विश्वास-प्रस्तुतिः
अपामार्गहोमः १
मूलम्
अपामार्गहोमः १
विश्वास-प्रस्तुतिः
स्रुवे पालोशे वैकङ्कते वाऽपामार्गतण्डुलान् कृत्वा २
मूलम्
स्रुवे पालोशे वैकङ्कते वाऽपामार्गतण्डुलान् कृत्वा २
विश्वास-प्रस्तुतिः
त्र्यम्बकवद्दिगग्नी ३
मूलम्
त्र्यम्बकवद्दिगग्नी ३
विश्वास-प्रस्तुतिः
प्राची वा ४
मूलम्
प्राची वा ४
विश्वास-प्रस्तुतिः
अग्ने सहस्वेत्युल्मुकाऽदानम् ५
मूलम्
अग्ने सहस्वेत्युल्मुकाऽदानम् ५
विश्वास-प्रस्तुतिः
देवस्य त्वेति जुहोति ६
मूलम्
देवस्य त्वेति जुहोति ६
विश्वास-प्रस्तुतिः
रक्षसां त्वेति स्रुवमस्यति तां दिशं यस्यां जुहोत्यवधिष्म रक्ष इत्यायन्त्यनपेक्षम् ७
मूलम्
रक्षसां त्वेति स्रुवमस्यति तां दिशं यस्यां जुहोत्यवधिष्म रक्ष इत्यायन्त्यनपेक्षम् ७
विश्वास-प्रस्तुतिः
त्रिषंयुक्तेषु ८
मूलम्
त्रिषंयुक्तेषु ८
विश्वास-प्रस्तुतिः
आग्नावैष्णव ऐन्द्रा वैष्णवो वैष्णवो वामनो दक्षिणा ९
मूलम्
आग्नावैष्णव ऐन्द्रा वैष्णवो वैष्णवो वामनो दक्षिणा ९
विश्वास-प्रस्तुतिः
अलिङ्गग्रहणे गौः सर्वत्र १०
मूलम्
अलिङ्गग्रहणे गौः सर्वत्र १०
विश्वास-प्रस्तुतिः
आग्रापौष्ण ऐन्द्रा पौष्णः पौष्णः श्यामो दक्षिणा ११
मूलम्
आग्रापौष्ण ऐन्द्रा पौष्णः पौष्णः श्यामो दक्षिणा ११
विश्वास-प्रस्तुतिः
अग्नीषोमीय ऐन्द्रा सौम्यः सौम्यो बभ्रुर्दक्षिणा १२
मूलम्
अग्नीषोमीय ऐन्द्रा सौम्यः सौम्यो बभ्रुर्दक्षिणा १२
विश्वास-प्रस्तुतिः
एकादशकपालः प्रथमः प्रथमश्चरव इतरे १३
मूलम्
एकादशकपालः प्रथमः प्रथमश्चरव इतरे १३
विश्वास-प्रस्तुतिः
वैष्णवस्त्रिकपालो वा १४
मूलम्
वैष्णवस्त्रिकपालो वा १४
विश्वास-प्रस्तुतिः
श्वो वैश्वानरो द्वादशकपालो वारुणश्चैकतन्त्रे १५
मूलम्
श्वो वैश्वानरो द्वादशकपालो वारुणश्चैकतन्त्रे १५
विश्वास-प्रस्तुतिः
श्वो वैकः १६
मूलम्
श्वो वैकः १६
विश्वास-प्रस्तुतिः
ऋषभः पूर्वस्य दक्षिणा कृष्णं वास उत्तरस्याभावेऽकृष्णम् १७
मूलम्
ऋषभः पूर्वस्य दक्षिणा कृष्णं वास उत्तरस्याभावेऽकृष्णम् १७