विश्वास-प्रस्तुतिः
ब्रह्मा त्रिः सामानि गायति १
मूलम्
ब्रह्मा त्रिः सामानि गायति १
विश्वास-प्रस्तुतिः
दुन्दुभीन्वादयन्ति २
मूलम्
दुन्दुभीन्वादयन्ति २
विश्वास-प्रस्तुतिः
एष स्य इति प्रत्यृचं जुहोति ३
मूलम्
एष स्य इति प्रत्यृचं जुहोति ३
विश्वास-प्रस्तुतिः
अनुमन्त्रयते वा ४
मूलम्
अनुमन्त्रयते वा ४
विश्वास-प्रस्तुतिः
उत्तरेण च तृचेन ५
मूलम्
उत्तरेण च तृचेन ५
विश्वास-प्रस्तुतिः
सुन्वन् जयति ६
मूलम्
सुन्वन् जयति ६
विश्वास-प्रस्तुतिः
शाखां प्रदक्षिणं कृत्वा यन्ति ७
मूलम्
शाखां प्रदक्षिणं कृत्वा यन्ति ७
विश्वास-प्रस्तुतिः
आगतेषु ब्रह्माऽवरोहति देवस्याहमिति ८
मूलम्
आगतेषु ब्रह्माऽवरोहति देवस्याहमिति ८
विश्वास-प्रस्तुतिः
एषा व इति मन्त्रावहतमवहरते ९
मूलम्
एषा व इति मन्त्रावहतमवहरते ९
विश्वास-प्रस्तुतिः
तूष्णीमितरान् १०
मूलम्
तूष्णीमितरान् १०
विश्वास-प्रस्तुतिः
अवरुह्य नैवारमालभते तीर्थे स्थितमामा वाजस्येति ११
मूलम्
अवरुह्य नैवारमालभते तीर्थे स्थितमामा वाजस्येति ११
विश्वास-प्रस्तुतिः
यजुर्युक्तानाघ्रापयति वाजिन इति १२
मूलम्
यजुर्युक्तानाघ्रापयति वाजिन इति १२
विश्वास-प्रस्तुतिः
चतुर्थं युक्त्वाऽध्वर्यवे ददाति १३
मूलम्
चतुर्थं युक्त्वाऽध्वर्यवे ददाति १३
विश्वास-प्रस्तुतिः
सर्वेभ्यः षोडश १४
मूलम्
सर्वेभ्यः षोडश १४
विश्वास-प्रस्तुतिः
अध्वर्युयजमानौ मधुग्रहं सौरप्रतिग्रहाय प्रयच्छत उत्तरस्यां वेदिश्रोणा उपविष्टाय १५
मूलम्
अध्वर्युयजमानौ मधुग्रहं सौरप्रतिग्रहाय प्रयच्छत उत्तरस्यां वेदिश्रोणा उपविष्टाय १५
विश्वास-प्रस्तुतिः
नेष्टा च सौरान्पश्चिमेन निर्हृत्य शालामपरेण हृत्वैकं प्रयच्छन्नाहाऽनेन त इमं निष्क्रीणामीति १६
मूलम्
नेष्टा च सौरान्पश्चिमेन निर्हृत्य शालामपरेण हृत्वैकं प्रयच्छन्नाहाऽनेन त इमं निष्क्रीणामीति १६
विश्वास-प्रस्तुतिः
ब्रह्मणे मधुग्रहं ददाति सपात्रम् १७
मूलम्
ब्रह्मणे मधुग्रहं ददाति सपात्रम् १७
विश्वास-प्रस्तुतिः
तं स यथेष्टं कुरुते १८
मूलम्
तं स यथेष्टं कुरुते १८