विश्वास-प्रस्तुतिः
द्वादशोत्तराणि रत्नहवींऽषि १
मूलम्
द्वादशोत्तराणि रत्नहवींऽषि १
विश्वास-प्रस्तुतिः
प्रतिगृहमेकैकं श्वः श्वः २
मूलम्
प्रतिगृहमेकैकं श्वः श्वः २
विश्वास-प्रस्तुतिः
समारूढनिर्मथितेऽग्नयेऽनीकवते सेनान्यः ३
मूलम्
समारूढनिर्मथितेऽग्नयेऽनीकवते सेनान्यः ३
विश्वास-प्रस्तुतिः
बार्हस्पत्यश्चरुः पुरोहितस्य ४
मूलम्
बार्हस्पत्यश्चरुः पुरोहितस्य ४
विश्वास-प्रस्तुतिः
ऐन्द्रो यजमानस्य ५
मूलम्
ऐन्द्रो यजमानस्य ५
विश्वास-प्रस्तुतिः
अदित्यै महिष्याः ६
मूलम्
अदित्यै महिष्याः ६
विश्वास-प्रस्तुतिः
वारुणः सूतस्य ७
मूलम्
वारुणः सूतस्य ७
विश्वास-प्रस्तुतिः
मारुतो ग्रामण्यः ८
मूलम्
मारुतो ग्रामण्यः ८
विश्वास-प्रस्तुतिः
सावित्रः क्षत्तुः ९
मूलम्
सावित्रः क्षत्तुः ९
विश्वास-प्रस्तुतिः
आश्विनः सङ्ग्रहीतुः १०
मूलम्
आश्विनः सङ्ग्रहीतुः १०
विश्वास-प्रस्तुतिः
पौष्णो भागदुघस्य ११
मूलम्
पौष्णो भागदुघस्य ११
विश्वास-प्रस्तुतिः
रौद्रो यजमानस्याऽक्षावापगोविकर्त्तगृहेभ्यो गवेधुकानाम् १२
मूलम्
रौद्रो यजमानस्याऽक्षावापगोविकर्त्तगृहेभ्यो गवेधुकानाम् १२
विश्वास-प्रस्तुतिः
चतुर्गृहीतं जुषाणोऽध्वाज्यस्य वेत्त्विति दूतस्य १३
मूलम्
चतुर्गृहीतं जुषाणोऽध्वाज्यस्य वेत्त्विति दूतस्य १३
विश्वास-प्रस्तुतिः
नैरृतः परिवृत्त्यै कृष्णव्रीहीणां नखनिर्भिन्नानां दर्विहोम एष ते निरृत इति जुहोति वषट्कृते वा १४
मूलम्
नैरृतः परिवृत्त्यै कृष्णव्रीहीणां नखनिर्भिन्नानां दर्विहोम एष ते निरृत इति जुहोति वषट्कृते वा १४
विश्वास-प्रस्तुतिः
यथासङ्ख्यं दक्षिणा हिरण्यं शितिपृष्ठर्षभो धेनुरश्वः पृषञ्छ्येतोऽनड्वान्यमावभावेऽनुपूर्वजौ श्यामस्त्रिदक्षिणो रौद्रःशितिबाहुशितिबालयोरन्यतरः १५
मूलम्
यथासङ्ख्यं दक्षिणा हिरण्यं शितिपृष्ठर्षभो धेनुरश्वः पृषञ्छ्येतोऽनड्वान्यमावभावेऽनुपूर्वजौ श्यामस्त्रिदक्षिणो रौद्रःशितिबाहुशितिबालयोरन्यतरः १५
विश्वास-प्रस्तुतिः
असिर्नरखरः १६
मूलम्
असिर्नरखरः १६
विश्वास-प्रस्तुतिः
वालदामबद्धमक्षावपणम् १७
मूलम्
वालदामबद्धमक्षावपणम् १७
विश्वास-प्रस्तुतिः
उत्तरस्याऽप्युक्ष्णवेष्टितं धनुः १८
मूलम्
उत्तरस्याऽप्युक्ष्णवेष्टितं धनुः १८
विश्वास-प्रस्तुतिः
चर्मतूण्यः सेषुकाः १९
मूलम्
चर्मतूण्यः सेषुकाः १९
विश्वास-प्रस्तुतिः
लोहित उष्णीषः २०
मूलम्
लोहित उष्णीषः २०
विश्वास-प्रस्तुतिः
कृष्णा वत्सतर्यपहतोत्तमस्य २१
मूलम्
कृष्णा वत्सतर्यपहतोत्तमस्य २१
विश्वास-प्रस्तुतिः
परिवृत्तीं चाह माऽमेद्येशायां वात्सीदिति २२
मूलम्
परिवृत्तीं चाह माऽमेद्येशायां वात्सीदिति २२
विश्वास-प्रस्तुतिः
सौमारौद्रो ऽतश्चरुः शुक्लापयसि शुक्लवत्सायाः २३
मूलम्
सौमारौद्रो ऽतश्चरुः शुक्लापयसि शुक्लवत्सायाः २३
विश्वास-प्रस्तुतिः
सैव दक्षिणा २४
मूलम्
सैव दक्षिणा २४
विश्वास-प्रस्तुतिः
अनूचानोऽप्ययशा यजेत २५
मूलम्
अनूचानोऽप्ययशा यजेत २५
विश्वास-प्रस्तुतिः
किलासाबाधं तु २६
मूलम्
किलासाबाधं तु २६
विश्वास-प्रस्तुतिः
मैत्राबार्हस्पत्यश्चरुः २७
मूलम्
मैत्राबार्हस्पत्यश्चरुः २७
विश्वास-प्रस्तुतिः
बार्हस्पत्यमधिश्रित्याऽश्वत्थी या स्वयं भग्ना प्राच्युदीची वा शाखा तत्पात्रेणाऽपिदधाति २८
मूलम्
बार्हस्पत्यमधिश्रित्याऽश्वत्थी या स्वयं भग्ना प्राच्युदीची वा शाखा तत्पात्रेणाऽपिदधाति २८
विश्वास-प्रस्तुतिः
विनाटाद्र थपर्यूढान्नवनीतं स्वयं जातमाज्यमासिच्य पात्रे तस्मिन्स्थविष्ठांस्तण्डुलान्मित्रायाऽवपति २९
मूलम्
विनाटाद्र थपर्यूढान्नवनीतं स्वयं जातमाज्यमासिच्य पात्रे तस्मिन्स्थविष्ठांस्तण्डुलान्मित्रायाऽवपति २९
विश्वास-प्रस्तुतिः
ऊष्मणा शृतो भवति ३०
मूलम्
ऊष्मणा शृतो भवति ३०
विश्वास-प्रस्तुतिः
अणिष्ठानितरस्मिन्नेकं प्रदानम् ३१
मूलम्
अणिष्ठानितरस्मिन्नेकं प्रदानम् ३१
विश्वास-प्रस्तुतिः
गौर्दक्षिणा ३२
मूलम्
गौर्दक्षिणा ३२
विश्वास-प्रस्तुतिः
अभिषेचनीयदशपेययोर्दक्षिणोत्तरे देवयजने ३३
मूलम्
अभिषेचनीयदशपेययोर्दक्षिणोत्तरे देवयजने ३३
विश्वास-प्रस्तुतिः
दक्षिणमभिषेचनीयस्य ३४
मूलम्
दक्षिणमभिषेचनीयस्य ३४
विश्वास-प्रस्तुतिः
फाल्गुनीपक्षयजनीयेऽभिषेचनीयाय दीक्षते ३५
मूलम्
फाल्गुनीपक्षयजनीयेऽभिषेचनीयाय दीक्षते ३५