(वाजपेययागः)
विश्वास-प्रस्तुतिः
वाजपेयः शरद्यवैश्यस्य १
मूलम्
वाजपेयः शरद्यवैश्यस्य १
विश्वास-प्रस्तुतिः
उभयतः शुक्लपक्षौ बृहस्पतिसवेन यजेत २
मूलम्
उभयतः शुक्लपक्षौ बृहस्पतिसवेन यजेत २
विश्वास-प्रस्तुतिः
ज्योतिष्टोमेन वा ३
मूलम्
ज्योतिष्टोमेन वा ३
विश्वास-प्रस्तुतिः
द्वादश वा ४
मूलम्
द्वादश वा ४
विश्वास-प्रस्तुतिः
पुरस्तादयुक्षु ज्योतिष्टोमः पार्ष्ठिकानीतरेषु ५
मूलम्
पुरस्तादयुक्षु ज्योतिष्टोमः पार्ष्ठिकानीतरेषु ५
विश्वास-प्रस्तुतिः
प्रतिलोमं पार्ष्ठिकान्युपरि ६
मूलम्
प्रतिलोमं पार्ष्ठिकान्युपरि ६
विश्वास-प्रस्तुतिः
सर्वाग्निष्टोमैर्वा राजसूयसोमैः ७
मूलम्
सर्वाग्निष्टोमैर्वा राजसूयसोमैः ७
विश्वास-प्रस्तुतिः
प्रतिलोममुपरि ८
मूलम्
प्रतिलोममुपरि ८
विश्वास-प्रस्तुतिः
नानादीक्षाः परियज्ञाः कालभेदात् ९
मूलम्
नानादीक्षाः परियज्ञाः कालभेदात् ९
विश्वास-प्रस्तुतिः
सप्तदश दीक्षाः १०
मूलम्
सप्तदश दीक्षाः १०
विश्वास-प्रस्तुतिः
देव सवितरिति जुहोति यजत्यादिषु ११
मूलम्
देव सवितरिति जुहोति यजत्यादिषु ११
विश्वास-प्रस्तुतिः
सकृद्दीक्षारम्भे कर्मैकत्वात् १२
मूलम्
सकृद्दीक्षारम्भे कर्मैकत्वात् १२
विश्वास-प्रस्तुतिः
क्रयणवेद्यारम्भणप्रवर्ग्योत्सादनाऽग्निप्रणयनहविर्धानाऽग्नीषोमाणां सदाग्नीध्रधिष्ण्यनिवपनवसतीवरिग्रहणपरिहरणेषु च कर्मान्तरत्वात्प्राक्सुत्यायाः १३
मूलम्
क्रयणवेद्यारम्भणप्रवर्ग्योत्सादनाऽग्निप्रणयनहविर्धानाऽग्नीषोमाणां सदाग्नीध्रधिष्ण्यनिवपनवसतीवरिग्रहणपरिहरणेषु च कर्मान्तरत्वात्प्राक्सुत्यायाः १३
विश्वास-प्रस्तुतिः
सोमात्क्रीयमाणात्सहितं दक्षिणतः सीसेन परिस्रुतः क्रयणं केशवात् १४
मूलम्
सोमात्क्रीयमाणात्सहितं दक्षिणतः सीसेन परिस्रुतः क्रयणं केशवात् १४
विश्वास-प्रस्तुतिः
तद्द्रव्याणां वा १५
मूलम्
तद्द्रव्याणां वा १५
विश्वास-प्रस्तुतिः
पर्युह्यमाणेऽनुहरणम् १६
मूलम्
पर्युह्यमाणेऽनुहरणम् १६
विश्वास-प्रस्तुतिः
दक्षिणेन प्रवेश्य दक्षिणाग्नौ पक्त्वाऽपरेऽन्ते नेष्टा सुरां करोति १७
मूलम्
दक्षिणेन प्रवेश्य दक्षिणाग्नौ पक्त्वाऽपरेऽन्ते नेष्टा सुरां करोति १७
विश्वास-प्रस्तुतिः
खरं कृत्वा नाराशंसस्थानेऽपरम् १८
मूलम्
खरं कृत्वा नाराशंसस्थानेऽपरम् १८
विश्वास-प्रस्तुतिः
दक्षिणतः सन्धिं करोति १९
मूलम्
दक्षिणतः सन्धिं करोति १९
विश्वास-प्रस्तुतिः
यूपवेष्टनं सप्तदशभिर्वस्त्रैव्युद्ग्रन्थनं वा परिव्ययणकाले २०
मूलम्
यूपवेष्टनं सप्तदशभिर्वस्त्रैव्युद्ग्रन्थनं वा परिव्ययणकाले २०
विश्वास-प्रस्तुतिः
श्व वा सवनीयेषु २१
मूलम्
श्व वा सवनीयेषु २१
विश्वास-प्रस्तुतिः
उत्कीर्णसमाग्रो गौधूमचषालः २२
मूलम्
उत्कीर्णसमाग्रो गौधूमचषालः २२
विश्वास-प्रस्तुतिः
सुत्यादौ हिरण्यस्रजोऽपिनह्यन्तेऽधिकृता यजमानः पत्नी च सुत्यस्य तच्छब्दात् २३
मूलम्
सुत्यादौ हिरण्यस्रजोऽपिनह्यन्तेऽधिकृता यजमानः पत्नी च सुत्यस्य तच्छब्दात् २३
विश्वास-प्रस्तुतिः
सर्वत्राऽविशेषात् २४
मूलम्
सर्वत्राऽविशेषात् २४
विश्वास-प्रस्तुतिः
एकधनप्रवेशनकाले सुरां नेष्टाऽपरेण प्रवेश्य खरे करोति सन्धिना पात्राण्याहृत्य पात्रे बालेन पुनाति २५
मूलम्
एकधनप्रवेशनकाले सुरां नेष्टाऽपरेण प्रवेश्य खरे करोति सन्धिना पात्राण्याहृत्य पात्रे बालेन पुनाति २५
विश्वास-प्रस्तुतिः
प्रातःसवनेऽतिग्राह्यान्गृहीत्वा षोडशिनं पञ्च चैन्द्रा न् २६
मूलम्
प्रातःसवनेऽतिग्राह्यान्गृहीत्वा षोडशिनं पञ्च चैन्द्रा न् २६