विश्वास-प्रस्तुतिः

ध्रुवसदमिति प्रतिमन्त्रम् अतिग्राह्यवद्धोमः १

मूलम्

ध्रुवसदमिति प्रतिमन्त्रम् अतिग्राह्यवद्धोमः १

विश्वास-प्रस्तुतिः

सप्तदशाऽपरान् २

मूलम्

सप्तदशाऽपरान् २

विश्वास-प्रस्तुतिः

नेष्टा च तावतः सौरान् ३

मूलम्

नेष्टा च तावतः सौरान् ३

विश्वास-प्रस्तुतिः

व्यत्यासं ग्रहणम् ४

मूलम्

व्यत्यासं ग्रहणम् ४

विश्वास-प्रस्तुतिः

अक्षाऽनतिक्रमणं ग्रहाणाम् ५

मूलम्

अक्षाऽनतिक्रमणं ग्रहाणाम् ५

विश्वास-प्रस्तुतिः

उपर्युपर्यक्षमध्वर्युर्धारयत्यधोऽधो नेष्टा सम्पृचाविति ६

मूलम्

उपर्युपर्यक्षमध्वर्युर्धारयत्यधोऽधो नेष्टा सम्पृचाविति ६

विश्वास-प्रस्तुतिः

विपृचावित्याहरतः ७

मूलम्

विपृचावित्याहरतः ७

विश्वास-प्रस्तुतिः

हिरण्मयेन मधुग्रहं गृहीत्वा खरमध्ये सादयति ८

मूलम्

हिरण्मयेन मधुग्रहं गृहीत्वा खरमध्ये सादयति ८

विश्वास-प्रस्तुतिः

उक्थ्यादि ९

मूलम्

उक्थ्यादि ९

विश्वास-प्रस्तुतिः

अतिरात्रपशूनुपाकृत्य वशापृश्निं मरुद्भ्य उज्जेषेभ्यः १०

मूलम्

अतिरात्रपशूनुपाकृत्य वशापृश्निं मरुद्भ्य उज्जेषेभ्यः १०

विश्वास-प्रस्तुतिः

तदभावेऽपृश्निम् ११

मूलम्

तदभावेऽपृश्निम् ११

विश्वास-प्रस्तुतिः

प्राजापत्यांश्च सप्तदश श्यामतूपरान् बस्तान् १२

मूलम्

प्राजापत्यांश्च सप्तदश श्यामतूपरान् बस्तान् १२

विश्वास-प्रस्तुतिः

तद्गुणाभावे सर्वेषामेकदेशोऽपि १३

मूलम्

तद्गुणाभावे सर्वेषामेकदेशोऽपि १३

विश्वास-प्रस्तुतिः

वाच उत्तममेके १४

मूलम्

वाच उत्तममेके १४

विश्वास-प्रस्तुतिः

माहेन्द्रा न्ते वशावपाप्रचरणम् १५

मूलम्

माहेन्द्रा न्ते वशावपाप्रचरणम् १५

विश्वास-प्रस्तुतिः

अवदानैश्च द्वैधं शृतैः १६

मूलम्

अवदानैश्च द्वैधं शृतैः १६

विश्वास-प्रस्तुतिः

पूर्वेभ्यो देवतास्विष्टकृद्भ्यामवद्यत्युत्तराणि विशो ददाति १७

मूलम्

पूर्वेभ्यो देवतास्विष्टकृद्भ्यामवद्यत्युत्तराणि विशो ददाति १७

विश्वास-प्रस्तुतिः

वामदेव्यग्रहान्ते प्राजापत्यानाम् १८

मूलम्

वामदेव्यग्रहान्ते प्राजापत्यानाम् १८

विश्वास-प्रस्तुतिः

स्रुग्व्यूहनान्प्राग्घविषा १९

मूलम्

स्रुग्व्यूहनान्प्राग्घविषा १९

विश्वास-प्रस्तुतिः

यथान्यायं वोभयोः २०

मूलम्

यथान्यायं वोभयोः २०

विश्वास-प्रस्तुतिः

वशायाश्च २१

मूलम्

वशायाश्च २१

विश्वास-प्रस्तुतिः

ऐकध्यं च श्रपणम् २२

मूलम्

ऐकध्यं च श्रपणम् २२

विश्वास-प्रस्तुतिः

अदानं च विशे २३

मूलम्

अदानं च विशे २३

विश्वास-प्रस्तुतिः

माध्यन्दिनीयैः सह नैवारश्चरुर्बार्हस्पत्यः सप्तदशशरावः २४

मूलम्

माध्यन्दिनीयैः सह नैवारश्चरुर्बार्हस्पत्यः सप्तदशशरावः २४

विश्वास-प्रस्तुतिः

सङ्ख्यामुष्टिनिवृत्तिः सामान्यात् २५

मूलम्

सङ्ख्यामुष्टिनिवृत्तिः सामान्यात् २५

विश्वास-प्रस्तुतिः

न यजतिशब्दात् २६

मूलम्

न यजतिशब्दात् २६

विश्वास-प्रस्तुतिः

सप्तदशसप्तदशशतानि ददाति गोवस्त्राजावीनाम् २७

मूलम्

सप्तदशसप्तदशशतानि ददाति गोवस्त्राजावीनाम् २७

विश्वास-प्रस्तुतिः

सप्तदश वृषल्यो निष्ककण्ठ्यः २८

मूलम्

सप्तदश वृषल्यो निष्ककण्ठ्यः २८

विश्वास-प्रस्तुतिः

हस्तिवह्यकमहानसानाम् २९

मूलम्

हस्तिवह्यकमहानसानाम् २९

विश्वास-प्रस्तुतिः

जातेर्जातेश्चा सप्तदशगणपूरणात् ३०

मूलम्

जातेर्जातेश्चा सप्तदशगणपूरणात् ३०

विश्वास-प्रस्तुतिः

द्र व्येषु वा सप्तदशता सप्तदश सप्तदशानि ददातीति श्रुतेः ३१

मूलम्

द्र व्येषु वा सप्तदशता सप्तदश सप्तदशानि ददातीति श्रुतेः ३१