विश्वास-प्रस्तुतिः
उखासम्भरणमष्टम्याम् १
मूलम्
उखासम्भरणमष्टम्याम् १
विश्वास-प्रस्तुतिः
आहवनीयस्य पुरस्तान्मत्या चतुरस्रे श्वभ्रे मृत्पिण्डमवदधाति भूमिसमम् २
मूलम्
आहवनीयस्य पुरस्तान्मत्या चतुरस्रे श्वभ्रे मृत्पिण्डमवदधाति भूमिसमम् २
विश्वास-प्रस्तुतिः
पिण्डमपरेण व्यध्वे वल्मीकवपां छिद्रा ंनिदधाति ३
मूलम्
पिण्डमपरेण व्यध्वे वल्मीकवपां छिद्रा ंनिदधाति ३
विश्वास-प्रस्तुतिः
आहवनीयं दक्षिणेन त्रिवृन्मुञ्जपञ्चाङ्गीबद्धास्तिष्ठन्ति प्राञ्चोऽश्वगर्दभाजाः पूर्वापरा रासभो मध्येऽश्वपूर्वाः ४
मूलम्
आहवनीयं दक्षिणेन त्रिवृन्मुञ्जपञ्चाङ्गीबद्धास्तिष्ठन्ति प्राञ्चोऽश्वगर्दभाजाः पूर्वापरा रासभो मध्येऽश्वपूर्वाः ४
विश्वास-प्रस्तुतिः
उत्तरत आहवनीयस्याऽरत्निमात्र उभयतस्तीक्ष्णा वैणवीसुषिराऽभ्रिः कल्माष्यभावेऽकल्माषी प्रादेशमात्र्यरत्निमात्री वा ५
मूलम्
उत्तरत आहवनीयस्याऽरत्निमात्र उभयतस्तीक्ष्णा वैणवीसुषिराऽभ्रिः कल्माष्यभावेऽकल्माषी प्रादेशमात्र्यरत्निमात्री वा ५
विश्वास-प्रस्तुतिः
हिरण्मयीमेके ६
मूलम्
हिरण्मयीमेके ६
विश्वास-प्रस्तुतिः
अष्टगृहीतं जुहोति सन्ततमुद्गृह्णन्युञ्जान इति ७
मूलम्
अष्टगृहीतं जुहोति सन्ततमुद्गृह्णन्युञ्जान इति ७
विश्वास-प्रस्तुतिः
देवस्य त्वेत्यभ्रिमादाय हस्त आधायेत्येनामभिमन्त्रयते ८
मूलम्
देवस्य त्वेत्यभ्रिमादाय हस्त आधायेत्येनामभिमन्त्रयते ८
विश्वास-प्रस्तुतिः
अश्वप्रभृतींश्च प्रत्यृचं प्रतूर्तं युञ्जाथां योगे योग इति ९
मूलम्
अश्वप्रभृतींश्च प्रत्यृचं प्रतूर्तं युञ्जाथां योगे योग इति ९
विश्वास-प्रस्तुतिः
अनुस्पृशन्नुत्क्रमयत्येनान्प्राचः प्रतिमन्त्रं प्रतूर्वन्नुर्वन्तरिक्षं पृथिव्याः सधस्थादिति १०
मूलम्
अनुस्पृशन्नुत्क्रमयत्येनान्प्राचः प्रतिमन्त्रं प्रतूर्वन्नुर्वन्तरिक्षं पृथिव्याः सधस्थादिति १०
विश्वास-प्रस्तुतिः
अग्निषु ज्वलत्सु पिण्डं गच्छन्त्यग्निं पुरीष्यमिति ११
मूलम्
अग्निषु ज्वलत्सु पिण्डं गच्छन्त्यग्निं पुरीष्यमिति ११
विश्वास-प्रस्तुतिः
दक्षिणतश्च पशवो युगपत् १२
मूलम्
दक्षिणतश्च पशवो युगपत् १२
विश्वास-प्रस्तुतिः
अनद्धापुरुषमीक्षते देवपितृमनुष्याऽनर्थकमग्निं पुरीष्यमिति १३
मूलम्
अनद्धापुरुषमीक्षते देवपितृमनुष्याऽनर्थकमग्निं पुरीष्यमिति १३
विश्वास-प्रस्तुतिः
वल्मीकवपामादाय छिद्रे ण पिण्डमीक्षतेऽन्वग्निरिति १४
मूलम्
वल्मीकवपामादाय छिद्रे ण पिण्डमीक्षतेऽन्वग्निरिति १४
विश्वास-प्रस्तुतिः
दृष्ट्वा निदधात्येनाम् १५
मूलम्
दृष्ट्वा निदधात्येनाम् १५
विश्वास-प्रस्तुतिः
आगत्येत्यभिमन्त्रयतेऽश्वम् १६
मूलम्
आगत्येत्यभिमन्त्रयतेऽश्वम् १६
विश्वास-प्रस्तुतिः
आक्रम्येत्यनेन पिण्डमधिष्ठापयति १७
मूलम्
आक्रम्येत्यनेन पिण्डमधिष्ठापयति १७
विश्वास-प्रस्तुतिः
द्यौस्त इति पृष्ठस्योपरि पाणिं धारयन्ननुपस्पृशन् १८
मूलम्
द्यौस्त इति पृष्ठस्योपरि पाणिं धारयन्ननुपस्पृशन् १८
विश्वास-प्रस्तुतिः
उत्क्रामेत्युत्क्रमयति १९
मूलम्
उत्क्रामेत्युत्क्रमयति १९
विश्वास-प्रस्तुतिः
उदक्रमीदित्यभिमन्त्रयते २०
मूलम्
उदक्रमीदित्यभिमन्त्रयते २०
विश्वास-प्रस्तुतिः
आहवनीयवत् स्थापयति पिण्डस्य २१
मूलम्
आहवनीयवत् स्थापयति पिण्डस्य २१
विश्वास-प्रस्तुतिः
उपविश्य मृदमभिजुहोत्या त्वा जिघर्मीति व्यतिषक्ताभ्यामृग्भ्यामाहुती स्रुवेणाश्वपदे २२
मूलम्
उपविश्य मृदमभिजुहोत्या त्वा जिघर्मीति व्यतिषक्ताभ्यामृग्भ्यामाहुती स्रुवेणाश्वपदे २२
विश्वास-प्रस्तुतिः
अभ्र्या पिण्डं त्रिः परिलिखति परि वाजपतिरिति बहिर्बहिरुत्तरयोत्तरया २३
मूलम्
अभ्र्या पिण्डं त्रिः परिलिखति परि वाजपतिरिति बहिर्बहिरुत्तरयोत्तरया २३
विश्वास-प्रस्तुतिः
अभ्र्या पिण्डं खनति देवस्य त्वेति २४
मूलम्
अभ्र्या पिण्डं खनति देवस्य त्वेति २४
विश्वास-प्रस्तुतिः
कृष्णाजिनमास्तीर्योत्तरतः २५
मूलम्
कृष्णाजिनमास्तीर्योत्तरतः २५
विश्वास-प्रस्तुतिः
तस्मिन्पुष्करपर्णमपां पृष्ठमिति २६
मूलम्
तस्मिन्पुष्करपर्णमपां पृष्ठमिति २६
विश्वास-प्रस्तुतिः
विमार्ष्ट्येनद्दिव इति २७
मूलम्
विमार्ष्ट्येनद्दिव इति २७
विश्वास-प्रस्तुतिः
आलभत उभे शर्म च स्थ इति २८
मूलम्
आलभत उभे शर्म च स्थ इति २८
विश्वास-प्रस्तुतिः
पिण्डं पुरीष्योऽसीति २९
मूलम्
पिण्डं पुरीष्योऽसीति २९