विश्वास-प्रस्तुतिः
अन्तराऽग्रयणोक्थ्यावागन्तुस्थानं ग्रहणाम् १
मूलम्
अन्तराऽग्रयणोक्थ्यावागन्तुस्थानं ग्रहणाम् १
विश्वास-प्रस्तुतिः
प्रातःसवनेऽतिग्राह्यान्गृहीत्वा षोडशिनं खादिरेण चतुःस्रक्तिनाऽतिष्ठ युक्ष्वा हीति वा २
मूलम्
प्रातःसवनेऽतिग्राह्यान्गृहीत्वा षोडशिनं खादिरेण चतुःस्रक्तिनाऽतिष्ठ युक्ष्वा हीति वा २
विश्वास-प्रस्तुतिः
माध्यन्दिने वाऽग्रयणादुत्तरः ३
मूलम्
माध्यन्दिने वाऽग्रयणादुत्तरः ३
विश्वास-प्रस्तुतिः
धाराग्रहान्ते वाऽतिग्राह्यान् ४
मूलम्
धाराग्रहान्ते वाऽतिग्राह्यान् ४
विश्वास-प्रस्तुतिः
पूतभृतो वोपाकरिष्यन्पृष्ठम् ५
मूलम्
पूतभृतो वोपाकरिष्यन्पृष्ठम् ५
विश्वास-प्रस्तुतिः
अपो निधायांऽश्वदाभ्यग्रहणम् ६
मूलम्
अपो निधायांऽश्वदाभ्यग्रहणम् ६
विश्वास-प्रस्तुतिः
औदुम्बरेण चतुःस्रक्तिनांऽशोः । तूष्णीं सर्वम् ७
मूलम्
औदुम्बरेण चतुःस्रक्तिनांऽशोः । तूष्णीं सर्वम् ७
विश्वास-प्रस्तुतिः
अनुच्छ्वसंश्चेच्छन् ८
मूलम्
अनुच्छ्वसंश्चेच्छन् ८
विश्वास-प्रस्तुतिः
अद्र्यादानांऽशुनिवपनोपसर्जनसकृत्प्रहरणहोमान् । हिरण्यं चोपजिघ्रति ९
मूलम्
अद्र्यादानांऽशुनिवपनोपसर्जनसकृत्प्रहरणहोमान् । हिरण्यं चोपजिघ्रति ९
विश्वास-प्रस्तुतिः
उद्यम्य वा प्रहरणम् १०
मूलम्
उद्यम्य वा प्रहरणम् १०
विश्वास-प्रस्तुतिः
सत्त्रसहसरसर्ववेदसवाजपेयराजसूयविश्वजित्सर्वपृष्ठेषु ग्रहणमवक्जाश्यश्चेत् ११
मूलम्
सत्त्रसहसरसर्ववेदसवाजपेयराजसूयविश्वजित्सर्वपृष्ठेषु ग्रहणमवक्जाश्यश्चेत् ११
विश्वास-प्रस्तुतिः
द्वादश वत्सतर्यो गर्भिण्यो दक्षिणाऽसत्त्रे १२
मूलम्
द्वादश वत्सतर्यो गर्भिण्यो दक्षिणाऽसत्त्रे १२
विश्वास-प्रस्तुतिः
बुभूषतोऽदाभ्यं गृह्णाति १३
मूलम्
बुभूषतोऽदाभ्यं गृह्णाति १३
विश्वास-प्रस्तुतिः
आसिच्य निग्राभ्याः पात्रे तस्मिंस्तूष्णीं त्रीनंशूनवधायाग्नये त्वा गायत्रच्छन्दसमिति १४
मूलम्
आसिच्य निग्राभ्याः पात्रे तस्मिंस्तूष्णीं त्रीनंशूनवधायाग्नये त्वा गायत्रच्छन्दसमिति १४
विश्वास-प्रस्तुतिः
उपयामः सर्वत्राऽविशेषात् १५
मूलम्
उपयामः सर्वत्राऽविशेषात् १५
विश्वास-प्रस्तुतिः
विग्रहादित्यग्रहप्रतिषेधात् १६
मूलम्
विग्रहादित्यग्रहप्रतिषेधात् १६
विश्वास-प्रस्तुतिः
अनुष्टुते इत्युक्त्वा धूनोत्यंशुभिर्व्रेशीनां त्वेति गच्छन्नाहवनीयं तस्मै त्वा इति जुहोति १७
मूलम्
अनुष्टुते इत्युक्त्वा धूनोत्यंशुभिर्व्रेशीनां त्वेति गच्छन्नाहवनीयं तस्मै त्वा इति जुहोति १७
विश्वास-प्रस्तुतिः
अंशून्त्सोमे निदधात्युशिक्त्वमिति प्रतिमन्त्रम् १८
मूलम्
अंशून्त्सोमे निदधात्युशिक्त्वमिति प्रतिमन्त्रम् १८
विश्वास-प्रस्तुतिः
अंशुवद्दक्षिणा १९
मूलम्
अंशुवद्दक्षिणा १९
विश्वास-प्रस्तुतिः
चमसानुन्नीय २०
मूलम्
चमसानुन्नीय २०