विश्वास-प्रस्तुतिः

अभिप्लवः षडहोऽग्निष्टोमौ प्रथमान्त्या उक्थ्या इतरे १

मूलम्

अभिप्लवः षडहोऽग्निष्टोमौ प्रथमान्त्या उक्थ्या इतरे १

विश्वास-प्रस्तुतिः

अतिरात्राच्चतुर्विंशमहरग्निष्टोम उक्थ्यो वा २

मूलम्

अतिरात्राच्चतुर्विंशमहरग्निष्टोम उक्थ्यो वा २

विश्वास-प्रस्तुतिः

चत्वारोऽभिप्लवाः पृष्ठ्यश्च मासः ३

मूलम्

चत्वारोऽभिप्लवाः पृष्ठ्यश्च मासः ३

विश्वास-प्रस्तुतिः

एवं चत्वार उत्तरे ४

मूलम्

एवं चत्वार उत्तरे ४

विश्वास-प्रस्तुतिः

षष्ठे त्रयोऽभिप्लवाः पृष्ठ्यः ५

मूलम्

षष्ठे त्रयोऽभिप्लवाः पृष्ठ्यः ५

विश्वास-प्रस्तुतिः

अभिजिदग्निष्टोमः ६

मूलम्

अभिजिदग्निष्टोमः ६

विश्वास-प्रस्तुतिः

त्रयः स्वरसामानोऽग्निष्टोमा उक्थ्या वा ७

मूलम्

त्रयः स्वरसामानोऽग्निष्टोमा उक्थ्या वा ७

विश्वास-प्रस्तुतिः

अग्निष्टोमो विषुवान् ८

मूलम्

अग्निष्टोमो विषुवान् ८

विश्वास-प्रस्तुतिः

ज्प्रातरनुवाकः सन्धिवेलायामुदिते यथोक्तं वा ९

मूलम्

ज्प्रातरनुवाकः सन्धिवेलायामुदिते यथोक्तं वा ९

विश्वास-प्रस्तुतिः

सौर्य उपालम्भ्यः १०

मूलम्

सौर्य उपालम्भ्यः १०

विश्वास-प्रस्तुतिः

उदु त्यम्मिति ग्रहग्रहणमतिग्राह्यवद्भक्षवर्जम् ११

मूलम्

उदु त्यम्मिति ग्रहग्रहणमतिग्राह्यवद्भक्षवर्जम् ११

विश्वास-प्रस्तुतिः

पूर्वपक्षप्रतिलोमम् १२

मूलम्

पूर्वपक्षप्रतिलोमम् १२

विश्वास-प्रस्तुतिः

अभिजित्स्थाने विश्वजिदग्निष्टोमः १३

मूलम्

अभिजित्स्थाने विश्वजिदग्निष्टोमः १३

विश्वास-प्रस्तुतिः

सर्वपृष्ठश्चेत्सर्वेऽतिग्राह्याः १४

मूलम्

सर्वपृष्ठश्चेत्सर्वेऽतिग्राह्याः १४

विश्वास-प्रस्तुतिः

षष्ठे मासे त्रयोऽभिप्लवा गोऽआयुषी दशरात्रो महाव्रतमग्निष्टोमः १५

मूलम्

षष्ठे मासे त्रयोऽभिप्लवा गोऽआयुषी दशरात्रो महाव्रतमग्निष्टोमः १५

विश्वास-प्रस्तुतिः

प्राजापत्य उपालम्भ्यः १६

मूलम्

प्राजापत्य उपालम्भ्यः १६

विश्वास-प्रस्तुतिः

ग्रहं गृह्णाति वि न इन्द्र वाचस्पतिं विश्वकर्मन्निति वाऽतिग्राह्यवत् १७

मूलम्

ग्रहं गृह्णाति वि न इन्द्र वाचस्पतिं विश्वकर्मन्निति वाऽतिग्राह्यवत् १७

विश्वास-प्रस्तुतिः

उप मा यन्तु मज्जयस्सनीडा उप मा जक्षुरुप मा मनीषा प्रियामहं तन्वं पश्यमानो मयि रसो देवानां तेजसे ब्रह्मवर्चसायेति भक्षणं यजमानैः पृष्ठ्योपाकरणं बाणेन शततन्तुना १८

मूलम्

उप मा यन्तु मज्जयस्सनीडा उप मा जक्षुरुप मा मनीषा प्रियामहं तन्वं पश्यमानो मयि रसो देवानां तेजसे ब्रह्मवर्चसायेति भक्षणं यजमानैः पृष्ठ्योपाकरणं बाणेन शततन्तुना १८

विश्वास-प्रस्तुतिः

मौञ्जास्तन्तवो वैतसं वादनम् १९

मूलम्

मौञ्जास्तन्तवो वैतसं वादनम् १९