विश्वास-प्रस्तुतिः
पृष्ठ्यः षडहः प्रथमोऽग्निष्टोमश्चतुर्थः षोडश्युक्थ्या इतरे १
मूलम्
पृष्ठ्यः षडहः प्रथमोऽग्निष्टोमश्चतुर्थः षोडश्युक्थ्या इतरे १
विश्वास-प्रस्तुतिः
तत्राऽतिग्राह्यग्रहणं त्र्यहे पूर्वेऽग्ने पवेस्वोत्तिष्ठन्नदृश्रमित्यन्वहमेकैकम् २
मूलम्
तत्राऽतिग्राह्यग्रहणं त्र्यहे पूर्वेऽग्ने पवेस्वोत्तिष्ठन्नदृश्रमित्यन्वहमेकैकम् २
विश्वास-प्रस्तुतिः
उत्तरे वा ३
मूलम्
उत्तरे वा ३
विश्वास-प्रस्तुतिः
उभयोर्वा ४
मूलम्
उभयोर्वा ४
विश्वास-प्रस्तुतिः
माहेन्द्र मनु होमः ५
मूलम्
माहेन्द्र मनु होमः ५
विश्वास-प्रस्तुतिः
अग्ने वर्च्चस्विन्निन्द्रौ जिष्ठ सूर्य भ्राजिष्ठेति भक्षणं यजमानैः ६
मूलम्
अग्ने वर्च्चस्विन्निन्द्रौ जिष्ठ सूर्य भ्राजिष्ठेति भक्षणं यजमानैः ६
विश्वास-प्रस्तुतिः
पृष्ठकाले रथसंसारणं प्रथमे दक्षिणेन वेदिम् ७
मूलम्
पृष्ठकाले रथसंसारणं प्रथमे दक्षिणेन वेदिम् ७
विश्वास-प्रस्तुतिः
द्वितीये दुन्दुभिशब्देनोपाकरणम् ८
मूलम्
द्वितीये दुन्दुभिशब्देनोपाकरणम् ८
विश्वास-प्रस्तुतिः
तृतीय औपवाजनैः ९
मूलम्
तृतीय औपवाजनैः ९
विश्वास-प्रस्तुतिः
चतुर्थेऽरणिभ्यां मन्थनं चोद्गातुरुरौ होमश्च १०
मूलम्
चतुर्थेऽरणिभ्यां मन्थनं चोद्गातुरुरौ होमश्च १०
विश्वास-प्रस्तुतिः
पञ्चमे सावकयोदपात्र्या ११
मूलम्
पञ्चमे सावकयोदपात्र्या ११
विश्वास-प्रस्तुतिः
षष्ठे सांवाशिनेन १२
मूलम्
षष्ठे सांवाशिनेन १२
विश्वास-प्रस्तुतिः
मातृभिर्वत्सान्त्संसृज्य सदः पूर्वेण व्यावर्त्तयन्ति १३
मूलम्
मातृभिर्वत्सान्त्संसृज्य सदः पूर्वेण व्यावर्त्तयन्ति १३
विश्वास-प्रस्तुतिः
स्वयमृतुयाजेज्याऽर्वाञ्चमद्य यय्यं नृवाहणं । रथं युञ्जाथामिह वां विमोचनं पृङ्क्तं हवींषि मधुना हि कं गतमथा सोमं पिबतं वाजिनीवस् इति १४
मूलम्
स्वयमृतुयाजेज्याऽर्वाञ्चमद्य यय्यं नृवाहणं । रथं युञ्जाथामिह वां विमोचनं पृङ्क्तं हवींषि मधुना हि कं गतमथा सोमं पिबतं वाजिनीवस् इति १४
विश्वास-प्रस्तुतिः
होतृप्रत्ययः प्रतिगरः १५
मूलम्
होतृप्रत्ययः प्रतिगरः १५
विश्वास-प्रस्तुतिः
प्राकृतं चाऽन्यार्थत्वादितरेषाम् १६
मूलम्
प्राकृतं चाऽन्यार्थत्वादितरेषाम् १६
विश्वास-प्रस्तुतिः
षडहाऽन्ते न बहु वदेत् । नाऽन्यं पृच्छेत् । नाऽन्यस्मै प्रब्रूयात् १७
मूलम्
षडहाऽन्ते न बहु वदेत् । नाऽन्यं पृच्छेत् । नाऽन्यस्मै प्रब्रूयात् १७
विश्वास-प्रस्तुतिः
मधोः प्राशनं घृतस्य वा १८
मूलम्
मधोः प्राशनं घृतस्य वा १८
विश्वास-प्रस्तुतिः
उक्थ्याश्छन्दोमास्त्रय उत्तरे १९
मूलम्
उक्थ्याश्छन्दोमास्त्रय उत्तरे १९
विश्वास-प्रस्तुतिः
अत्यग्निष्टोमोऽविवाक्यं दशमम् २०
मूलम्
अत्यग्निष्टोमोऽविवाक्यं दशमम् २०
विश्वास-प्रस्तुतिः
पत्नीसंयाजान्तान्यहान्यन्त्यवर्जम् २१
मूलम्
पत्नीसंयाजान्तान्यहान्यन्त्यवर्जम् २१