विश्वास-प्रस्तुतिः
यजमानः कण्ठे रुक्मं प्रतिमुञ्चते परिमण्डलमेकविंशतिपिण्डं कृष्णाजिननिष्यूतं लोमसु शुक्लकृष्णेषु शणसूत्रे त्रिवृत्योतमुपरिनाभि बहिष्पिण्डं दृशानो रुक्म्त इति १
मूलम्
यजमानः कण्ठे रुक्मं प्रतिमुञ्चते परिमण्डलमेकविंशतिपिण्डं कृष्णाजिननिष्यूतं लोमसु शुक्लकृष्णेषु शणसूत्रे त्रिवृत्योतमुपरिनाभि बहिष्पिण्डं दृशानो रुक्म्त इति १
विश्वास-प्रस्तुतिः
इण्ड्वशिक्यासन्दीषु मुञ्जरज्जवस्त्रिवृतो मृद्दिग्धाः २
मूलम्
इण्ड्वशिक्यासन्दीषु मुञ्जरज्जवस्त्रिवृतो मृद्दिग्धाः २
विश्वास-प्रस्तुतिः
परिमण्डलाभ्यामिण्ड्वाभ्यामुखां परिगृह्णाति नक्तोषासेति ३
मूलम्
परिमण्डलाभ्यामिण्ड्वाभ्यामुखां परिगृह्णाति नक्तोषासेति ३
विश्वास-प्रस्तुतिः
हरति द्यावाक्षामेति ४
मूलम्
हरति द्यावाक्षामेति ४
विश्वास-प्रस्तुतिः
आहवनीयस्य पुरस्तादुद्गात्रासन्दीवदासन्द्यां चतुरश्राङ्ग्यां शिक्यवत्या निदधाति देवा अग्निमिति ५
मूलम्
आहवनीयस्य पुरस्तादुद्गात्रासन्दीवदासन्द्यां चतुरश्राङ्ग्यां शिक्यवत्या निदधाति देवा अग्निमिति ५
विश्वास-प्रस्तुतिः
शिक्यपाशं प्रतिमुञ्चते षडुद्यामं विश्वा रूपाणीति ६
मूलम्
शिक्यपाशं प्रतिमुञ्चते षडुद्यामं विश्वा रूपाणीति ६
विश्वास-प्रस्तुतिः
सशिक्यं प्राञ्चं प्र गृह्णाति सुपर्णोऽसीति पिण्डवत् ७
मूलम्
सशिक्यं प्राञ्चं प्र गृह्णाति सुपर्णोऽसीति पिण्डवत् ७
विश्वास-प्रस्तुतिः
धारणं च ८
मूलम्
धारणं च ८
विश्वास-प्रस्तुतिः
एतया विकृत्याऽभिमन्त्र्यैकेऽन्यचितिं चिन्वन्ति द्रो णचिद्र थचक्रचित्कङ्कचित्प्रउगचिदुभयतः प्रउगः समुह्यपुरीष इति ९
मूलम्
एतया विकृत्याऽभिमन्त्र्यैकेऽन्यचितिं चिन्वन्ति द्रो णचिद्र थचक्रचित्कङ्कचित्प्रउगचिदुभयतः प्रउगः समुह्यपुरीष इति ९
विश्वास-प्रस्तुतिः
समुह्यपुरीषे प्रतिदिशं पुरीषहिरण्यम् १०
मूलम्
समुह्यपुरीषे प्रतिदिशं पुरीषहिरण्यम् १०
विश्वास-प्रस्तुतिः
विष्णुक्रमान्क्रमते विष्णोरिति प्रतिमन्त्रम् ११
मूलम्
विष्णुक्रमान्क्रमते विष्णोरिति प्रतिमन्त्रम् ११
विश्वास-प्रस्तुतिः
अग्न्युद्ग्रभणं च तस्मिंस्तस्मिन् १२
मूलम्
अग्न्युद्ग्रभणं च तस्मिंस्तस्मिन् १२
विश्वास-प्रस्तुतिः
अक्रमश्चतुर्थे १३
मूलम्
अक्रमश्चतुर्थे १३
विश्वास-प्रस्तुतिः
दिशो वीक्षते दिशोऽनुविक्रमस्वेति १४
मूलम्
दिशो वीक्षते दिशोऽनुविक्रमस्वेति १४
विश्वास-प्रस्तुतिः
पिण्डवत्प्रागुदञ्चं प्रगृह्णात्यक्रन्ददग्निरिति १५
मूलम्
पिण्डवत्प्रागुदञ्चं प्रगृह्णात्यक्रन्ददग्निरिति १५
विश्वास-प्रस्तुतिः
अवहरत्यग्नेऽभ्यावर्त्तिन्निति १६
मूलम्
अवहरत्यग्नेऽभ्यावर्त्तिन्निति १६
विश्वास-प्रस्तुतिः
उपरिनाभि धारयन्ना त्वाहार्षभित्यभिमन्त्रयते १७
मूलम्
उपरिनाभि धारयन्ना त्वाहार्षभित्यभिमन्त्रयते १७
विश्वास-प्रस्तुतिः
पाशा उन्मुच्योदुत्तममिति १८
मूलम्
पाशा उन्मुच्योदुत्तममिति १८
विश्वास-प्रस्तुतिः
पिण्डवत्प्राग्दक्षिणा प्रगृह्णात्यग्रे बृहन्निति १९
मूलम्
पिण्डवत्प्राग्दक्षिणा प्रगृह्णात्यग्रे बृहन्निति १९
विश्वास-प्रस्तुतिः
अवहरति हंसः शुचिषदिति २०
मूलम्
अवहरति हंसः शुचिषदिति २०
विश्वास-प्रस्तुतिः
आसन्द्यां करोति बृहदिति २१
मूलम्
आसन्द्यां करोति बृहदिति २१
विश्वास-प्रस्तुतिः
उपतिष्ठते सीद त्वमिति २२
मूलम्
उपतिष्ठते सीद त्वमिति २२
विश्वास-प्रस्तुतिः
वात्सप्रेण च दिवस्परीत्येकादशभिः २३
मूलम्
वात्सप्रेण च दिवस्परीत्येकादशभिः २३
विश्वास-प्रस्तुतिः
अनुवाकेनैके २४
मूलम्
अनुवाकेनैके २४
विश्वास-प्रस्तुतिः
अत्र दीक्षितोऽयमिति २५
मूलम्
अत्र दीक्षितोऽयमिति २५
विश्वास-प्रस्तुतिः
आवृत्तिरतः संवत्सरम् २६
मूलम्
आवृत्तिरतः संवत्सरम् २६