विश्वास-प्रस्तुतिः

द्विपुरुषां रज्जुं मित्वा उभयतः पाशां मध्ये लक्षणम् १

मूलम्

द्विपुरुषां रज्जुं मित्वा उभयतः पाशां मध्ये लक्षणम् १

विश्वास-प्रस्तुतिः

अभितोऽर्धपुरुषयोश्च २

मूलम्

अभितोऽर्धपुरुषयोश्च २

विश्वास-प्रस्तुतिः

मध्यमात् पुरुषपञ्चमे ३

मूलम्

मध्यमात् पुरुषपञ्चमे ३

विश्वास-प्रस्तुतिः

अर्धे च ४

मूलम्

अर्धे च ४

विश्वास-प्रस्तुतिः

अनुपृष्ठ्यामायम्य पाशयोः शङ्कू मध्येऽर्धपुरुषयोश्च ६

मूलम्

अनुपृष्ठ्यामायम्य पाशयोः शङ्कू मध्येऽर्धपुरुषयोश्च ६

विश्वास-प्रस्तुतिः

पाशा उन्मुछार्धपुरुषीययोः प्रतिमुच्य दक्षिणाऽऽयम्य मध्यमे नितोदं करोति ७

मूलम्

पाशा उन्मुछार्धपुरुषीययोः प्रतिमुच्य दक्षिणाऽऽयम्य मध्यमे नितोदं करोति ७

विश्वास-प्रस्तुतिः

उन्मुच्य् पाशावेकं मध्यमे प्रतिमुच्य दक्षिणाऽधिनितोदमायम्य मध्यमे शङ्कुः ८

मूलम्

उन्मुच्य् पाशावेकं मध्यमे प्रतिमुच्य दक्षिणाऽधिनितोदमायम्य मध्यमे शङ्कुः ८

विश्वास-प्रस्तुतिः

तस्मिन् पाशं प्रतिमुच्य दक्षिणाऽऽयम्य मध्यमे शङ्कुः ९

मूलम्

तस्मिन् पाशं प्रतिमुच्य दक्षिणाऽऽयम्य मध्यमे शङ्कुः ९

विश्वास-प्रस्तुतिः

पश्चादर्धपुरुषे च १०

मूलम्

पश्चादर्धपुरुषे च १०

विश्वास-प्रस्तुतिः

उन्मुच्य पूर्वार्द्ध्यात्पश्चार्द्धे प्रतिमुच्य दक्षिणाऽऽयम्य मध्यमे शङ्कुः ११

मूलम्

उन्मुच्य पूर्वार्द्ध्यात्पश्चार्द्धे प्रतिमुच्य दक्षिणाऽऽयम्य मध्यमे शङ्कुः ११

विश्वास-प्रस्तुतिः

अभितोऽर्धपुरुषयोश्च १२

मूलम्

अभितोऽर्धपुरुषयोश्च १२

विश्वास-प्रस्तुतिः

एवमुत्तरोऽन्तः १३

मूलम्

एवमुत्तरोऽन्तः १३

विश्वास-प्रस्तुतिः

दक्षिणे पार्श्वे पूर्ववदायम्य पञ्चमभागीये शङ्कुः १५

मूलम्

दक्षिणे पार्श्वे पूर्ववदायम्य पञ्चमभागीये शङ्कुः १५

विश्वास-प्रस्तुतिः

तस्मिनिपाशं प्रतिमुच्य पूर्वे चार्धपुरुषीये पञ्चमभागीयार्द्धपुरुषीययोः सन्निपात्य तस्मिञ्छङ्कुः १७

मूलम्

तस्मिनिपाशं प्रतिमुच्य पूर्वे चार्धपुरुषीये पञ्चमभागीयार्द्धपुरुषीययोः सन्निपात्य तस्मिञ्छङ्कुः १७

विश्वास-प्रस्तुतिः

एवं पश्चात् १८

मूलम्

एवं पश्चात् १८

विश्वास-प्रस्तुतिः

एवमुत्तरः पक्षः १९

मूलम्

एवमुत्तरः पक्षः १९

विश्वास-प्रस्तुतिः

तथा वितस्त्वा २०

मूलम्

तथा वितस्त्वा २०

विश्वास-प्रस्तुतिः

इच्छन्पक्षपुच्छाऽप्ययेषु चतुरङ्गुलं चतुरङ्गुलं सङ्कर्षति विकर्षत्यन्ते २१

मूलम्

इच्छन्पक्षपुच्छाऽप्ययेषु चतुरङ्गुलं चतुरङ्गुलं सङ्कर्षति विकर्षत्यन्ते २१

विश्वास-प्रस्तुतिः

पञ्चारत्निः पुरुषो दशपदो द्वादशाङ्गुलं पदं प्रक्रमस्त्रिपदः समविभक्तस्य २२

मूलम्

पञ्चारत्निः पुरुषो दशपदो द्वादशाङ्गुलं पदं प्रक्रमस्त्रिपदः समविभक्तस्य २२

विश्वास-प्रस्तुतिः

परितत्य रज्ज्वा सहितं बहीरज्ज्वा एकषष्ठे शते परिश्रितो मिनोति २४

मूलम्

परितत्य रज्ज्वा सहितं बहीरज्ज्वा एकषष्ठे शते परिश्रितो मिनोति २४

विश्वास-प्रस्तुतिः

चतुर्णवतीनि वा त्रीणि २५

मूलम्

चतुर्णवतीनि वा त्रीणि २५

विश्वास-प्रस्तुतिः

ऊर्ध्वाः शर्कराः खाते २६

मूलम्

ऊर्ध्वाः शर्कराः खाते २६

विश्वास-प्रस्तुतिः

उत्तरे पुरुषोच्चयेनैकशतविधात् २७

मूलम्

उत्तरे पुरुषोच्चयेनैकशतविधात् २७

विश्वास-प्रस्तुतिः

यथाऽग्नि वेदीष्टकाप्रमाणम् २८

मूलम्

यथाऽग्नि वेदीष्टकाप्रमाणम् २८

विश्वास-प्रस्तुतिः

अन्तः पात्यगार्हपत्ययोरिच्छन् २९

मूलम्

अन्तः पात्यगार्हपत्ययोरिच्छन् २९

विश्वास-प्रस्तुतिः

उत्तरपक्षस्यापरस्यां स्रक्त्यां परिश्रितो मिनोति जङ्घामात्रीं नाभिमात्रीं मुखमात्रीमिति मुखमात्रीमिति ३०

मूलम्

उत्तरपक्षस्यापरस्यां स्रक्त्यां परिश्रितो मिनोति जङ्घामात्रीं नाभिमात्रीं मुखमात्रीमिति मुखमात्रीमिति ३०