विश्वास-प्रस्तुतिः
उत्तरे शुक्ले पञ्चविलः १
मूलम्
उत्तरे शुक्ले पञ्चविलः १
विश्वास-प्रस्तुतिः
आग्नेय ऐन्द्रःसौम्यो वा वैश्वदेवश्चरुः पयस्या मैत्रावरुणी बार्हस्पत्यश्चरुः २
मूलम्
आग्नेय ऐन्द्रःसौम्यो वा वैश्वदेवश्चरुः पयस्या मैत्रावरुणी बार्हस्पत्यश्चरुः २
विश्वास-प्रस्तुतिः
प्रतिदिशमासादनमाग्नेयं पुरस्तात्प्रदक्षिणमितराणि मध्येऽन्त्यम् ३
मूलम्
प्रतिदिशमासादनमाग्नेयं पुरस्तात्प्रदक्षिणमितराणि मध्येऽन्त्यम् ३
विश्वास-प्रस्तुतिः
पूर्वैश्चरित्वा चरित्वा मध्यमे संस्रवासेचनम् ४
मूलम्
पूर्वैश्चरित्वा चरित्वा मध्यमे संस्रवासेचनम् ४
विश्वास-प्रस्तुतिः
आग्नेयो हिरण्यदक्षिणोऽग्नीधे ददात्यैन्द्र स्य ऋषभः सौम्यस्य बभ्रुर्ब्रह्मणे वैश्वदेवस्य पृषन्होत्रे पयस्याया वशाऽभावेऽप्रवीताऽध्वर्युभ्यां बार्हस्पत्यस्य शितिपृष्ठो ब्रह्मणे ५
मूलम्
आग्नेयो हिरण्यदक्षिणोऽग्नीधे ददात्यैन्द्र स्य ऋषभः सौम्यस्य बभ्रुर्ब्रह्मणे वैश्वदेवस्य पृषन्होत्रे पयस्याया वशाऽभावेऽप्रवीताऽध्वर्युभ्यां बार्हस्पत्यस्य शितिपृष्ठो ब्रह्मणे ५
विश्वास-प्रस्तुतिः
अन्नाद्यकामस्याऽप्येषा ६
मूलम्
अन्नाद्यकामस्याऽप्येषा ६
विश्वास-प्रस्तुतिः
द्वादशोत्तराणि प्रयुग्घवींषि ७
मूलम्
द्वादशोत्तराणि प्रयुग्घवींषि ७
विश्वास-प्रस्तुतिः
मासान्तराणि ८
मूलम्
मासान्तराणि ८
विश्वास-प्रस्तुतिः
आहवनीयाद्वा पुरस्ताच्छम्याप्रासे शम्याप्रास आग्नेयसौमसावित्रबार्हस्पत्यत्वाष्ट्रवैश्वानरा यथोक्तम् ९
मूलम्
आहवनीयाद्वा पुरस्ताच्छम्याप्रासे शम्याप्रास आग्नेयसौमसावित्रबार्हस्पत्यत्वाष्ट्रवैश्वानरा यथोक्तम् ९
विश्वास-प्रस्तुतिः
एवमावृत्तस्य चरवः सारस्वतपौष्ण मैत्रक्षैत्रपत्यवारुणाऽऽदित्याः १०
मूलम्
एवमावृत्तस्य चरवः सारस्वतपौष्ण मैत्रक्षैत्रपत्यवारुणाऽऽदित्याः १०
विश्वास-प्रस्तुतिः
षट् षड् वैकतन्त्रे ११
मूलम्
षट् षड् वैकतन्त्रे ११
विश्वास-प्रस्तुतिः
पूर्वाऽग्निवाहौ द्वौ द्वौ षण्णां षण्णां दक्षिणा १२
मूलम्
पूर्वाऽग्निवाहौ द्वौ द्वौ षण्णां षण्णां दक्षिणा १२
विश्वास-प्रस्तुतिः
अष्टापदीवत्पशुवन्धौ गर्भिणीभ्यां स्वगुणदक्षिणौ १३
मूलम्
अष्टापदीवत्पशुवन्धौ गर्भिणीभ्यां स्वगुणदक्षिणौ १३
विश्वास-प्रस्तुतिः
श्येन्यादित्येभ्योऽदित्यै वा १४
मूलम्
श्येन्यादित्येभ्योऽदित्यै वा १४
विश्वास-प्रस्तुतिः
वैश्वदेवी पृषती मारुती वा १५
मूलम्
वैश्वदेवी पृषती मारुती वा १५
विश्वास-प्रस्तुतिः
तदन्ते केशवपनीयोऽतिरात्रः पौर्णमासीसुत्यः १६
मूलम्
तदन्ते केशवपनीयोऽतिरात्रः पौर्णमासीसुत्यः १६
विश्वास-प्रस्तुतिः
उत्तरे च मासान्तराः १७
मूलम्
उत्तरे च मासान्तराः १७
विश्वास-प्रस्तुतिः
व्युष्टिद्विरात्रः १८
मूलम्
व्युष्टिद्विरात्रः १८
विश्वास-प्रस्तुतिः
अग्निष्टोमाऽतिरात्रौ १९
मूलम्
अग्निष्टोमाऽतिरात्रौ १९
विश्वास-प्रस्तुतिः
क्षत्रघृतिः २०
मूलम्
क्षत्रघृतिः २०
विश्वास-प्रस्तुतिः
तमुभयत एके त्रिष्टोमज्योतिष्टोमौ २१
मूलम्
तमुभयत एके त्रिष्टोमज्योतिष्टोमौ २१
विश्वास-प्रस्तुतिः
अभिषेचनीयाद्वा संवत्सरात्केशवपनीयोऽतिरात्रः सोमापवर्गः २२
मूलम्
अभिषेचनीयाद्वा संवत्सरात्केशवपनीयोऽतिरात्रः सोमापवर्गः २२
विश्वास-प्रस्तुतिः
उत्तरे शुक्ले सौत्रामणी २३
मूलम्
उत्तरे शुक्ले सौत्रामणी २३
विश्वास-प्रस्तुतिः
व्रीहीन्विरूढाविरूढान्क्षौम उपनह्य क्रीणाति क्लीवात्सीसेन २४
मूलम्
व्रीहीन्विरूढाविरूढान्क्षौम उपनह्य क्रीणाति क्लीवात्सीसेन २४
विश्वास-प्रस्तुतिः
पक्त्वौदनं विरूढांश्चूर्णीकृत्याऽश्विभ्यां पच्यस्वेति संसृजति २५
मूलम्
पक्त्वौदनं विरूढांश्चूर्णीकृत्याऽश्विभ्यां पच्यस्वेति संसृजति २५
विश्वास-प्रस्तुतिः
सिंहवृकव्याघ्रलोमानि चाऽवपति २६
मूलम्
सिंहवृकव्याघ्रलोमानि चाऽवपति २६
विश्वास-प्रस्तुतिः
पशुषु वा २७
मूलम्
पशुषु वा २७
विश्वास-प्रस्तुतिः
पुरोडाशधर्मा द्र व्यसामान्यात् २८
मूलम्
पुरोडाशधर्मा द्र व्यसामान्यात् २८
विश्वास-प्रस्तुतिः
यावदुक्तं सौमिका गुणत्वात् २९
मूलम्
यावदुक्तं सौमिका गुणत्वात् २९