विश्वास-प्रस्तुतिः

तृणहिरण्यैः स्तोत्रोपाकरणमुपास्तमयं सोमोऽत्यरेच्युपावर्त्तध्वमिति कृष्णेऽश्व उपतिष्ठति १

मूलम्

तृणहिरण्यैः स्तोत्रोपाकरणमुपास्तमयं सोमोऽत्यरेच्युपावर्त्तध्वमिति कृष्णेऽश्व उपतिष्ठति १

विश्वास-प्रस्तुतिः

इन्द्र श्च सम्राडिति भक्षणम् २

मूलम्

इन्द्र श्च सम्राडिति भक्षणम् २

विश्वास-प्रस्तुतिः

आ पात्रप्रक्षालनात्कृत्वाऽतिरात्रश्चेत्सौम्येन सहाऽश्विनो द्विकपालः सर्वत्र ३

मूलम्

आ पात्रप्रक्षालनात्कृत्वाऽतिरात्रश्चेत्सौम्येन सहाऽश्विनो द्विकपालः सर्वत्र ३

विश्वास-प्रस्तुतिः

त्रयः पर्यायाश्चमसैश्चतुस्तोत्रः पर्यायः ४

मूलम्

त्रयः पर्यायाश्चमसैश्चतुस्तोत्रः पर्यायः ४

विश्वास-प्रस्तुतिः

होतुः प्रथमं प्रथममुक्थ्यवदितरेषु ५

मूलम्

होतुः प्रथमं प्रथममुक्थ्यवदितरेषु ५

विश्वास-प्रस्तुतिः

तदन्ते चमसानुन्नीय स्तोत्रोपाकरणं सन्धेः ६

मूलम्

तदन्ते चमसानुन्नीय स्तोत्रोपाकरणं सन्धेः ६

विश्वास-प्रस्तुतिः

होता शंसत्याश्विनम् ७

मूलम्

होता शंसत्याश्विनम् ७

विश्वास-प्रस्तुतिः

शस्त्रान्त आश्चिनेन सर्वहुतेन चरति । एकप्रदानश्चमसैः ८

मूलम्

शस्त्रान्त आश्चिनेन सर्वहुतेन चरति । एकप्रदानश्चमसैः ८

विश्वास-प्रस्तुतिः

अश्विभ्यां तिरोह्न्यानां सोमानामनुवाचनप्रैषौ ९

मूलम्

अश्विभ्यां तिरोह्न्यानां सोमानामनुवाचनप्रैषौ ९

विश्वास-प्रस्तुतिः

ऐन्द्रा ग्नः सवनीयोऽन्वहम् १०

मूलम्

ऐन्द्रा ग्नः सवनीयोऽन्वहम् १०

विश्वास-प्रस्तुतिः

स्तोमायनं वा ११

मूलम्

स्तोमायनं वा ११

विश्वास-प्रस्तुतिः

ऐकादशिना वा विहृताः १२

मूलम्

ऐकादशिना वा विहृताः १२

विश्वास-प्रस्तुतिः

द्वादश आद्यः १३

मूलम्

द्वादश आद्यः १३

विश्वास-प्रस्तुतिः

सर्वसमासो वैन्द्रा ग्नो वा १४

मूलम्

सर्वसमासो वैन्द्रा ग्नो वा १४

विश्वास-प्रस्तुतिः

यावच्छेषमुत्तरेषु १५

मूलम्

यावच्छेषमुत्तरेषु १५

विश्वास-प्रस्तुतिः

काम्यं सत्त्रम् १६

मूलम्

काम्यं सत्त्रम् १६

विश्वास-प्रस्तुतिः

अहीने व्यूढच्छन्दसि दशसत्रस्य चतुर्थनवमयोरह्नोराग्रयणग्रहणं प्रथमम् १७

मूलम्

अहीने व्यूढच्छन्दसि दशसत्रस्य चतुर्थनवमयोरह्नोराग्रयणग्रहणं प्रथमम् १७

विश्वास-प्रस्तुतिः

शुक्रस्य षष्ठसप्तमयोः १८

मूलम्

शुक्रस्य षष्ठसप्तमयोः १८

विश्वास-प्रस्तुतिः

असादनमा पूर्वेषां ग्रहणात् १९

मूलम्

असादनमा पूर्वेषां ग्रहणात् १९

विश्वास-प्रस्तुतिः

परिमार्जनभृति काले हिङ्कृत्य सादनम् २०

मूलम्

परिमार्जनभृति काले हिङ्कृत्य सादनम् २०

विश्वास-प्रस्तुतिः

अव्यूढो वा २१

मूलम्

अव्यूढो वा २१

विश्वास-प्रस्तुतिः

उभयतोऽतिरात्रः २२

मूलम्

उभयतोऽतिरात्रः २२

विश्वास-प्रस्तुतिः

अतिप्रेषितेऽग्नीदाह श्वःसुत्यामिन्द्रा ग्निभ्यां प्रब्रवीमि विश्वेभ्यो देवेभ्यो ब्राह्मणेभ्यः सोमपेभ्यो ब्रह्मन्वाचं यच्छेति २३

मूलम्

अतिप्रेषितेऽग्नीदाह श्वःसुत्यामिन्द्रा ग्निभ्यां प्रब्रवीमि विश्वेभ्यो देवेभ्यो ब्राह्मणेभ्यः सोमपेभ्यो ब्रह्मन्वाचं यच्छेति २३

विश्वास-प्रस्तुतिः

प्रायणीयेऽद्य सुत्यामेके प्राप्तकालत्वात् २४

मूलम्

प्रायणीयेऽद्य सुत्यामेके प्राप्तकालत्वात् २४

विश्वास-प्रस्तुतिः

न पूर्वशेषात् २५

मूलम्

न पूर्वशेषात् २५

विश्वास-प्रस्तुतिः

तस्माच्च श्वो भावात् २६

मूलम्

तस्माच्च श्वो भावात् २६

विश्वास-प्रस्तुतिः

अचोदितत्वाच्च २७

मूलम्

अचोदितत्वाच्च २७

विश्वास-प्रस्तुतिः

अग्निमद्येति च लिङ्गात् २८

मूलम्

अग्निमद्येति च लिङ्गात् २८

विश्वास-प्रस्तुतिः

प्रायणीयादुत्तरमहः श्वः कालाभावात् २९

मूलम्

प्रायणीयादुत्तरमहः श्वः कालाभावात् २९

विश्वास-प्रस्तुतिः

न सम्पच्छ्रुतेः ३०

मूलम्

न सम्पच्छ्रुतेः ३०

विश्वास-प्रस्तुतिः

कालो वचनात् ३१

मूलम्

कालो वचनात् ३१