(द्वादशाहयज्ञः)

विश्वास-प्रस्तुतिः

ज्योतिष्टोमधर्मा एकाहद्वादशाहयोस्तद्गुणदर्शनात् १

मूलम्

ज्योतिष्टोमधर्मा एकाहद्वादशाहयोस्तद्गुणदर्शनात् १

विश्वास-प्रस्तुतिः

प्रथमस्य व्रात्यस्तोमसाद्यःक्रेषु वचनात् २

मूलम्

प्रथमस्य व्रात्यस्तोमसाद्यःक्रेषु वचनात् २

विश्वास-प्रस्तुतिः

अग्निष्टुत्सु चैके ४

मूलम्

अग्निष्टुत्सु चैके ४

विश्वास-प्रस्तुतिः

द्वादशाह सत्त्रमहीनश्च ५

मूलम्

द्वादशाह सत्त्रमहीनश्च ५

विश्वास-प्रस्तुतिः

आसत उपयन्तीति सत्त्रलिङ्गम् यजत इत्यहीनस्य ६

मूलम्

आसत उपयन्तीति सत्त्रलिङ्गम् यजत इत्यहीनस्य ६

विश्वास-प्रस्तुतिः

उभयतोऽतिरात्रं सत्त्रमुपरिष्टादहीनस्य ७

मूलम्

उभयतोऽतिरात्रं सत्त्रमुपरिष्टादहीनस्य ७

विश्वास-प्रस्तुतिः

यजमानाः सर्वे सत्रेषु ८

मूलम्

यजमानाः सर्वे सत्रेषु ८

विश्वास-प्रस्तुतिः

अदक्षिणानि च स्वामियोगात् ९

मूलम्

अदक्षिणानि च स्वामियोगात् ९

विश्वास-प्रस्तुतिः

गृहपतिर्याजमानयुक्तत्वात् १०

मूलम्

गृहपतिर्याजमानयुक्तत्वात् १०

विश्वास-प्रस्तुतिः

दर्शनाच्च ११

मूलम्

दर्शनाच्च ११

विश्वास-प्रस्तुतिः

सर्वे संस्कारात् १२

मूलम्

सर्वे संस्कारात् १२

विश्वास-प्रस्तुतिः

दर्शने वचनात् १३

मूलम्

दर्शने वचनात् १३

विश्वास-प्रस्तुतिः

अविभवति गृहपत्यन्वारम्भः १४

मूलम्

अविभवति गृहपत्यन्वारम्भः १४

विश्वास-प्रस्तुतिः

परार्थेत्वेकः कृतत्वात् १५

मूलम्

परार्थेत्वेकः कृतत्वात् १५

विश्वास-प्रस्तुतिः

अग्निं चेष्यमाणः समारोह्य गृहपतिर्मध्ये मन्थत्यर्द्धश इतरे दक्षिणोत्तराः १६

मूलम्

अग्निं चेष्यमाणः समारोह्य गृहपतिर्मध्ये मन्थत्यर्द्धश इतरे दक्षिणोत्तराः १६

विश्वास-प्रस्तुतिः

गृहपत्याहवनीयेऽङ्गारप्रासनम् १७

मूलम्

गृहपत्याहवनीयेऽङ्गारप्रासनम् १७

विश्वास-प्रस्तुतिः

तत्र प्राजापत्यः पशुः १८

मूलम्

तत्र प्राजापत्यः पशुः १८

विश्वास-प्रस्तुतिः

आज्येन पत्नीसंयाजा गृहपतिवर्जम् १९

मूलम्

आज्येन पत्नीसंयाजा गृहपतिवर्जम् १९

विश्वास-प्रस्तुतिः

तदहर्दीक्षा २०

मूलम्

तदहर्दीक्षा २०

विश्वास-प्रस्तुतिः

अशक्तौ नियतक्रिया समारूढनिर्मर्थितेषु सर्वत्र २१

मूलम्

अशक्तौ नियतक्रिया समारूढनिर्मर्थितेषु सर्वत्र २१

विश्वास-प्रस्तुतिः

दीक्षाकाल उदग्वंशायां पूर्ववन्मन्थनम् २२

मूलम्

दीक्षाकाल उदग्वंशायां पूर्ववन्मन्थनम् २२

विश्वास-प्रस्तुतिः

गार्हपत्ये प्रासनमत्र २३

मूलम्

गार्हपत्ये प्रासनमत्र २३

विश्वास-प्रस्तुतिः

आहवनीयस्ततः २४

मूलम्

आहवनीयस्ततः २४

विश्वास-प्रस्तुतिः

तत्र दीक्षा २५

मूलम्

तत्र दीक्षा २५

विश्वास-प्रस्तुतिः

उपवसथप्रभृति प्रागग्नीषोमप्रणयनादुपशमय्य चिनोत्येनाञ्छालाद्वार्याद्दक्षिणोत्तरान्धिष्ण्यवत् श्रुतेः २७

मूलम्

उपवसथप्रभृति प्रागग्नीषोमप्रणयनादुपशमय्य चिनोत्येनाञ्छालाद्वार्याद्दक्षिणोत्तरान्धिष्ण्यवत् श्रुतेः २७

विश्वास-प्रस्तुतिः

वा यथोक्तं गृहपतेः २८

मूलम्

वा यथोक्तं गृहपतेः २८