विश्वास-प्रस्तुतिः
आज्यं विश्वकर्मण इति जुहोति १
मूलम्
आज्यं विश्वकर्मण इति जुहोति १
विश्वास-प्रस्तुतिः
उत्थायादधाति समिधं पुनस्त्वेति २
मूलम्
उत्थायादधाति समिधं पुनस्त्वेति २
विश्वास-प्रस्तुतिः
गार्हपत्येऽनुगते निर्मथ्य ३
मूलम्
गार्हपत्येऽनुगते निर्मथ्य ३
विश्वास-प्रस्तुतिः
सुत्यास्वाहवनीये साङ्काशिनेन हृत्वा ४
मूलम्
सुत्यास्वाहवनीये साङ्काशिनेन हृत्वा ४
विश्वास-प्रस्तुतिः
आग्नीध्रीयमुत्तरेण सदः ५
मूलम्
आग्नीध्रीयमुत्तरेण सदः ५
विश्वास-प्रस्तुतिः
प्रवृञ्ज्यादावृतोख्ये ६
मूलम्
प्रवृञ्ज्यादावृतोख्ये ६
विश्वास-प्रस्तुतिः
अध्वरप्रायश्चितिं च सर्वेषु यथाकालं पूर्वां पूर्वाम् ७
मूलम्
अध्वरप्रायश्चितिं च सर्वेषु यथाकालं पूर्वां पूर्वाम् ७
विश्वास-प्रस्तुतिः
उखाभेदने नवस्थाल्यां महामुख्यामुखाकपालमवधायावपति ८
मूलम्
उखाभेदने नवस्थाल्यां महामुख्यामुखाकपालमवधायावपति ८
विश्वास-प्रस्तुतिः
उखोपशये पिष्ट्वा मृदा सहोखां करोत्यावृता ९
मूलम्
उखोपशये पिष्ट्वा मृदा सहोखां करोत्यावृता ९
विश्वास-प्रस्तुतिः
पक्वायामावपति कपालं च १०
मूलम्
पक्वायामावपति कपालं च १०
विश्वास-प्रस्तुतिः
उखोपशये पिष्ट्वा संसृज्य निदधाति ११
मूलम्
उखोपशये पिष्ट्वा संसृज्य निदधाति ११
विश्वास-प्रस्तुतिः
अभ्यात्मं चयनमुपविश्य १२
मूलम्
अभ्यात्मं चयनमुपविश्य १२
विश्वास-प्रस्तुतिः
सव्यं बाहुमन्तरं कृत्वोत्तरलक्षणाभिरिष्टकाभिः १३
मूलम्
सव्यं बाहुमन्तरं कृत्वोत्तरलक्षणाभिरिष्टकाभिः १३
विश्वास-प्रस्तुतिः
नित्ये सादनसूददोहसा उपधानादुत्तरे तया देवतया ता अस्येति १४
मूलम्
नित्ये सादनसूददोहसा उपधानादुत्तरे तया देवतया ता अस्येति १४
विश्वास-प्रस्तुतिः
अविशेषोपदेशात् १५
मूलम्
अविशेषोपदेशात् १५
विश्वास-प्रस्तुतिः
अनाम्नातप्रतिषेधाच्च १६
मूलम्
अनाम्नातप्रतिषेधाच्च १६
विश्वास-प्रस्तुतिः
एकचोदनास्वेकदेशासु तन्त्रेण १७
मूलम्
एकचोदनास्वेकदेशासु तन्त्रेण १७
विश्वास-प्रस्तुतिः
आत्मनि यजुष्मतीः १८
मूलम्
आत्मनि यजुष्मतीः १८
विश्वास-प्रस्तुतिः
लोकम्पृणामु दशसु दशसु मन्त्रो लोकं पृणेति १९
मूलम्
लोकम्पृणामु दशसु दशसु मन्त्रो लोकं पृणेति १९
विश्वास-प्रस्तुतिः
असादनं च २०
मूलम्
असादनं च २०
विश्वास-प्रस्तुतिः
प्रतिचिति द्वे द्वे उपधाय २१
मूलम्
प्रतिचिति द्वे द्वे उपधाय २१
विश्वास-प्रस्तुतिः
अयुग्मगणमध्यमाऽनूके २२
मूलम्
अयुग्मगणमध्यमाऽनूके २२
विश्वास-प्रस्तुतिः
एका च २३
मूलम्
एका च २३
विश्वास-प्रस्तुतिः
अभितो युग्माः २४
मूलम्
अभितो युग्माः २४
विश्वास-प्रस्तुतिः
उदञ्चो वर्गाः पूर्वापरे २५
मूलम्
उदञ्चो वर्गाः पूर्वापरे २५
विश्वास-प्रस्तुतिः
प्राञ्चो दक्षिणोत्तरे २६
मूलम्
प्राञ्चो दक्षिणोत्तरे २६
विश्वास-प्रस्तुतिः
भिन्नकृष्णयोरचयनम् २७
मूलम्
भिन्नकृष्णयोरचयनम् २७
विश्वास-प्रस्तुतिः
दीक्षाणामुत्तमेऽहनि वेद्यग्निमानम् २८
मूलम्
दीक्षाणामुत्तमेऽहनि वेद्यग्निमानम् २८
विश्वास-प्रस्तुतिः
उख्यस्थानेऽर्धव्यामेन गार्हपत्यस्य परिलिखति २९
मूलम्
उख्यस्थानेऽर्धव्यामेन गार्हपत्यस्य परिलिखति २९
विश्वास-प्रस्तुतिः
मण्डलाद्वा प्रक्रमणमन्तः पात्यस्य ३०
मूलम्
मण्डलाद्वा प्रक्रमणमन्तः पात्यस्य ३०
विश्वास-प्रस्तुतिः
पश्चाद्यूपावट्यात्पादमात्रे चित्यस्य ३१
मूलम्
पश्चाद्यूपावट्यात्पादमात्रे चित्यस्य ३१
विश्वास-प्रस्तुतिः
यजमानेनोर्ध्वबाहुप्रपदोच्छ्रितेन समस्थितेन वा ३२
मूलम्
यजमानेनोर्ध्वबाहुप्रपदोच्छ्रितेन समस्थितेन वा ३२