विश्वास-प्रस्तुतिः
बृसीषूपविशन्ति प्रेङ्खे होता फलकेऽध्वर्युः प्रतिगृणाति १
मूलम्
बृसीषूपविशन्ति प्रेङ्खे होता फलकेऽध्वर्युः प्रतिगृणाति १
विश्वास-प्रस्तुतिः
उद्गाताऽसन्द्यां प्रादेशपाद्यायां सोमासन्दीवत् अन्यत् २
मूलम्
उद्गाताऽसन्द्यां प्रादेशपाद्यायां सोमासन्दीवत् अन्यत् २
विश्वास-प्रस्तुतिः
अन्तर्वेद्यभिगरापगरौ ४
मूलम्
अन्तर्वेद्यभिगरापगरौ ४
विश्वास-प्रस्तुतिः
आक्रोशत्येकः प्रशंसत्यपरः ५
मूलम्
आक्रोशत्येकः प्रशंसत्यपरः ५
विश्वास-प्रस्तुतिः
पुंश्चलूब्रह्मचारिणावन्योन्यमाक्रोशतः ६
मूलम्
पुंश्चलूब्रह्मचारिणावन्योन्यमाक्रोशतः ६
विश्वास-प्रस्तुतिः
शूद्रा ऽर्यौ चर्मणि परिमण्डले व्यायच्छेते ७
मूलम्
शूद्रा ऽर्यौ चर्मणि परिमण्डले व्यायच्छेते ७
विश्वास-प्रस्तुतिः
जयत्यार्यः ८
मूलम्
जयत्यार्यः ८
विश्वास-प्रस्तुतिः
मार्जालीयं दक्षिणेन परिवृते मिथुनं सम्भवति ९
मूलम्
मार्जालीयं दक्षिणेन परिवृते मिथुनं सम्भवति ९
विश्वास-प्रस्तुतिः
क्षत्रियं सन्नाहयति दक्षिणां वेदिश्रोणिमपरेण १०
मूलम्
क्षत्रियं सन्नाहयति दक्षिणां वेदिश्रोणिमपरेण १०
विश्वास-प्रस्तुतिः
मर्माणि त इति कवचं प्रयच्छति ११
मूलम्
मर्माणि त इति कवचं प्रयच्छति ११
विश्वास-प्रस्तुतिः
तूष्णीमन्येभ्यः १२
मूलम्
तूष्णीमन्येभ्यः १२
विश्वास-प्रस्तुतिः
त्रिः समन्तं परियन्ति शालामपरेणोत्तरेण चात्वालं वशाचर्म कटे विशाख्यां वाऽस्तीर्णमुच्छ्रितं वा विध्यन्त्यनिष्पत्रम् १३
मूलम्
त्रिः समन्तं परियन्ति शालामपरेणोत्तरेण चात्वालं वशाचर्म कटे विशाख्यां वाऽस्तीर्णमुच्छ्रितं वा विध्यन्त्यनिष्पत्रम् १३
विश्वास-प्रस्तुतिः
दक्षिणेन चर्म यन्ति त्रिर्विद्ध्वा पुरस्ताद्विमोदनम् १४
मूलम्
दक्षिणेन चर्म यन्ति त्रिर्विद्ध्वा पुरस्ताद्विमोदनम् १४
विश्वास-प्रस्तुतिः
सदःस्रक्तिषु दुन्दुभीन्वादयन्ति १५
मूलम्
सदःस्रक्तिषु दुन्दुभीन्वादयन्ति १५
विश्वास-प्रस्तुतिः
आग्नीध्रमपरेण श्वभ्रं सवालधानेन चर्मणाऽवनह्य वालधानेनाहन्ति १६
मूलम्
आग्नीध्रमपरेण श्वभ्रं सवालधानेन चर्मणाऽवनह्य वालधानेनाहन्ति १६
विश्वास-प्रस्तुतिः
गोधावीणाकाः काण्डवीणाश्च पत्न्यो वादयन्ति १७
मूलम्
गोधावीणाकाः काण्डवीणाश्च पत्न्यो वादयन्ति १७
विश्वास-प्रस्तुतिः
उपगायन्ति १८
मूलम्
उपगायन्ति १८
विश्वास-प्रस्तुतिः
अन्यांश्च शब्दान् कुर्वन्ति १९
मूलम्
अन्यांश्च शब्दान् कुर्वन्ति १९
विश्वास-प्रस्तुतिः
उदकुम्भान् शिरस्सु कृत्वा मार्जालीयं दास्यः परियन्ति २०
मूलम्
उदकुम्भान् शिरस्सु कृत्वा मार्जालीयं दास्यः परियन्ति २०
विश्वास-प्रस्तुतिः
वाचयत्येनाः पर्यायादिषु २१
मूलम्
वाचयत्येनाः पर्यायादिषु २१
विश्वास-प्रस्तुतिः
है महा३ है महा३ इति २२
मूलम्
है महा३ है महा३ इति २२
विश्वास-प्रस्तुतिः
गावो हारे सुरभय इदं मधु गावो गुल्गुलुगन्धय इदं मधु गावो घृतस्य मातर इदं मधु ता इह सन्तु भूयसीरिदं मधु तया वयं प्लवामह इदं मधु शम्याः प्रतरतामिवेदं मधु न वै गावो मन्दीरस्य गङ्गाया उदकं पपुः सरस्वतीनदीं ताः प्राच्य उज्जिगाहीर इदं मधु निगीर्य सर्वा आधीरिदं मधु मध्वाकर्षैः कुशैर्यथेदं मध्विति २३

अपसव्यं प्रदक्षिणं चाऽस्तोत्रान्तात् २४
मूलम्
अपसव्यं प्रदक्षिणं चाऽस्तोत्रान्तात् २४
विश्वास-प्रस्तुतिः
त्रिस्त्रिर्वा २५
मूलम्
त्रिस्त्रिर्वा २५
विश्वास-प्रस्तुतिः
निषिच्य मार्जालीये पूर्णान् निदधति २६
मूलम्
निषिच्य मार्जालीये पूर्णान् निदधति २६
विश्वास-प्रस्तुतिः
अभिगरादि स्तूयमाने सर्वं क्रियते २७
मूलम्
अभिगरादि स्तूयमाने सर्वं क्रियते २७
विश्वास-प्रस्तुतिः
अतिरात्रः श्वः २८
मूलम्
अतिरात्रः श्वः २८
विश्वास-प्रस्तुतिः
तिस्रोऽनूबन्ध्या मैत्रावरुणीवैश्वदेवीबार्हस्पत्याः २९
मूलम्
तिस्रोऽनूबन्ध्या मैत्रावरुणीवैश्वदेवीबार्हस्पत्याः २९
विश्वास-प्रस्तुतिः
संवत्सराऽवरेषु सत्त्रेष्वसारस्वतेषु सहस्रदक्षिणावरेषु च ३०
मूलम्
संवत्सराऽवरेषु सत्त्रेष्वसारस्वतेषु सहस्रदक्षिणावरेषु च ३०
विश्वास-प्रस्तुतिः
अनूबन्ध्यावपाहोमान्ते दक्षिणस्यां वेदिश्रोणौ सर्वकेशश्मश्रुलोमवपनम् ३१
मूलम्
अनूबन्ध्यावपाहोमान्ते दक्षिणस्यां वेदिश्रोणौ सर्वकेशश्मश्रुलोमवपनम् ३१
विश्वास-प्रस्तुतिः
पत्न्यश्च ३२
मूलम्
पत्न्यश्च ३२
विश्वास-प्रस्तुतिः
त्रैधातव्युदवसानीया सर्वत्र ३३
मूलम्
त्रैधातव्युदवसानीया सर्वत्र ३३
विश्वास-प्रस्तुतिः
अवभृथादुदेत्य ज्योतिष्ठोमोऽग्निष्टोमः पृष्ठशमनीयः ३४
मूलम्
अवभृथादुदेत्य ज्योतिष्ठोमोऽग्निष्टोमः पृष्ठशमनीयः ३४
विश्वास-प्रस्तुतिः
सहस्रदक्षिणो वा ३५
मूलम्
सहस्रदक्षिणो वा ३५
विश्वास-प्रस्तुतिः
एकाहमेके ३६
मूलम्
एकाहमेके ३६
विश्वास-प्रस्तुतिः
सत्त्राङ्गं प्रकरणात् ३७
मूलम्
सत्त्राङ्गं प्रकरणात् ३७
विश्वास-प्रस्तुतिः
फलाऽश्रुतेश्च ३८
मूलम्
फलाऽश्रुतेश्च ३८
विश्वास-प्रस्तुतिः
न फलं न्यायात् ३९
मूलम्
न फलं न्यायात् ३९
विश्वास-प्रस्तुतिः
कालप्राधान्याच्च ४०
मूलम्
कालप्राधान्याच्च ४०
विश्वास-प्रस्तुतिः
सहस्रदक्षिणे त्रिरात्रे प्रतिविभज्य नयन्रोहिणीमुपध्वस्तामप्रवीतामतिरेचयति त्रिरूपां वा ४१
मूलम्
सहस्रदक्षिणे त्रिरात्रे प्रतिविभज्य नयन्रोहिणीमुपध्वस्तामप्रवीतामतिरेचयति त्रिरूपां वा ४१
विश्वास-प्रस्तुतिः
आद्येऽहन् प्रथमां नयेदन्त्ये वा पश्चात् ४२
मूलम्
आद्येऽहन् प्रथमां नयेदन्त्ये वा पश्चात् ४२
विश्वास-प्रस्तुतिः
हविर्धानाऽग्नीध्रान्तरे द्रो णकलशमेनामाघ्रापयत्याजिघ्रेति ४३
मूलम्
हविर्धानाऽग्नीध्रान्तरे द्रो णकलशमेनामाघ्रापयत्याजिघ्रेति ४३
विश्वास-प्रस्तुतिः
इडे रन्त इति दक्षिणेऽस्याः कर्णे यजमानो जपति ४४
मूलम्
इडे रन्त इति दक्षिणेऽस्याः कर्णे यजमानो जपति ४४
विश्वास-प्रस्तुतिः
वोचेरिति वाऽन्ते ४५
मूलम्
वोचेरिति वाऽन्ते ४५
विश्वास-प्रस्तुतिः
सर्वतो नवसु दशमीं कृत्वा होत्रे दद्यात् ४६
मूलम्
सर्वतो नवसु दशमीं कृत्वा होत्रे दद्यात् ४६
विश्वास-प्रस्तुतिः
उन्नेतारौ वा कृत्वाऽनाश्रावयते ४७
मूलम्
उन्नेतारौ वा कृत्वाऽनाश्रावयते ४७
विश्वास-प्रस्तुतिः
दशदशाऽभेदेन दक्षिणा दद्यात् ४८
मूलम्
दशदशाऽभेदेन दक्षिणा दद्यात् ४८
विश्वास-प्रस्तुतिः
अनूबन्ध्यावपाहोमान्ते दद्यादेनाम् ४९
मूलम्
अनूबन्ध्यावपाहोमान्ते दद्यादेनाम् ४९
विश्वास-प्रस्तुतिः
उदवसानीयायां वा ५०
मूलम्
उदवसानीयायां वा ५०
विश्वास-प्रस्तुतिः
अन्यदिच्छन् ५१
मूलम्
अन्यदिच्छन् ५१
विश्वास-प्रस्तुतिः
अहर्गणे व्युत्क्रामताद्यन्वहम् ५२
मूलम्
अहर्गणे व्युत्क्रामताद्यन्वहम् ५२
विश्वास-प्रस्तुतिः
वसतीवरिग्रहणं च ५३
मूलम्
वसतीवरिग्रहणं च ५३
विश्वास-प्रस्तुतिः
एके माध्नन्दिनेऽवनीयाऽवनीय ५४
मूलम्
एके माध्नन्दिनेऽवनीयाऽवनीय ५४