विश्वास-प्रस्तुतिः
मरुत्वतीयान्त इन्द्र स्य वज्र इति रथाऽवहरणम् १
मूलम्
मरुत्वतीयान्त इन्द्र स्य वज्र इति रथाऽवहरणम् १
विश्वास-प्रस्तुतिः
दक्षिणेन चात्वालमावर्त्तयति वाजस्येति धूर्गृहीतम् २
मूलम्
दक्षिणेन चात्वालमावर्त्तयति वाजस्येति धूर्गृहीतम् २
विश्वास-प्रस्तुतिः
अश्वान्प्रोक्षत्यपोऽवनीयमानान्स्नातान्वाऽगतानप्स्वन्तरिति ३
मूलम्
अश्वान्प्रोक्षत्यपोऽवनीयमानान्स्नातान्वाऽगतानप्स्वन्तरिति ३
विश्वास-प्रस्तुतिः
देवीराप इति वा ४
मूलम्
देवीराप इति वा ४
विश्वास-प्रस्तुतिः
समुच्चयो वा ५
मूलम्
समुच्चयो वा ५
विश्वास-प्रस्तुतिः
दक्षिणं युनक्ति वातो वेति ६
मूलम्
दक्षिणं युनक्ति वातो वेति ६
विश्वास-प्रस्तुतिः
उत्तरं वातरंहा इति ७
मूलम्
उत्तरं वातरंहा इति ७
विश्वास-प्रस्तुतिः
दक्षिणाप्रष्टिं जवो यस्त इति ८
मूलम्
दक्षिणाप्रष्टिं जवो यस्त इति ८
विश्वास-प्रस्तुतिः
अयुक्तश्चतुर्थोऽनुगच्छति सर्वयन्त्री ९
मूलम्
अयुक्तश्चतुर्थोऽनुगच्छति सर्वयन्त्री ९
विश्वास-प्रस्तुतिः
बार्हस्पत्यमेनानाघ्रापयति वाजिन इति १०
मूलम्
बार्हस्पत्यमेनानाघ्रापयति वाजिन इति १०
विश्वास-प्रस्तुतिः
चतुर्युजो युनक्त्यपरांस्तूष्णीं बहिर्वेदि षोडश ११
मूलम्
चतुर्युजो युनक्त्यपरांस्तूष्णीं बहिर्वेदि षोडश ११
विश्वास-प्रस्तुतिः
देवस्याहमिति ब्रह्मा रथचक्रमारोहत्युत्करे नाभिमात्रे स्थाणौ स्थितम् १२
मूलम्
देवस्याहमिति ब्रह्मा रथचक्रमारोहत्युत्करे नाभिमात्रे स्थाणौ स्थितम् १२
विश्वास-प्रस्तुतिः
ऐन्द्राःक्षत्रियस्य चक्रदुन्दुभ्याः १३
मूलम्
ऐन्द्राःक्षत्रियस्य चक्रदुन्दुभ्याः १३
विश्वास-प्रस्तुतिः
सप्तदश दुन्दुभीनासजत्यनुवेदि पश्चादाग्नीध्रात् १४
मूलम्
सप्तदश दुन्दुभीनासजत्यनुवेदि पश्चादाग्नीध्रात् १४
विश्वास-प्रस्तुतिः
बृहस्पते वाजमित्येकं दुन्दुभिमाहन्ति तूष्णीमितरान् १५
मूलम्
बृहस्पते वाजमित्येकं दुन्दुभिमाहन्ति तूष्णीमितरान् १५
विश्वास-प्रस्तुतिः
क्षत्रियः सप्तदशेषु प्रव्याधानस्यति तीर्थादुदीचः १६
मूलम्
क्षत्रियः सप्तदशेषु प्रव्याधानस्यति तीर्थादुदीचः १६
विश्वास-प्रस्तुतिः
अन्त्ये मिनोत्यौदुम्बरीं शाखाम् १७
मूलम्
अन्त्ये मिनोत्यौदुम्बरीं शाखाम् १७
विश्वास-प्रस्तुतिः
देवस्याऽहमिति यजुर्युक्तमारोहति यजमानः १८
मूलम्
देवस्याऽहमिति यजुर्युक्तमारोहति यजमानः १८
विश्वास-प्रस्तुतिः
अध्वर्योश्च तूष्णीं ब्रह्मचार्यन्तेवासी वा वाचनाय १९
मूलम्
अध्वर्योश्च तूष्णीं ब्रह्मचार्यन्तेवासी वा वाचनाय १९
विश्वास-प्रस्तुतिः
इतरेषामेकस्मिन्राजन्यो वैश्यो वा सौरप्रतिग्रहाय २०
मूलम्
इतरेषामेकस्मिन्राजन्यो वैश्यो वा सौरप्रतिग्रहाय २०
विश्वास-प्रस्तुतिः
आजिं शीघ्रं यन्ति २१
मूलम्
आजिं शीघ्रं यन्ति २१
विश्वास-प्रस्तुतिः
वाजिन इति वाचयति २२
मूलम्
वाजिन इति वाचयति २२