणोत्तराः कृत्वा दक्षिणामुखोऽनुपस्पृशन्नसुन्वन्तमिति प्रत्यृचं पराचीः २४
मूलम्
नैरृतीः कृष्णास्तुषपक्वास्तिस्रोऽलक्षणाः पादमात्रीर्हविष्यस्कन्नहोमवद्देशे दक्षिणोत्तराः कृत्वा दक्षिणामुखोऽनुपस्पृशन्नसुन्वन्तमिति प्रत्यृचं पराचीः २४