विश्वास-प्रस्तुतिः
आग्नीध्रीय उद्यतेऽङ्गारमेकैकं हरन्ति प्रतिचिति शालाद्वार्यात् १
मूलम्

प्रत्यग्नि सवनीयपुरोडाशा भूयोहविरुच्छिष्टमसत्समाप्त्या इति श्रुतेः २

पत्नीसंयाजाश्च पूर्ववत् ३
मूलम्
पत्नीसंयाजाश्च पूर्ववत् ३
विश्वास-प्रस्तुतिः
गृहपतिं वा पर्युपविश्य मन्थन्ते ४
मूलम्
गृहपतिं वा पर्युपविश्य मन्थन्ते ४
विश्वास-प्रस्तुतिः
गृहपतिः प्रथमः प्रथमः सर्वत्र ५
मूलम्
गृहपतिः प्रथमः प्रथमः सर्वत्र ५
विश्वास-प्रस्तुतिः
जातं जातं गृहपतिर्गार्हपत्ये प्रास्यन्त्युभयत्र ६

उपवसथप्रभृति तुल्यं सर्वेषु ७
मूलम्
उपवसथप्रभृति तुल्यं सर्वेषु ७
विश्वास-प्रस्तुतिः
अरण्योर्वाऽहुर्गृहपतेर्य इतोऽग्निर्जनिष्यते स नः सह यदनेन यज्ञेन जेष्यामोऽनेन पशुबन्धेन तन्नः सह सह नः साधुकृत्या नाना पापकृत्या य एव पापं करवत्तस्यैव तदित्युक्त्वा गृहपतिः समारोहयते स्वौ प्रथमम् ८

यथास्वं वेतरे ९
मूलम्
यथास्वं वेतरे ९
विश्वास-प्रस्तुतिः
दीक्षाकाले संवादप्रभृति पशुबन्धस्थाने सत्रेणेति १०

एकाहवद्धोत्तमे शालागार्हपत्यपुरोडाशपत्नीसंयाजाः ११

एकपुरोडाशेषु व्रत्यासम्भवान्दैद्रं पञ्चशरावमोदनं निर्वपेत्पुरोडाशं वा यद्योदनीयन्ति यद्यपूपीयन्ति इति श्रुतेः १२

बार्हस्पत्यमेके १३
मूलम्
बार्हस्पत्यमेके १३
विश्वास-प्रस्तुतिः
दीक्षा द्वादशोपसदश्च १४
मूलम्
दीक्षा द्वादशोपसदश्च १४
विश्वास-प्रस्तुतिः
अध्वर्युर्गृहपतिं दीक्षयति ब्रह्मादींश्चाऽध्वर्य्वादीन्प्रतिप्रस्थाता प्रतिप्रस्थात्रादीन्नेष्टा नेष्ट्रादीनुन्नेता उन्नेतारं ब्रह्मचारी स्नातकोऽन्यो वा ब्राह्मणो न पूतः पावयेत् इति श्रुतेः १५

अनुपति पत्नीरुत्तर उत्तरः १६
मूलम्
अनुपति पत्नीरुत्तर उत्तरः १६
विश्वास-प्रस्तुतिः
त एवोन्नेतुः १७
मूलम्
त एवोन्नेतुः १७
विश्वास-प्रस्तुतिः
दक्षिणाकाले कृष्णाजिनानि धून्वाना दक्षिणापथेन उपन्तो गच्छन्ति यन्मे गदायुषः परागिताऽगात्तां तेऽगद दक्षिणां नयामीतीदमहममुमामुष्यायणममुष्य पुत्रममुष्या । पुत्रं कामाय दक्षिणां नयामीति १८