विश्वास-प्रस्तुतिः

स्तनानिवाऽग्रेषून्नयति १

मूलम्

स्तनानिवाऽग्रेषून्नयति १

विश्वास-प्रस्तुतिः

द्विस्तनामष्टस्तनामेके २

मूलम्

द्विस्तनामष्टस्तनामेके २

विश्वास-प्रस्तुतिः

बिलं गृह्णात्यदितिष्ट इति ३

मूलम्

बिलं गृह्णात्यदितिष्ट इति ३

विश्वास-प्रस्तुतिः

कृत्वायेति निदधाति ४

मूलम्

कृत्वायेति निदधाति ४

विश्वास-प्रस्तुतिः

तिस्र एके ५

मूलम्

तिस्र एके ५

विश्वास-प्रस्तुतिः

इष्टकास्तु तिस्रो विश्वज्योतिषः पृथग्लक्षणास्त्र्यालिखिताः ६

मूलम्

इष्टकास्तु तिस्रो विश्वज्योतिषः पृथग्लक्षणास्त्र्यालिखिताः ६

विश्वास-प्रस्तुतिः

मृदमुपशयां निदधाति ७

मूलम्

मृदमुपशयां निदधाति ७

विश्वास-प्रस्तुतिः

सप्तभिरश्वशकृद्भिरुखां धूपयति दक्षिणाग्न्यादीप्तैरेकैकेन वसवस्त्वेति प्रतिमन्त्रम् ८

मूलम्

सप्तभिरश्वशकृद्भिरुखां धूपयति दक्षिणाग्न्यादीप्तैरेकैकेन वसवस्त्वेति प्रतिमन्त्रम् ८

विश्वास-प्रस्तुतिः

अभ्र्या श्वभ्रं चतुरश्रं खनत्यदितिष्ट्वेति ९

मूलम्

अभ्र्या श्वभ्रं चतुरश्रं खनत्यदितिष्ट्वेति ९

विश्वास-प्रस्तुतिः

श्रपणमास्तीर्य यथाकृतमवदधाति १०

मूलम्

श्रपणमास्तीर्य यथाकृतमवदधाति १०

विश्वास-प्रस्तुतिः

देवानां त्वेत्युखां त्युब्जाम् ११

मूलम्

देवानां त्वेत्युखां त्युब्जाम् ११

विश्वास-प्रस्तुतिः

श्रपणेनाऽवच्छाद्य दक्षिणाग्न्यग्निना दीपयति धिषणास्त्वेति १२

मूलम्

श्रपणेनाऽवच्छाद्य दक्षिणाग्न्यग्निना दीपयति धिषणास्त्वेति १२

विश्वास-प्रस्तुतिः

निर्मन्थ्येन वा धूपनश्रपणे १३

मूलम्

निर्मन्थ्येन वा धूपनश्रपणे १३

विश्वास-प्रस्तुतिः

वरूत्रीष्ट्वेतीक्षमाणो जपति १४

मूलम्

वरूत्रीष्ट्वेतीक्षमाणो जपति १४

विश्वास-प्रस्तुतिः

आचरति मित्रस्येति १५

मूलम्

आचरति मित्रस्येति १५

विश्वास-प्रस्तुतिः

यावदाचरेत् १६

मूलम्

यावदाचरेत् १६

विश्वास-प्रस्तुतिः

दिवैव प्रदहनोद्धरणे १७

मूलम्

दिवैव प्रदहनोद्धरणे १७

विश्वास-प्रस्तुतिः

उद्वपति श्रपणम् १८

मूलम्

उद्वपति श्रपणम् १८

विश्वास-प्रस्तुतिः

देवस्त्वेत्युखाम् १९

मूलम्

देवस्त्वेत्युखाम् १९

विश्वास-प्रस्तुतिः

उत्तानां करोत्यव्यथमानेति २०

मूलम्

उत्तानां करोत्यव्यथमानेति २०

विश्वास-प्रस्तुतिः

उद्यच्छत्युत्थायेति २१

मूलम्

उद्यच्छत्युत्थायेति २१

विश्वास-प्रस्तुतिः

परिगृह्य पात्रे करोति मित्रैतां त इति २२

मूलम्

परिगृह्य पात्रे करोति मित्रैतां त इति २२

विश्वास-प्रस्तुतिः

अजापयसाऽवसिञ्चति वसवस्त्वेति प्रतिमन्त्रम् २३

मूलम्

अजापयसाऽवसिञ्चति वसवस्त्वेति प्रतिमन्त्रम् २३

विश्वास-प्रस्तुतिः

इष्टकाक्रियाऽतस्त्र्यालिखितानाम् २४

मूलम्

इष्टकाक्रियाऽतस्त्र्यालिखितानाम् २४

विश्वास-प्रस्तुतिः

अपरिमिताऽऽलिखिता वोत्तरयोः २५

मूलम्

अपरिमिताऽऽलिखिता वोत्तरयोः २५

विश्वास-प्रस्तुतिः

पूर्ववदग्निः पाके २६

मूलम्

पूर्ववदग्निः पाके २६

विश्वास-प्रस्तुतिः

दीक्षाऽऽमावास्यायामामावास्येनेष्ट्वा २७

मूलम्

दीक्षाऽऽमावास्यायामामावास्येनेष्ट्वा २७

विश्वास-प्रस्तुतिः

आग्नावैष्णववैश्वानरौ २८

मूलम्

आग्नावैष्णववैश्वानरौ २८

विश्वास-प्रस्तुतिः

घृते चरुरादित्येभ्यः २९

मूलम्

घृते चरुरादित्येभ्यः २९

विश्वास-प्रस्तुतिः

प्राकृतान्यौद्ग्रभणानि हुत्वा सप्ताग्निकान्याकूतिमितिप्रतिमन्त्रम् ३०

मूलम्

प्राकृतान्यौद्ग्रभणानि हुत्वा सप्ताग्निकान्याकूतिमितिप्रतिमन्त्रम् ३०

विश्वास-प्रस्तुतिः

दण्डोच्छ्रयणान्तं कृत्वाऽध्वर्युयजमानयोरन्यतर उखामाहवनीयेऽधिश्रयति मुञ्जकुलायशणकुलायावस्तीर्णामन्तरे शणां मा सु भित्था इति तिष्ठन्नुदङ् प्राङ् ३१

मूलम्

दण्डोच्छ्रयणान्तं कृत्वाऽध्वर्युयजमानयोरन्यतर उखामाहवनीयेऽधिश्रयति मुञ्जकुलायशणकुलायावस्तीर्णामन्तरे शणां मा सु भित्था इति तिष्ठन्नुदङ् प्राङ् ३१

विश्वास-प्रस्तुतिः

रुक्मप्रतिमोचनविष्णुक्रमवात्सप्रेषु च ३२

मूलम्

रुक्मप्रतिमोचनविष्णुक्रमवात्सप्रेषु च ३२

विश्वास-प्रस्तुतिः

अग्नावारूढे त्रयोदशास्यां प्रादेशमात्रीः समिध आदधाति ३३

मूलम्

अग्नावारूढे त्रयोदशास्यां प्रादेशमात्रीः समिध आदधाति ३३

विश्वास-प्रस्तुतिः

अनारोहत्यङ्गारानोप्यैके ३४

मूलम्

अनारोहत्यङ्गारानोप्यैके ३४

विश्वास-प्रस्तुतिः

घृतोन्नां कार्मुकीं द्र् वन्न इति ३५

मूलम्

घृतोन्नां कार्मुकीं द्र् वन्न इति ३५

विश्वास-प्रस्तुतिः

वैकङ्कतीं परस्या इति ३६

मूलम्

वैकङ्कतीं परस्या इति ३६

विश्वास-प्रस्तुतिः

औदुम्बरीं परमस्या इति ३७

मूलम्

औदुम्बरीं परमस्या इति ३७

विश्वास-प्रस्तुतिः

अपरशुवृक्णां यदग्न इति ३८

मूलम्

अपरशुवृक्णां यदग्न इति ३८

विश्वास-प्रस्तुतिः

अधःशयां यदत्तीति ३९

मूलम्

अधःशयां यदत्तीति ३९

विश्वास-प्रस्तुतिः

पालाशीः प्रत्यृचमहरहरिति ४०

मूलम्

पालाशीः प्रत्यृचमहरहरिति ४०

विश्वास-प्रस्तुतिः

उपोत्तमां क्षत्रियस्येच्छन् ४१

मूलम्

उपोत्तमां क्षत्रियस्येच्छन् ४१

विश्वास-प्रस्तुतिः

उत्तमां पुरोहितस्य ४२

मूलम्

उत्तमां पुरोहितस्य ४२

विश्वास-प्रस्तुतिः

अन्यस्योभे ४३

मूलम्

अन्यस्योभे ४३

विश्वास-प्रस्तुतिः

स्वाहाकारः सर्वासूखायाम् ४४

मूलम्

स्वाहाकारः सर्वासूखायाम् ४४

विश्वास-प्रस्तुतिः

औद्ग्रभणादि दण्डान्तमत्रैके ४५

मूलम्

औद्ग्रभणादि दण्डान्तमत्रैके ४५