(चयनम्)
विश्वास-प्रस्तुतिः
अग्निः सोमाङ्गं तद्गुणव्यतिषङ्गात् १
मूलम्
अग्निः सोमाङ्गं तद्गुणव्यतिषङ्गात् १
विश्वास-प्रस्तुतिः
इच्छतः समहाव्रते नियमः २
मूलम्
इच्छतः समहाव्रते नियमः २
विश्वास-प्रस्तुतिः
न प्रथमाहारे ३
मूलम्
न प्रथमाहारे ३
विश्वास-प्रस्तुतिः
उत्तरवेद्यग्निनिधानात् ४
मूलम्
उत्तरवेद्यग्निनिधानात् ४
विश्वास-प्रस्तुतिः
चिकीर्षमाण उत्तरस्यां फाल्गुन्यां पौर्णमासेनेष्ट्वा पञ्च पशूनालभतेऽदक्षिणान् ५
मूलम्
चिकीर्षमाण उत्तरस्यां फाल्गुन्यां पौर्णमासेनेष्ट्वा पञ्च पशूनालभतेऽदक्षिणान् ५
विश्वास-प्रस्तुतिः
ब्रह्मणे वा दद्यात् ६
मूलम्
ब्रह्मणे वा दद्यात् ६
विश्वास-प्रस्तुतिः
अमावास्यायामेके ७
मूलम्
अमावास्यायामेके ७
विश्वास-प्रस्तुतिः
अग्निभ्यः कामाय पुरुषाऽऽश्वगोऽव्यजान् ८
मूलम्
अग्निभ्यः कामाय पुरुषाऽऽश्वगोऽव्यजान् ८
विश्वास-प्रस्तुतिः
वर्षिष्ठरशनः पुरुषोऽनुपूर्व्या इतरेषाम् ९
मूलम्
वर्षिष्ठरशनः पुरुषोऽनुपूर्व्या इतरेषाम् ९
विश्वास-प्रस्तुतिः
सर्वेषां वा तुल्याः १०
मूलम्
सर्वेषां वा तुल्याः १०
विश्वास-प्रस्तुतिः
समिध्यमानसमिद्धवत्यन्तरे समास्त्वाग्न इति नव दधाति ११
मूलम्
समिध्यमानसमिद्धवत्यन्तरे समास्त्वाग्न इति नव दधाति ११
विश्वास-प्रस्तुतिः
आप्रियो द्वादशोर्ध्वा अस्येति १२
मूलम्
आप्रियो द्वादशोर्ध्वा अस्येति १२
विश्वास-प्रस्तुतिः
एकादशान्ते शासप्रैषादि करोति १३
मूलम्
एकादशान्ते शासप्रैषादि करोति १३
विश्वास-प्रस्तुतिः
परिवृते पुरुषसञ्ज्ञपनम् १४
मूलम्
परिवृते पुरुषसञ्ज्ञपनम् १४
विश्वास-प्रस्तुतिः
अजस्य शुन्धति प्रचरणयोगात् १५
मूलम्
अजस्य शुन्धति प्रचरणयोगात् १५
विश्वास-प्रस्तुतिः
सर्वेषां वाऽविशेषात् १६
मूलम्
सर्वेषां वाऽविशेषात् १६
विश्वास-प्रस्तुतिः
वैश्यः पुरुषो राजन्यो वा १७
मूलम्
वैश्यः पुरुषो राजन्यो वा १७
विश्वास-प्रस्तुतिः
कण्ठेषु तृणमन्तर्धाय शिरांस्यादत्ते १८
मूलम्
कण्ठेषु तृणमन्तर्धाय शिरांस्यादत्ते १८
विश्वास-प्रस्तुतिः
चतुर्णामप्सु कायप्रासनम् १९
मूलम्
चतुर्णामप्सु कायप्रासनम् १९
विश्वास-प्रस्तुतिः
ततो मृदिष्टकार्थापश्च २०
मूलम्
ततो मृदिष्टकार्थापश्च २०
विश्वास-प्रस्तुतिः
अजेन चरति २१
मूलम्
अजेन चरति २१
विश्वास-प्रस्तुतिः
संस्थिते तस्य शेषप्रासनम् २२
मूलम्
संस्थिते तस्य शेषप्रासनम् २२
विश्वास-प्रस्तुतिः
सर्वैरेके २३
मूलम्
सर्वैरेके २३
विश्वास-प्रस्तुतिः
एकस्याऽपि किं ततः सम्भरेदिति श्रुतेः २४
मूलम्
एकस्याऽपि किं ततः सम्भरेदिति श्रुतेः २४
विश्वास-प्रस्तुतिः
वैश्वानरः पशुपुरोडाश उपांशु २५
मूलम्
वैश्वानरः पशुपुरोडाश उपांशु २५
विश्वास-प्रस्तुतिः
पशुदेवता च २६
मूलम्
पशुदेवता च २६
विश्वास-प्रस्तुतिः
आग्नेय्यो याज्याऽनुवाक्याः कामवत्यः २७
मूलम्
आग्नेय्यो याज्याऽनुवाक्याः कामवत्यः २७
विश्वास-प्रस्तुतिः
मैथुनं वर्जयेदा पयस्यायाः २८
मूलम्
मैथुनं वर्जयेदा पयस्यायाः २८
विश्वास-प्रस्तुतिः
मांसोपर्यासने चेच्छन् २९
मूलम्
मांसोपर्यासने चेच्छन् २९
विश्वास-प्रस्तुतिः
त्वङ्मस्तिष्कोद्धृतानि घृताक्तानि शिरांसि निदधाति ३०
मूलम्
त्वङ्मस्तिष्कोद्धृतानि घृताक्तानि शिरांसि निदधाति ३०
विश्वास-प्रस्तुतिः
सकलानि वा ३१
मूलम्
सकलानि वा ३१
विश्वास-प्रस्तुतिः
अन्यानि वा ३२
मूलम्
अन्यानि वा ३२
विश्वास-प्रस्तुतिः
हिरण्यमयानि वा मृन्मयानि वा अनालभ्यैतान् ३५
मूलम्
हिरण्यमयानि वा मृन्मयानि वा अनालभ्यैतान् ३५
विश्वास-प्रस्तुतिः
श्यामतूपरो वा प्राजापत्यः ३६
मूलम्
श्यामतूपरो वा प्राजापत्यः ३६
विश्वास-प्रस्तुतिः
षड् दध्यात् ३७
मूलम्
षड् दध्यात् ३७
विश्वास-प्रस्तुतिः
हिरण्यगर्भ इत्यृचा स्रुवाऽऽघारः ३८
मूलम्
हिरण्यगर्भ इत्यृचा स्रुवाऽऽघारः ३८
विश्वास-प्रस्तुतिः
पूर्वो वा देवतासामान्यात् ३९
मूलम्
पूर्वो वा देवतासामान्यात् ३९
विश्वास-प्रस्तुतिः
उत्तरे तु सामान्ययोपदेशाभ्याम् ४०
मूलम्
उत्तरे तु सामान्ययोपदेशाभ्याम् ४०
विश्वास-प्रस्तुतिः
वायवे वा नियुत्वते श्वेतलप्सुदी द्वे दध्यात् ४१
मूलम्
वायवे वा नियुत्वते श्वेतलप्सुदी द्वे दध्यात् ४१
विश्वास-प्रस्तुतिः
प्राजापत्यः पशुपुरोडाशो द्वादशकपाल उभयोः कद्वत्यो याज्याऽनुवाक्याः प्राजापत्यस्य ४३
मूलम्
प्राजापत्यः पशुपुरोडाशो द्वादशकपाल उभयोः कद्वत्यो याज्याऽनुवाक्याः प्राजापत्यस्य ४३
विश्वास-प्रस्तुतिः
शुक्लवत्यो वायव्यस्य ४४
मूलम्
शुक्लवत्यो वायव्यस्य ४४
विश्वास-प्रस्तुतिः
वपाया वा ४५
मूलम्
वपाया वा ४५
विश्वास-प्रस्तुतिः
तुल्यमन्यत्सर्वेषु ४६
मूलम्
तुल्यमन्यत्सर्वेषु ४६