विश्वास-प्रस्तुतिः
एकैको वाग्यतः ह्सोमं रक्षत्याबोधनात् १
मूलम्
एकैको वाग्यतः ह्सोमं रक्षत्याबोधनात् १
विश्वास-प्रस्तुतिः
वसतीवरिपरिहरणादि वा २
मूलम्
वसतीवरिपरिहरणादि वा २
विश्वास-प्रस्तुतिः
इतरे विसृज्यन्ते स्वाध्यायाय समिद्भ्यो वा ३
मूलम्
इतरे विसृज्यन्ते स्वाध्यायाय समिद्भ्यो वा ३
विश्वास-प्रस्तुतिः
तत्राऽप्यशनम् ४
मूलम्
तत्राऽप्यशनम् ४
विश्वास-प्रस्तुतिः
दशमे वा सन्निधेः ५
मूलम्
दशमे वा सन्निधेः ५
विश्वास-प्रस्तुतिः
अस्तमिते समिदाधानं सर्वेषु ६
मूलम्
अस्तमिते समिदाधानं सर्वेषु ६
विश्वास-प्रस्तुतिः
दशमेऽपराह्णेऽप उपस्पृश्य शालाप्रवेशनम् ७
मूलम्
दशमेऽपराह्णेऽप उपस्पृश्य शालाप्रवेशनम् ७
विश्वास-प्रस्तुतिः
शालाद्वार्युएऽन्वारब्धेष्विह रतिरिति जुहोति ८
मूलम्
शालाद्वार्युएऽन्वारब्धेष्विह रतिरिति जुहोति ८
विश्वास-प्रस्तुतिः
अपरामुपसृजन्निति ९
मूलम्
अपरामुपसृजन्निति ९
विश्वास-प्रस्तुतिः
उत्तरेण परिक्रम्याऽपरेण हविर्धानं प्रविश्योत्तरस्य हविर्धानस्याऽपरकूबरीमालभ्य सत्त्रस्यर्द्धिं गायन्ति सत्रस्य ऋद्धिरिति १०
मूलम्
उत्तरेण परिक्रम्याऽपरेण हविर्धानं प्रविश्योत्तरस्य हविर्धानस्याऽपरकूबरीमालभ्य सत्त्रस्यर्द्धिं गायन्ति सत्रस्य ऋद्धिरिति १०
विश्वास-प्रस्तुतिः
उत्तरवेदिश्रोण्यां वोत्तरस्याम् ११
मूलम्
उत्तरवेदिश्रोण्यां वोत्तरस्याम् ११
विश्वास-प्रस्तुतिः
युवं तमिति दक्षिणस्याऽधोऽक्षं प्राञ्चो निष्क्रामन्ति १२
मूलम्
युवं तमिति दक्षिणस्याऽधोऽक्षं प्राञ्चो निष्क्रामन्ति १२
विश्वास-प्रस्तुतिः
ग्रहं गृह्णाति प्राजापत्यं वायुं पृथिव्या पात्रेण ग्रहणसादनस्तोत्रोपाकरणहोमभक्षाऽहरणभक्षणानि मनसा १३
मूलम्
ग्रहं गृह्णाति प्राजापत्यं वायुं पृथिव्या पात्रेण ग्रहणसादनस्तोत्रोपाकरणहोमभक्षाऽहरणभक्षणानि मनसा १३
विश्वास-प्रस्तुतिः
चतुर्होतृव्याख्यानं होतुः १४
मूलम्
चतुर्होतृव्याख्यानं होतुः १४
विश्वास-प्रस्तुतिः
गृहपतिरजानति १५
मूलम्
गृहपतिरजानति १५
विश्वास-प्रस्तुतिः
प्रतिगृणात्यरात्सुरिमे यजमाना भद्र मेभ्यो यजमानेभ्योऽभूदिति १६
मूलम्
प्रतिगृणात्यरात्सुरिमे यजमाना भद्र मेभ्यो यजमानेभ्योऽभूदिति १६
विश्वास-प्रस्तुतिः
ब्रह्मोद्यं वदन्ति १७
मूलम्
ब्रह्मोद्यं वदन्ति १७
विश्वास-प्रस्तुतिः
प्रजापतेरगुणाऽख्यानम् १८
मूलम्
प्रजापतेरगुणाऽख्यानम् १८
विश्वास-प्रस्तुतिः
अप्रतिभायां वा तद्वादः १९
मूलम्
अप्रतिभायां वा तद्वादः १९
विश्वास-प्रस्तुतिः
आश्वमेधिकं वा नामधेयात् २०
मूलम्
आश्वमेधिकं वा नामधेयात् २०
विश्वास-प्रस्तुतिः
अनस्तमिते गृहीत्वौदुम्बरीं वाचं यच्छन्ति २१
मूलम्
अनस्तमिते गृहीत्वौदुम्बरीं वाचं यच्छन्ति २१
विश्वास-प्रस्तुतिः
अस्तमिते निष्क्रम्याऽपरेणोत्तरवेदिमासते प्रतिप्रस्थाता वसतीवरीः परिहरति २२
मूलम्
अस्तमिते निष्क्रम्याऽपरेणोत्तरवेदिमासते प्रतिप्रस्थाता वसतीवरीः परिहरति २२
विश्वास-प्रस्तुतिः
वाग्विसर्जनं सत्त्रकामेन २३
मूलम्
वाग्विसर्जनं सत्त्रकामेन २३
विश्वास-प्रस्तुतिः
पृथक्कामेषु भूर्भुव इति २४
मूलम्
पृथक्कामेषु भूर्भुव इति २४
विश्वास-प्रस्तुतिः
सुब्रह्मण्याऽह्वानं गृहपतेर्यं वाऽहं गृहपतिः २५
मूलम्
सुब्रह्मण्याऽह्वानं गृहपतेर्यं वाऽहं गृहपतिः २५
विश्वास-प्रस्तुतिः
सुब्रह्मण्य उप मा ह्वयस्वेत्युक्त्वा समिदाधानम् २६
मूलम्
सुब्रह्मण्य उप मा ह्वयस्वेत्युक्त्वा समिदाधानम् २६
विश्वास-प्रस्तुतिः
अप उपस्पर्शनाद्येतत्सत्त्रोत्थानम् २७
मूलम्
अप उपस्पर्शनाद्येतत्सत्त्रोत्थानम् २७