विश्वास-प्रस्तुतिः
उखाया भस्मोद्वपनमस्तमिते पात्रे १
मूलम्
उखाया भस्मोद्वपनमस्तमिते पात्रे १
विश्वास-प्रस्तुतिः
वाचं विसृज्य समिदाधानं रात्रीं रात्रीमप्रयावमिती २
मूलम्
वाचं विसृज्य समिदाधानं रात्रीं रात्रीमप्रयावमिती २
विश्वास-प्रस्तुतिः
एवमुदिते भस्मोद्वपनादि ३
मूलम्
एवमुदिते भस्मोद्वपनादि ३
विश्वास-प्रस्तुतिः
अहरहरित्याधानम् ४
मूलम्
अहरहरित्याधानम् ४
विश्वास-प्रस्तुतिः
विष्णुक्रमवात्सप्रे चाहर्व्यत्यासमुदिते समिधमाधाय ५
मूलम्
विष्णुक्रमवात्सप्रे चाहर्व्यत्यासमुदिते समिधमाधाय ५
विश्वास-प्रस्तुतिः
रुक्मप्रतिमोचनादि प्राग्वात्सप्राद्विष्णुक्रमाः ६
मूलम्
रुक्मप्रतिमोचनादि प्राग्वात्सप्राद्विष्णुक्रमाः ६
विश्वास-प्रस्तुतिः
सोमाऽविरोधेन वा तत्प्राधान्यात् ७
मूलम्
सोमाऽविरोधेन वा तत्प्राधान्यात् ७
विश्वास-प्रस्तुतिः
न्यज्य समिधं व्रते प्रत्ते प्रत्तेऽन्नपत इत्याधानम् ८
मूलम्
न्यज्य समिधं व्रते प्रत्ते प्रत्तेऽन्नपत इत्याधानम् ८
विश्वास-प्रस्तुतिः
संवत्सरभृतिनोऽसंवत्सरभृतेऽपि ९
मूलम्
संवत्सरभृतिनोऽसंवत्सरभृतेऽपि ९
विश्वास-प्रस्तुतिः
संवत्सरं सोष्यन्तः १०
मूलम्
संवत्सरं सोष्यन्तः १०
विश्वास-प्रस्तुतिः
संवत्सराऽऽहिताग्नेः ११
मूलम्
संवत्सराऽऽहिताग्नेः ११
विश्वास-प्रस्तुतिः
जातस्य च १२
मूलम्
जातस्य च १२
विश्वास-प्रस्तुतिः
षण्मास्यमन्त्यम् १३
मूलम्
षण्मास्यमन्त्यम् १३
विश्वास-प्रस्तुतिः
उचयनं वा परस्मै १४
मूलम्
उचयनं वा परस्मै १४
विश्वास-प्रस्तुतिः
प्रागनः कृत्वोख्यस्योत्तरतः समिदाधानं समिधाऽग्निमिति १५
मूलम्
प्रागनः कृत्वोख्यस्योत्तरतः समिदाधानं समिधाऽग्निमिति १५
विश्वास-प्रस्तुतिः
सासन्दीकमुद्यम्योदु त्वेति दक्षिणतोऽनसि करोति १६
मूलम्
सासन्दीकमुद्यम्योदु त्वेति दक्षिणतोऽनसि करोति १६
विश्वास-प्रस्तुतिः
स्थाल्यां गहिपत्यं पश्चात् १७
मूलम्
स्थाल्यां गहिपत्यं पश्चात् १७
विश्वास-प्रस्तुतिः
अनड्वाहौ युक्त्वा प्रेदग्न इति प्राङ्यात्वा यथार्थम् १८
मूलम्
अनड्वाहौ युक्त्वा प्रेदग्न इति प्राङ्यात्वा यथार्थम् १८
विश्वास-प्रस्तुतिः
आरोहेत्पार्श्वतो वा गच्छेत् १९
मूलम्
आरोहेत्पार्श्वतो वा गच्छेत् १९
विश्वास-प्रस्तुतिः
अक्षे खर्जत्यक्रन्ददग्निरिति जपति २०
मूलम्
अक्षे खर्जत्यक्रन्ददग्निरिति जपति २०
विश्वास-प्रस्तुतिः
वासेऽवहरत्युद्धतावोक्षित उत्तरतः समिधादानं प्रप्रेति २१
मूलम्
वासेऽवहरत्युद्धतावोक्षित उत्तरतः समिधादानं प्रप्रेति २१
विश्वास-प्रस्तुतिः
वनीवाहनमेतद्दीक्षासु यदेच्छेत् २२
मूलम्
वनीवाहनमेतद्दीक्षासु यदेच्छेत् २२
विश्वास-प्रस्तुतिः
अप्सूख्यभस्मावपनं क्रयणीयादौ २३
मूलम्
अप्सूख्यभस्मावपनं क्रयणीयादौ २३
विश्वास-प्रस्तुतिः
अन्यत्र चेच्छन् २४
मूलम्
अन्यत्र चेच्छन् २४
विश्वास-प्रस्तुतिः
ऊर्ध्वं वनीवाहनात्क्रमयोगात् २५
मूलम्
ऊर्ध्वं वनीवाहनात्क्रमयोगात् २५
विश्वास-प्रस्तुतिः
पलाशपुटेनापो देवीरित्येकया २६
मूलम्
पलाशपुटेनापो देवीरित्येकया २६
विश्वास-प्रस्तुतिः
ततो द्वाभ्याम् २७
मूलम्
ततो द्वाभ्याम् २७
विश्वास-प्रस्तुतिः
आद्याभ्यां वा पूर्वम् २८
मूलम्
आद्याभ्यां वा पूर्वम् २८
विश्वास-प्रस्तुतिः
अनामिकया प्रास्तादादत्ते प्रसद्येति २९
मूलम्
अनामिकया प्रास्तादादत्ते प्रसद्येति २९
विश्वास-प्रस्तुतिः
प्रास्योखायामुपतिष्ठते बोधा म इति ३०
मूलम्
प्रास्योखायामुपतिष्ठते बोधा म इति ३०
विश्वास-प्रस्तुतिः
प्रायश्चितिं समिधोपहत्य ३१
मूलम्
प्रायश्चितिं समिधोपहत्य ३१