विश्वास-प्रस्तुतिः
पाणिभ्यां परिगृह्णात्येनं दक्षिणोत्तराभ्यां दक्षिणः साभ्रिस्त्वामग्न इति षड्भिः सर्व सकृद् धृत्वा पुष्करपर्णे निदधाति १
मूलम्

अपः श्वभ्रेऽवनयत्यपो देवीरिति २
मूलम्
अपः श्वभ्रेऽवनयत्यपो देवीरिति २
विश्वास-प्रस्तुतिः
सं त इति वातमपक्षिपति ३
मूलम्
सं त इति वातमपक्षिपति ३
विश्वास-प्रस्तुतिः
अनामिकया संवपति पुरस्तात्पश्चाद्दक्षिणत उत्तरतश्च ४

आस्तीर्णयोरन्तानुद्गृह्णाति सुजात इति ५
मूलम्
आस्तीर्णयोरन्तानुद्गृह्णाति सुजात इति ५
विश्वास-प्रस्तुतिः
त्रिवृत्ता मुञ्जयोक्त्रेणोपनह्यति वासो अग्न इति ६

उत्तिष्ठति पिण्डमादायोदु तिष्ठेति ७
मूलम्
उत्तिष्ठति पिण्डमादायोदु तिष्ठेति ७
विश्वास-प्रस्तुतिः
ऊर्ध्वबाहुः प्राञ्चं प्रगृह्णात्यूर्ध्व ऊ षु ण इति ८

अवहृत्योपरिनाभि धारयन्नश्वप्रभृतीनभिमन्त्रयते स जातो स्थिरो भव शिवो भवेति ९

धारयत्येषामुपरि पिण्डमनुपस्पृशन्प्रैतु वाजी वृषाऽग्निमित्यश्वखरयोः १०

अग्न आयाहीत्याहृत्य खराच्छागस्यर्तं सत्यमित्या निधानात् ११

आयन्त्यावर्त्य पशूनजः पुरस्ताद्रा सभो मध्ये १२

अनद्धापुरुषमीक्षते पूर्ववदग्निं पुरीष्यमिति १३

उत्तरत आहवनीयस्योद्धतावोक्षिते सिकतोपकीर्णे परिवृते प्राग्द्वारे पिण्डं निदधात्योषधय इति १४

निपाजसेति प्रमुच्यैनमजलोमान्यादाय प्रागुदीचः पशूनुत्सृजति १५

आपो हि ष्ठेति पर्णकषायपक्वमुदकमासिञ्चति पिण्डे १६

फेनं च तूष्णीं ततः कृत्वा १७
मूलम्
फेनं च तूष्णीं ततः कृत्वा १७
विश्वास-प्रस्तुतिः
अजलोमभिः संसृजति मित्रं संसृज्येति १८
मूलम्
अजलोमभिः संसृजति मित्रं संसृज्येति १८
विश्वास-प्रस्तुतिः
शर्करायोरसाश्मचूर्णैश्च रुद्राःसंसृज्येति १९

सं सृष्टामिति संयौति २०
मूलम्
सं सृष्टामिति संयौति २०
विश्वास-प्रस्तुतिः
अषाढां करोति महिषी प्रथमसंवित्ता तदाख्या २१

यजमानपादमात्रीं त्र्यालिखिताम् २२
मूलम्
यजमानपादमात्रीं त्र्यालिखिताम् २२
विश्वास-प्रस्तुतिः
यजमान उखां करोति मृदमादाय मखस्य शिर इति २३

प्रादेशमात्रीं तिर्यगूद्र् ह्वां च २४
मूलम्
प्रादेशमात्रीं तिर्यगूद्र् ह्वां च २४
विश्वास-प्रस्तुतिः
पञ्चप्रादेशामिषुमात्रीं वा तिर्यक् पञ्चपशौ २५

वसवस्त्वेति प्रथयति २६
मूलम्
वसवस्त्वेति प्रथयति २६
विश्वास-प्रस्तुतिः
अन्तानुन्नीय सर्वतः प्रथमं धातुमादधाति रुद्रा स्त्वेति २७

संलिप्य श्लक्ष्णां कृत्वोत्तरमादित्यास्त्वेति २८

विश्वे त्वेति समीकरोति २९
मूलम्
विश्वे त्वेति समीकरोति २९
विश्वास-प्रस्तुतिः
वितृतीय उत्तरे वर्तिः सर्वतः करोत्यदित्यै रास्नेति ३०

ऊर्ध्वास्तूष्णीं प्रतिदिशं चतस्रोऽपरा वर्ति प्राप्ताः ३१