विश्वास-प्रस्तुतिः
द्वादश स्रुवाहुतीर्जुहोत्यापये स्वाहेति प्रतिमन्त्रं वाचयति वा १
मूलम्
द्वादश स्रुवाहुतीर्जुहोत्यापये स्वाहेति प्रतिमन्त्रं वाचयति वा १
विश्वास-प्रस्तुतिः
षड्वोत्तराः २
मूलम्
षड्वोत्तराः २
विश्वास-प्रस्तुतिः
नेष्टा पत्नीमानेष्यन्कौशं वासः परिधापयति चण्डातकं दहरं वा ३
मूलम्
नेष्टा पत्नीमानेष्यन्कौशं वासः परिधापयति चण्डातकं दहरं वा ३
विश्वास-प्रस्तुतिः
अन्तरं दीक्षितवसनात् ४
मूलम्
अन्तरं दीक्षितवसनात् ४
विश्वास-प्रस्तुतिः
निश्रयणीं यूप उच्च्रयत्युत्तरां दक्षिणां वा ५
मूलम्
निश्रयणीं यूप उच्च्रयत्युत्तरां दक्षिणां वा ५
विश्वास-प्रस्तुतिः
आरोक्ष्यन् जायामाभिमन्त्रयते जाय एहि स्वो रोहावेति रोहावेति प्रत्याह प्रजापतेरित्यारोहतः ६
मूलम्
आरोक्ष्यन् जायामाभिमन्त्रयते जाय एहि स्वो रोहावेति रोहावेति प्रत्याह प्रजापतेरित्यारोहतः ६
विश्वास-प्रस्तुतिः
स्वरिति गौधूममालभते ७
मूलम्
स्वरिति गौधूममालभते ७
विश्वास-प्रस्तुतिः
शिरसा यूपमुज्जिहीतेऽमृता इति ८
मूलम्
शिरसा यूपमुज्जिहीतेऽमृता इति ८
विश्वास-प्रस्तुतिः
अस्मे व इति दिशो वीक्षते ९
मूलम्
अस्मे व इति दिशो वीक्षते ९
विश्वास-प्रस्तुतिः
सप्तदशाश्वत्थपत्रोपनद्धानूषपुटानुदस्यन्त्यस्मै विशः १०
मूलम्
सप्तदशाश्वत्थपत्रोपनद्धानूषपुटानुदस्यन्त्यस्मै विशः १०
विश्वास-प्रस्तुतिः
प्रतिगृह्णात्येनान् ११
मूलम्
प्रतिगृह्णात्येनान् ११
विश्वास-प्रस्तुतिः
नमो मात्र इति भूमिमवेक्षते सरुक्मे बस्तचर्मण्यवरोहति भूमौ वा १२
मूलम्
नमो मात्र इति भूमिमवेक्षते सरुक्मे बस्तचर्मण्यवरोहति भूमौ वा १२
विश्वास-प्रस्तुतिः
उत्तरवेदिमपरेणौदुम्बरीमासन्दीं बस्तचर्मणाऽस्तृणातीयं त इति १३
मूलम्
उत्तरवेदिमपरेणौदुम्बरीमासन्दीं बस्तचर्मणाऽस्तृणातीयं त इति १३
विश्वास-प्रस्तुतिः
सुन्वन्तमस्यामुपवेशयति यन्ताऽसीति १४
मूलम्
सुन्वन्तमस्यामुपवेशयति यन्ताऽसीति १४
विश्वास-प्रस्तुतिः
नीवारेण प्रचरति १५
मूलम्
नीवारेण प्रचरति १५
विश्वास-प्रस्तुतिः
प्राक् स्विष्टकृत औदुम्बरे पात्रेऽप आसिच्य पयश्च १६
मूलम्
प्राक् स्विष्टकृत औदुम्बरे पात्रेऽप आसिच्य पयश्च १६
विश्वास-प्रस्तुतिः
सप्तदशान्यन्नान्यावपति १७
मूलम्
सप्तदशान्यन्नान्यावपति १७
विश्वास-प्रस्तुतिः
यावत्स्मृति वा १८
मूलम्
यावत्स्मृति वा १८
विश्वास-प्रस्तुतिः
एकवर्जम् १९
मूलम्
एकवर्जम् १९
विश्वास-प्रस्तुतिः
अभोजनं तस्योच्छ्वासात् २०
मूलम्
अभोजनं तस्योच्छ्वासात् २०
विश्वास-प्रस्तुतिः
स्रुवेण सम्भृताज्जुहोति वाजस्येममिति प्रतिमन्त्रम् २१
मूलम्
स्रुवेण सम्भृताज्जुहोति वाजस्येममिति प्रतिमन्त्रम् २१
विश्वास-प्रस्तुतिः
शेषेणाऽभिषिञ्चति यजमानं देवस्य त्वेति २२
मूलम्
शेषेणाऽभिषिञ्चति यजमानं देवस्य त्वेति २२
विश्वास-प्रस्तुतिः
सरस्वत्यै वाचस्थाने विश्वेषां त्वा देवानाम् २३
मूलम्
सरस्वत्यै वाचस्थाने विश्वेषां त्वा देवानाम् २३
विश्वास-प्रस्तुतिः
सरस्वत्यै त्वेति वा २४
मूलम्
सरस्वत्यै त्वेति वा २४
विश्वास-प्रस्तुतिः
सम्राडयमसावित्याह नामग्राहं त्रिरुच्चैः २५
मूलम्
सम्राडयमसावित्याह नामग्राहं त्रिरुच्चैः २५
विश्वास-प्रस्तुतिः
अग्निरेकाक्षरेणेत्यनुवाकं द्वादशवत्कृत्वा नैवारस्विष्टकृदिडं करोति माहेन्द्रा दि च २६
मूलम्
अग्निरेकाक्षरेणेत्यनुवाकं द्वादशवत्कृत्वा नैवारस्विष्टकृदिडं करोति माहेन्द्रा दि च २६
विश्वास-प्रस्तुतिः
अवरुह्य गच्छति स्तोत्राय प्रहितः २७
मूलम्
अवरुह्य गच्छति स्तोत्राय प्रहितः २७
विश्वास-प्रस्तुतिः
उज्जितिभ्यो वोत्तरो माहेन्द्रः२८
मूलम्
उज्जितिभ्यो वोत्तरो माहेन्द्रः२८
विश्वास-प्रस्तुतिः
षोडश्यन्ते स्तोत्रं चमसैरेव २९
मूलम्
षोडश्यन्ते स्तोत्रं चमसैरेव २९
विश्वास-प्रस्तुतिः
ऋत्विक्चमसेषु सप्तदशाऽवनयति ३०
मूलम्
ऋत्विक्चमसेषु सप्तदशाऽवनयति ३०
विश्वास-प्रस्तुतिः
द्वौ द्वौ ३१
मूलम्
द्वौ द्वौ ३१
विश्वास-प्रस्तुतिः
एकं नेष्टुः ३२
मूलम्
एकं नेष्टुः ३२
विश्वास-प्रस्तुतिः
उदवसानीयान्ते यूपवेष्टनान्यध्वर्यवे ददाति ३३
मूलम्
उदवसानीयान्ते यूपवेष्टनान्यध्वर्यवे ददाति ३३
विश्वास-प्रस्तुतिः
यथोपयुक्तं हिरण्यस्रजः ३४
मूलम्
यथोपयुक्तं हिरण्यस्रजः ३४
विश्वास-प्रस्तुतिः
५ इति कात्यायनसूत्रे चतुर्दशोऽध्यायः १४
मूलम्
५ इति कात्यायनसूत्रे चतुर्दशोऽध्यायः १४