०७

विश्वास-प्रस्तुतिः

खादिरीमासन्दीं रज्जूनां व्याघ्रचर्मदेशे निदधाति स्योनाऽसीति १

मूलम्

खादिरीमासन्दीं रज्जूनां व्याघ्रचर्मदेशे निदधाति स्योनाऽसीति १

विश्वास-प्रस्तुतिः

अधीवासमस्यामास्तृणाति क्षत्रस्य योनिरिति २

मूलम्

अधीवासमस्यामास्तृणाति क्षत्रस्य योनिरिति २

विश्वास-प्रस्तुतिः

सुन्वन्तमस्यामुपवेशयति स्योनामासीदेति ३

मूलम्

सुन्वन्तमस्यामुपवेशयति स्योनामासीदेति ३

विश्वास-प्रस्तुतिः

निषसादेत्युरोऽस्याऽलभते ४

मूलम्

निषसादेत्युरोऽस्याऽलभते ४

विश्वास-प्रस्तुतिः

अभिभूरित्यस्मै पञ्चाक्षान् पाणावाधाय पश्चादेनं यज्ञियवृक्षदण्डैः शनैस्तूष्णीं घ्नन्ति ५

मूलम्

अभिभूरित्यस्मै पञ्चाक्षान् पाणावाधाय पश्चादेनं यज्ञियवृक्षदण्डैः शनैस्तूष्णीं घ्नन्ति ५

विश्वास-प्रस्तुतिः

पाप्मानं तेऽपहन्मोऽति त्वा बधं नयामीति वा ६

मूलम्

पाप्मानं तेऽपहन्मोऽति त्वा बधं नयामीति वा ६

विश्वास-प्रस्तुतिः

वरं वृत्वा ब्रह्मन्नित्यामन्त्रयते पञ्चकृत्वः ७

मूलम्

वरं वृत्वा ब्रह्मन्नित्यामन्त्रयते पञ्चकृत्वः ७

विश्वास-प्रस्तुतिः

प्रत्याह व्यत्यासं सविता वरुण इन्द्रो रुद्र इति त्वं ब्रह्माऽसीत्यादिभिः ८

मूलम्

प्रत्याह व्यत्यासं सविता वरुण इन्द्रो रुद्र इति त्वं ब्रह्माऽसीत्यादिभिः ८

विश्वास-प्रस्तुतिः

आदिनैवान्त्यम् ९

मूलम्

आदिनैवान्त्यम् ९

विश्वास-प्रस्तुतिः

बहुकारेति च ह्वयत्येवं नामानम् १०

मूलम्

बहुकारेति च ह्वयत्येवं नामानम् १०

विश्वास-प्रस्तुतिः

स्फ्यमस्मै प्रयच्छति पुरोहितोऽध्वर्युर्वा इन्द्र स्य वज्र इति ११

मूलम्

स्फ्यमस्मै प्रयच्छति पुरोहितोऽध्वर्युर्वा इन्द्र स्य वज्र इति ११

विश्वास-प्रस्तुतिः

राजा राजभ्राता सूतस्थपत्योरन्यतरो ग्रामणीः सजातश्चैवं पूर्वः पूर्व उत्तरस्मै १२

मूलम्

राजा राजभ्राता सूतस्थपत्योरन्यतरो ग्रामणीः सजातश्चैवं पूर्वः पूर्व उत्तरस्मै १२

विश्वास-प्रस्तुतिः

प्रत्तेन सजातः प्रतिप्रस्थाता च पूर्वाग्निसहिताः शुक्रपुरोरुचा द्यूतभूमिं कुरुतः १३

मूलम्

प्रत्तेन सजातः प्रतिप्रस्थाता च पूर्वाग्निसहिताः शुक्रपुरोरुचा द्यूतभूमिं कुरुतः १३

विश्वास-प्रस्तुतिः

मन्थिनो विमितम् १४

मूलम्

मन्थिनो विमितम् १४

विश्वास-प्रस्तुतिः

द्यूतभूमौ हिरण्यं निधायाऽभिझोति चतुर्गृहीतेनाग्निः पृथुरिति १५

मूलम्

द्यूतभूमौ हिरण्यं निधायाऽभिझोति चतुर्गृहीतेनाग्निः पृथुरिति १५

विश्वास-प्रस्तुतिः

अक्षान्निवपति स्वाहाकृता इति १६

मूलम्

अक्षान्निवपति स्वाहाकृता इति १६

विश्वास-प्रस्तुतिः

गां दीव्यध्वमित्याह १७

मूलम्

गां दीव्यध्वमित्याह १७

विश्वास-प्रस्तुतिः

कृतादि वा विदध्याद्रा जप्रभृतिभ्यः १८

मूलम्

कृतादि वा विदध्याद्रा जप्रभृतिभ्यः १८

विश्वास-प्रस्तुतिः

सजाताय कलिम् १९

मूलम्

सजाताय कलिम् १९

विश्वास-प्रस्तुतिः

गामस्याऽनीय घ्नन्ति २०

मूलम्

गामस्याऽनीय घ्नन्ति २०

विश्वास-प्रस्तुतिः

पूर्वाग्निवाहो दक्षिणा २१

मूलम्

पूर्वाग्निवाहो दक्षिणा २१

विश्वास-प्रस्तुतिः

पयस्यास्विष्टकृदिडं करोति माहेन्द्रा दि च २२

मूलम्

पयस्यास्विष्टकृदिडं करोति माहेन्द्रा दि च २२

विश्वास-प्रस्तुतिः

अवरुह्य गच्छति स्तोत्राय प्रहितः २३

मूलम्

अवरुह्य गच्छति स्तोत्राय प्रहितः २३

विश्वास-प्रस्तुतिः

अवभृथमेकेन तार्प्यादीनि चेत् २४

मूलम्

अवभृथमेकेन तार्प्यादीनि चेत् २४

विश्वास-प्रस्तुतिः

उदैत्येकेन २५

मूलम्

उदैत्येकेन २५

विश्वास-प्रस्तुतिः

दीक्षितवसनं च प्रास्यति २६

मूलम्

दीक्षितवसनं च प्रास्यति २६

विश्वास-प्रस्तुतिः

अनूवन्ध्यवपाहोमान्ते दद्यादेनानि २७

मूलम्

अनूवन्ध्यवपाहोमान्ते दद्यादेनानि २७

विश्वास-प्रस्तुतिः

उदवसानीयायां वा २८

मूलम्

उदवसानीयायां वा २८

विश्वास-प्रस्तुतिः

त्रैधातव्युदवसानीया ऐन्द्रा वैष्णवो द्वादशकपालो व्रीहियवानाम् २९

मूलम्

त्रैधातव्युदवसानीया ऐन्द्रा वैष्णवो द्वादशकपालो व्रीहियवानाम् २९

विश्वास-प्रस्तुतिः

तृतीयं यवानां मध्ये ३०

मूलम्

तृतीयं यवानां मध्ये ३०

विश्वास-प्रस्तुतिः

अधिश्रयणं च ३१

मूलम्

अधिश्रयणं च ३१

विश्वास-प्रस्तुतिः

तिस्रस्तिस्रो दक्षिणा ददाति शतमानानि ब्रह्मणे धेनूर्होत्रे वासांस्यध्वर्यवे गामग्नीधे ३२

मूलम्

तिस्रस्तिस्रो दक्षिणा ददाति शतमानानि ब्रह्मणे धेनूर्होत्रे वासांस्यध्वर्यवे गामग्नीधे ३२

विश्वास-प्रस्तुतिः

भैषज्याऽभिचारयोरप्येषा ३३

मूलम्

भैषज्याऽभिचारयोरप्येषा ३३