विश्वास-प्रस्तुतिः
मरुत्वतीयान्ते पात्राणि पूर्वेण व्याघ्रचर्माऽस्तृणाति सोमस्य त्विषिरिति १
मूलम्
मरुत्वतीयान्ते पात्राणि पूर्वेण व्याघ्रचर्माऽस्तृणाति सोमस्य त्विषिरिति १
विश्वास-प्रस्तुतिः
अपरेऽन्ते सीसं निदधाति २
मूलम्
अपरेऽन्ते सीसं निदधाति २
विश्वास-प्रस्तुतिः
पार्थानामग्नये स्वाहेति षड्जुहोति प्रतिमन्त्रम् ३
मूलम्
पार्थानामग्नये स्वाहेति षड्जुहोति प्रतिमन्त्रम् ३
विश्वास-प्रस्तुतिः
पवित्रे कृत्वा हिरण्यमेनयोः प्रवयति ताभ्यामुत्पुनात्यपः सवितुर्व इति ४
मूलम्
पवित्रे कृत्वा हिरण्यमेनयोः प्रवयति ताभ्यामुत्पुनात्यपः सवितुर्व इति ४
विश्वास-प्रस्तुतिः
अभिषेचनीयेष्वेना व्यानयति सधमाद इति ५
मूलम्
अभिषेचनीयेष्वेना व्यानयति सधमाद इति ५
विश्वास-प्रस्तुतिः
तार्प्यं परिधापयति ६
मूलम्
तार्प्यं परिधापयति ६
विश्वास-प्रस्तुतिः
क्षौमम् ७
मूलम्
क्षौमम् ७
विश्वास-प्रस्तुतिः
त्रिपाणं वा ८
मूलम्
त्रिपाणं वा ८
विश्वास-प्रस्तुतिः
घृतोन्नमेके । यज्ञरूपस्यूतम् १०
मूलम्
घृतोन्नमेके । यज्ञरूपस्यूतम् १०
विश्वास-प्रस्तुतिः
पाण्ड्वं च निवस्ते ११
मूलम्
पाण्ड्वं च निवस्ते ११
विश्वास-प्रस्तुतिः
अधीवासं प्रतिमुच्योष्णीषं संवेष्ट्य निवीते नाभिदेशे परिहरते वा १२
मूलम्
अधीवासं प्रतिमुच्योष्णीषं संवेष्ट्य निवीते नाभिदेशे परिहरते वा १२
विश्वास-प्रस्तुतिः
तार्प्यप्रभृतीनि क्षत्रस्येति प्रतिमन्त्रम् १३
मूलम्
तार्प्यप्रभृतीनि क्षत्रस्येति प्रतिमन्त्रम् १३
विश्वास-प्रस्तुतिः
दीक्षितवसननिवृत्तिर्विरो धान्माहेन्द्रा दौ वा पुनः परिधानं निधायैतानि १४
मूलम्
दीक्षितवसननिवृत्तिर्विरो धान्माहेन्द्रा दौ वा पुनः परिधानं निधायैतानि १४
विश्वास-प्रस्तुतिः
इन्द्र स्य वार्त्रध्नमिति धनुरातनोति १५
मूलम्
इन्द्र स्य वार्त्रध्नमिति धनुरातनोति १५
विश्वास-प्रस्तुतिः
मित्रस्य वरुणस्येत्यस्य बाहू विमार्ष्टि १६
मूलम्
मित्रस्य वरुणस्येत्यस्य बाहू विमार्ष्टि १६
विश्वास-प्रस्तुतिः
धनुः प्रयच्छति त्वयाऽयमिति १७
मूलम्
धनुः प्रयच्छति त्वयाऽयमिति १७
विश्वास-प्रस्तुतिः
दृबाऽसीति प्रतिमन्त्रमादाय तिस्रः इषूः प्रयच्छति पातैनमिति प्रतिमन्त्रम् १८
मूलम्
दृबाऽसीति प्रतिमन्त्रमादाय तिस्रः इषूः प्रयच्छति पातैनमिति प्रतिमन्त्रम् १८
विश्वास-प्रस्तुतिः
आविर्मर्या इति वाचयति १९
मूलम्
आविर्मर्या इति वाचयति १९
विश्वास-प्रस्तुतिः
अवेष्टा इति लोहायसमाविध्यति केशवास्ये सदोऽन्त उपविष्टाय २०
मूलम्
अवेष्टा इति लोहायसमाविध्यति केशवास्ये सदोऽन्त उपविष्टाय २०
विश्वास-प्रस्तुतिः
सुन्वन्तमाक्रमयन् दिशः प्राचीमारोहेति वाचयति प्रतिदिशं यथालिङ्गम् २१
मूलम्
सुन्वन्तमाक्रमयन् दिशः प्राचीमारोहेति वाचयति प्रतिदिशं यथालिङ्गम् २१
विश्वास-प्रस्तुतिः
आक्रम्य पादेन सीसं निरस्यति प्रत्यस्तमिति २२
मूलम्
आक्रम्य पादेन सीसं निरस्यति प्रत्यस्तमिति २२
विश्वास-प्रस्तुतिः
व्याघ्रचर्माऽरोहयति सोमस्य त्विषिरिति २३
मूलम्
व्याघ्रचर्माऽरोहयति सोमस्य त्विषिरिति २३
विश्वास-प्रस्तुतिः
रुक्ममधः पदं कुरुते मृत्योरिति २४
मूलम्
रुक्ममधः पदं कुरुते मृत्योरिति २४
विश्वास-प्रस्तुतिः
शिरसि च नवतर्द्मं शततद्र् मं वौजोऽसीति २५
मूलम्
शिरसि च नवतर्द्मं शततद्र् मं वौजोऽसीति २५
विश्वास-प्रस्तुतिः
बाहू उद्गृह्णाति हिरण्यरूपा इति २६
मूलम्
बाहू उद्गृह्णाति हिरण्यरूपा इति २६
विश्वास-प्रस्तुतिः
मित्रोऽसि वरुणोऽसीति वा २७
मूलम्
मित्रोऽसि वरुणोऽसीति वा २७
विश्वास-प्रस्तुतिः
स्थितं प्राञ्चमभिषिञ्चति पुरोहितोऽध्वर्युर्वा पुरस्तात्पालाशेन प्रथमं पश्चादितरे द्वितीयेन स्वस्तृतीयेन मित्र्यो राजन्यो वैश्यश्चतुर्थेन सोमस्य त्वा द्युम्नेनोति प्रतिमन्त्रम् २८

अभिषिञ्चामीति सर्वत्र साकाङ्क्षत्वात् २९
मूलम्
अभिषिञ्चामीति सर्वत्र साकाङ्क्षत्वात् २९
विश्वास-प्रस्तुतिः
क्षत्राणां क्षत्रिपतिरेधीति च ३०
मूलम्
क्षत्राणां क्षत्रिपतिरेधीति च ३०
विश्वास-प्रस्तुतिः
इमममुष्येति च प्रथमो देवसूवत् ३१
मूलम्
इमममुष्येति च प्रथमो देवसूवत् ३१
विश्वास-प्रस्तुतिः
पार्थानामिन्द्रा य स्वाहेति षड्जुहोति प्रतिमन्त्रम् ३२
मूलम्
पार्थानामिन्द्रा य स्वाहेति षड्जुहोति प्रतिमन्त्रम् ३२