विश्वास-प्रस्तुतिः
दशोत्तराणि संसृपाहवींषि निर्वपति १
मूलम्
दशोत्तराणि संसृपाहवींषि निर्वपति १
विश्वास-प्रस्तुतिः
देवयजनान्तरमेकैकेनोत्सर्पति २
मूलम्
देवयजनान्तरमेकैकेनोत्सर्पति २
विश्वास-प्रस्तुतिः
शालायामन्त्यम् ३
मूलम्
शालायामन्त्यम् ३
विश्वास-प्रस्तुतिः
सावित्रसारस्वतत्वाष्ट्रपौष्णेन्द्र बार्हस्पत्यवारुणाऽग्नेयसौम्यवैष्णवानि यथोक्तम् ४
मूलम्
सावित्रसारस्वतत्वाष्ट्रपौष्णेन्द्र बार्हस्पत्यवारुणाऽग्नेयसौम्यवैष्णवानि यथोक्तम् ४
विश्वास-प्रस्तुतिः
प्रतीष्टि पुण्डरीकाणि प्रयच्छति ५
मूलम्
प्रतीष्टि पुण्डरीकाणि प्रयच्छति ५
विश्वास-प्रस्तुतिः
हिरण्मयानि वा ६
मूलम्
हिरण्मयानि वा ६
विश्वास-प्रस्तुतिः
उत्तमासु तिसृषु पञ्च ७
मूलम्
उत्तमासु तिसृषु पञ्च ७
विश्वास-प्रस्तुतिः
तेषां स्रजं प्रतिमुञ्चते ८
मूलम्
तेषां स्रजं प्रतिमुञ्चते ८
विश्वास-प्रस्तुतिः
तद्दीक्षो भवति ९
मूलम्
तद्दीक्षो भवति ९
विश्वास-प्रस्तुतिः
एकतन्त्रौ क्रयैकत्वात् १०
मूलम्
एकतन्त्रौ क्रयैकत्वात् १०
विश्वास-प्रस्तुतिः
नाना वाऽवभृथदीक्षाश्रुतिभ्याम् ११
मूलम्
नाना वाऽवभृथदीक्षाश्रुतिभ्याम् ११
विश्वास-प्रस्तुतिः
एकं त्वाऽनुपूर्व्ययोगात् १२
मूलम्
एकं त्वाऽनुपूर्व्ययोगात् १२
विश्वास-प्रस्तुतिः
अवभृथदीक्षाभ्यासो वचनात् १३
मूलम्
अवभृथदीक्षाभ्यासो वचनात् १३
विश्वास-प्रस्तुतिः
सप्तम्यां ब्रह्मागारात्सोममाहृत्याऽसन्द्यभिमर्शनादि करोत्युपसद्देवताहवींषि निर्वपत्युपसदन्त इच्छन्यथोक्तम् १४
मूलम्
सप्तम्यां ब्रह्मागारात्सोममाहृत्याऽसन्द्यभिमर्शनादि करोत्युपसद्देवताहवींषि निर्वपत्युपसदन्त इच्छन्यथोक्तम् १४
विश्वास-प्रस्तुतिः
पितामहदशगणं सोमपानां सङ्ख्याय सर्पणम् १५
मूलम्
पितामहदशगणं सोमपानां सङ्ख्याय सर्पणम् १५
विश्वास-प्रस्तुतिः
सवित्रेति वाऽनुवाकमुक्त्वा १६
मूलम्
सवित्रेति वाऽनुवाकमुक्त्वा १६
विश्वास-प्रस्तुतिः
दश दशकैकं चमसमनु भक्षयन्ति १७
मूलम्
दश दशकैकं चमसमनु भक्षयन्ति १७
विश्वास-प्रस्तुतिः
यजमानस्य राजन्याः १८
मूलम्
यजमानस्य राजन्याः १८
विश्वास-प्रस्तुतिः
ब्राह्मणा वा श्रुतेः १९
मूलम्
ब्राह्मणा वा श्रुतेः १९
विश्वास-प्रस्तुतिः
तुल्याः सङ्ख्यायोगात् २०
मूलम्
तुल्याः सङ्ख्यायोगात् २०
विश्वास-प्रस्तुतिः
ब्रह्मणे ददात्थंशुवद्दक्षिणा २१
मूलम्
ब्रह्मणे ददात्थंशुवद्दक्षिणा २१
विश्वास-प्रस्तुतिः
हिरण्मयीं स्रजमुद्गात्रे रुक्मं होत्रे हिरण्मयौ प्राकाशावध्वर्युभ्यामश्वं प्रस्तोत्रे वशां मैत्रावरुणायर्षभं ब्राह्मणाच्छंसिने वाससी नेष्टाक्पोतृभ्यामन्यतरतोयुक्तं यवचितमच्छावाकाय गामग्नीधे २२

अभिषेचनीयाऽन्ते केशवपनार्थे निवर्त्तनं संवत्सरम् २३
मूलम्
अभिषेचनीयाऽन्ते केशवपनार्थे निवर्त्तनं संवत्सरम् २३
विश्वास-प्रस्तुतिः
भूम्यनधिष्ठानं च २४
मूलम्
भूम्यनधिष्ठानं च २४
विश्वास-प्रस्तुतिः
अनुपानत्कस्य यावज्जीवम् २५
मूलम्
अनुपानत्कस्य यावज्जीवम् २५