(गवामयननिरूपणम्)
विश्वास-प्रस्तुतिः
द्वादशाहधर्माः सत्त्रेषु तद्गुणदर्शनात् १
मूलम्
द्वादशाहधर्माः सत्त्रेषु तद्गुणदर्शनात् १
विश्वास-प्रस्तुतिः
गवामयनायैकाष्टकायां दीक्षा २
मूलम्
गवामयनायैकाष्टकायां दीक्षा २
विश्वास-प्रस्तुतिः
फाल्गुनीपौर्णमासे ३
मूलम्
फाल्गुनीपौर्णमासे ३
विश्वास-प्रस्तुतिः
चैत्र्याम् ४
मूलम्
चैत्र्याम् ४
विश्वास-प्रस्तुतिः
चतुरहे वा पुरस्तात्प्राक्पौर्णमास्याः ५
मूलम्
चतुरहे वा पुरस्तात्प्राक्पौर्णमास्याः ५
विश्वास-प्रस्तुतिः
चैत्र्यानन्तर्यात् ६
मूलम्
चैत्र्यानन्तर्यात् ६
विश्वास-प्रस्तुतिः
सर्वा वाऽविशेषात् ७
मूलम्
सर्वा वाऽविशेषात् ७
विश्वास-प्रस्तुतिः
माघी वा क्रयश्रुतेः ८
मूलम्
माघी वा क्रयश्रुतेः ८
विश्वास-प्रस्तुतिः
लोकप्रत्ययात् ९
मूलम्
लोकप्रत्ययात् ९
विश्वास-प्रस्तुतिः
अर्थवादाच्च १०
मूलम्
अर्थवादाच्च १०
विश्वास-प्रस्तुतिः
पवमानेषूद्गातारमन्वारभेरन्श्येनोऽसि गायत्रच्छन्दा अनुत्वाऽरभे स्वस्ति मा सम्पारय सुपर्णोऽसि त्रिष्टुप्च्छन्दा ऋभुरसि जगच्छन्दा इतीतरयोः सवनयोः ११
मूलम्
पवमानेषूद्गातारमन्वारभेरन्श्येनोऽसि गायत्रच्छन्दा अनुत्वाऽरभे स्वस्ति मा सम्पारय सुपर्णोऽसि त्रिष्टुप्च्छन्दा ऋभुरसि जगच्छन्दा इतीतरयोः सवनयोः ११
विश्वास-प्रस्तुतिः
सवनान्तेषु जपन्ति मयि भर्गो मयि महो मयि यशो मयि सर्वमिति १२
मूलम्
सवनान्तेषु जपन्ति मयि भर्गो मयि महो मयि यशो मयि सर्वमिति १२
विश्वास-प्रस्तुतिः
सर्वत्रैके यजतिशब्दात् १३
मूलम्
सर्वत्रैके यजतिशब्दात् १३
विश्वास-प्रस्तुतिः
न प्रकरणात् १४
मूलम्
न प्रकरणात् १४