विश्वास-प्रस्तुतिः
शौनःशेपं च प्रेष्यति १
मूलम्
शौनःशेपं च प्रेष्यति १
विश्वास-प्रस्तुतिः
द्यूतान्ते वा २
मूलम्
द्यूतान्ते वा २
विश्वास-प्रस्तुतिः
ओ३मित्यृचां प्रतिगरस्तथेति गाथानाम् ३
मूलम्
ओ३मित्यृचां प्रतिगरस्तथेति गाथानाम् ३
विश्वास-प्रस्तुतिः
होताऽध्वर्यू हिरण्यय्योः कशिपुनोरुपविष्ठौ ४
मूलम्
होताऽध्वर्यू हिरण्यय्योः कशिपुनोरुपविष्ठौ ४
विश्वास-प्रस्तुतिः
शौनःशेपान्ते पृथक् शते ददाति ५
मूलम्
शौनःशेपान्ते पृथक् शते ददाति ५
विश्वास-प्रस्तुतिः
सहस्रं वा ६
मूलम्
सहस्रं वा ६
विश्वास-प्रस्तुतिः
आसने च ७
मूलम्
आसने च ७
विश्वास-प्रस्तुतिः
कण्डूयन्याऽभिषेकेण प्रलिम्पते प्र पर्वतस्येति ८
मूलम्
कण्डूयन्याऽभिषेकेण प्रलिम्पते प्र पर्वतस्येति ८
विश्वास-प्रस्तुतिः
चर्मणि त्रिर्विक्रमयति विष्णोरिति प्रतिमन्त्रम् ९
मूलम्
चर्मणि त्रिर्विक्रमयति विष्णोरिति प्रतिमन्त्रम् ९
विश्वास-प्रस्तुतिः
पालाशे शेषानासिच्य पुत्राय प्रयच्छति प्रियतमायेदं मे कर्मेदं वीर्यं पुत्रोऽनुसन्तनोत्विति १०
मूलम्
पालाशे शेषानासिच्य पुत्राय प्रयच्छति प्रियतमायेदं मे कर्मेदं वीर्यं पुत्रोऽनुसन्तनोत्विति १०
विश्वास-प्रस्तुतिः
शालाद्वार्ये जुहोति पुत्रेऽन्वारब्धे प्रजापत इति पुत्रयजमानयोर्नाम गृह्णाति पितृशब्दं पुत्रे कृत्वा यथायथं पश्चात् ११
मूलम्
शालाद्वार्ये जुहोति पुत्रेऽन्वारब्धे प्रजापत इति पुत्रयजमानयोर्नाम गृह्णाति पितृशब्दं पुत्रे कृत्वा यथायथं पश्चात् ११
विश्वास-प्रस्तुतिः
आग्नीध्रीये पालाशेन शेषान् जुहोति रुद्र यत्त इत्युत्तरार्धे १२
मूलम्
आग्नीध्रीये पालाशेन शेषान् जुहोति रुद्र यत्त इत्युत्तरार्धे १२
विश्वास-प्रस्तुतिः
गवां शतमधिकं वा स्वस्याऽहवनीयस्योत्तरतः स्थापयति १३
मूलम्
गवां शतमधिकं वा स्वस्याऽहवनीयस्योत्तरतः स्थापयति १३
विश्वास-प्रस्तुतिः
पूर्वाग्निवहनं च साग्निम् १४
मूलम्
पूर्वाग्निवहनं च साग्निम् १४
विश्वास-प्रस्तुतिः
वाजपेयवद्र थमवहृत्य दक्षिणस्यां वेदिश्रोणौ युनक्ति पूर्ववन्मित्रावरुणयोरिति चतुर्भिः १५
मूलम्
वाजपेयवद्र थमवहृत्य दक्षिणस्यां वेदिश्रोणौ युनक्ति पूर्ववन्मित्रावरुणयोरिति चतुर्भिः १५
विश्वास-प्रस्तुतिः
दक्षिणापथेन यात्वाऽपरेण चात्वालं स्थापयति १६
मूलम्
दक्षिणापथेन यात्वाऽपरेण चात्वालं स्थापयति १६
विश्वास-प्रस्तुतिः
अव्यथायै त्वेति सुन्वन्नारोहति १७
मूलम्
अव्यथायै त्वेति सुन्वन्नारोहति १७
विश्वास-प्रस्तुतिः
मरुतामिति दक्षिणधुर्यं प्राजति १८
मूलम्
मरुतामिति दक्षिणधुर्यं प्राजति १८
विश्वास-प्रस्तुतिः
गवां मध्ये स्थापयत्यापामेति १९
मूलम्
गवां मध्ये स्थापयत्यापामेति १९
विश्वास-प्रस्तुतिः
धनुरार्त्न्योपस्पृशति गां यजमानः समिन्द्रि येणेति २०
मूलम्
धनुरार्त्न्योपस्पृशति गां यजमानः समिन्द्रि येणेति २०
विश्वास-प्रस्तुतिः
जिनामीमाः कुर्व इमा इति चाह २१
मूलम्
जिनामीमाः कुर्व इमा इति चाह २१
विश्वास-प्रस्तुतिः
तावद् भूयो वा गोस्वामिने दत्त्वा पूर्वेण यूपं परीत्यान्तःपात्यदेशे स्थापयति मा त इति २२
मूलम्
तावद् भूयो वा गोस्वामिने दत्त्वा पूर्वेण यूपं परीत्यान्तःपात्यदेशे स्थापयति मा त इति २२
विश्वास-प्रस्तुतिः
अग्नये गृहपतय इति चत्वारि रथविमोचनीयानि जुहोति प्रतिमन्त्रं पशूनां रसोऽसीति वराहोपानहा उपमुञ्चते २३
मूलम्
अग्नये गृहपतय इति चत्वारि रथविमोचनीयानि जुहोति प्रतिमन्त्रं पशूनां रसोऽसीति वराहोपानहा उपमुञ्चते २३
विश्वास-प्रस्तुतिः
भूमिमवेक्षते पृथिवि मातरिति २४
मूलम्
भूमिमवेक्षते पृथिवि मातरिति २४
विश्वास-प्रस्तुतिः
अवरोहति हंसः शुचिषदिति २५
मूलम्
अवरोहति हंसः शुचिषदिति २५
विश्वास-प्रस्तुतिः
विमुच्य सयन्तृकं रथवाहणे करोत्यनस्तत्कर्म शालाया दक्षिणतः २६
मूलम्
विमुच्य सयन्तृकं रथवाहणे करोत्यनस्तत्कर्म शालाया दक्षिणतः २६
विश्वास-प्रस्तुतिः
अवतरते यन्ता २७
मूलम्
अवतरते यन्ता २७
विश्वास-प्रस्तुतिः
रथवाहणस्य दक्षिणेऽन्ते शतमानावासजति वृत्तौ २८
मूलम्
रथवाहणस्य दक्षिणेऽन्ते शतमानावासजति वृत्तौ २८
विश्वास-प्रस्तुतिः
अनुवर्त्ममौदुम्बरीं शाखामुपगूहत्युपस्पूशति शतमानावियदसीति २९
मूलम्
अनुवर्त्ममौदुम्बरीं शाखामुपगूहत्युपस्पूशति शतमानावियदसीति २९
विश्वास-प्रस्तुतिः
तौ ब्रह्मणे दत्त्वोर्गसीति शाखामुपस्पृशति ३०
मूलम्
तौ ब्रह्मणे दत्त्वोर्गसीति शाखामुपस्पृशति ३०
विश्वास-प्रस्तुतिः
इन्द्र स्य वामित्यबहरते बाहू पयस्यायां व्याघ्रचर्मदेशे स्थितायाम् ३१
मूलम्
इन्द्र स्य वामित्यबहरते बाहू पयस्यायां व्याघ्रचर्मदेशे स्थितायाम् ३१
विश्वास-प्रस्तुतिः
सेषुकं धनुः प्रयच्छति ३२
मूलम्
सेषुकं धनुः प्रयच्छति ३२
विश्वास-प्रस्तुतिः
उत्तरवेदिं हृत्वा पयस्यया प्रचरति प्राक् स्विष्टकृतः ३३
मूलम्
उत्तरवेदिं हृत्वा पयस्यया प्रचरति प्राक् स्विष्टकृतः ३३