(ज्योतिष्टोमब्रह्मत्वम्)
विश्वास-प्रस्तुतिः
ब्रह्मत्वमतः १
मूलम्
ब्रह्मत्वमतः १
विश्वास-प्रस्तुतिः
वाग्यतः कर्मणि वर्त्तमाने २
मूलम्
वाग्यतः कर्मणि वर्त्तमाने २
विश्वास-प्रस्तुतिः
हिरण्यवत्यां हुतायां दक्षिणाऽनुगच्छत्या क्रयात् ३
मूलम्
हिरण्यवत्यां हुतायां दक्षिणाऽनुगच्छत्या क्रयात् ३
विश्वास-प्रस्तुतिः
क्रीते प्राङ्तीत्य पूर्वेणाऽनः परीत्याऽपरेण वा दक्षिणोऽनुगच्छत्या निधानात् ४
मूलम्
क्रीते प्राङ्तीत्य पूर्वेणाऽनः परीत्याऽपरेण वा दक्षिणोऽनुगच्छत्या निधानात् ४
विश्वास-प्रस्तुतिः
दक्षिणाग्निं वाऽपरेण घर्मे ५
मूलम्
दक्षिणाग्निं वाऽपरेण घर्मे ५
विश्वास-प्रस्तुतिः
स्तम्बयजुर्हरिष्यत्याहवनीयं दक्षिणेनाऽस्ते वेदिसहितः ६
मूलम्
स्तम्बयजुर्हरिष्यत्याहवनीयं दक्षिणेनाऽस्ते वेदिसहितः ६
विश्वास-प्रस्तुतिः
एवं सर्वत्र प्रागग्नीषोमप्रणयनात् ७
मूलम्
एवं सर्वत्र प्रागग्नीषोमप्रणयनात् ७
विश्वास-प्रस्तुतिः
कर्मणः कर्मणो वा सहितस्तत्तदेवाऽन्वेत्य ८
मूलम्
कर्मणः कर्मणो वा सहितस्तत्तदेवाऽन्वेत्य ८
विश्वास-प्रस्तुतिः
आहवनीये प्रणीयमानेऽप्रतिरथस्य द्वादश ब्रुवन्नग्नौ ९
मूलम्
आहवनीये प्रणीयमानेऽप्रतिरथस्य द्वादश ब्रुवन्नग्नौ ९
विश्वास-प्रस्तुतिः
सर्वत्रैके १०
मूलम्
सर्वत्रैके १०
विश्वास-प्रस्तुतिः
स्तीर्णायां यथार्थमेत्य ११
मूलम्
स्तीर्णायां यथार्थमेत्य ११
विश्वास-प्रस्तुतिः
अग्नीषोमप्रणयनायोत्तरेण धिष्ण्याञ्छालाद्वार्यं पूर्वेणेत्यास्ते दक्षिणतः १२
मूलम्
अग्नीषोमप्रणयनायोत्तरेण धिष्ण्याञ्छालाद्वार्यं पूर्वेणेत्यास्ते दक्षिणतः १२
विश्वास-प्रस्तुतिः
हुते च सोममादाय अग्निमन्वेति १३
मूलम्
हुते च सोममादाय अग्निमन्वेति १३
विश्वास-प्रस्तुतिः
यजमानो वा सोमं हरेत् १४
मूलम्
यजमानो वा सोमं हरेत् १४
विश्वास-प्रस्तुतिः
अन्यस्मै प्रदायाऽनिहिते यथेतमेत्याऽस्ते दक्षिणतः १५
मूलम्
अन्यस्मै प्रदायाऽनिहिते यथेतमेत्याऽस्ते दक्षिणतः १५
विश्वास-प्रस्तुतिः
हुते च सोममादायाऽहवनीयं चाऽतीत्य १६
मूलम्
हुते च सोममादायाऽहवनीयं चाऽतीत्य १६
विश्वास-प्रस्तुतिः
अपररात्रेऽग्नीषोमप्रणयनवदिच्छन् १७
मूलम्
अपररात्रेऽग्नीषोमप्रणयनवदिच्छन् १७
विश्वास-प्रस्तुतिः
विप्रुषां होमं हुत्वा प्रतिहर्त्तारमन्वारभेत वाऽदीक्षितः १८
मूलम्
विप्रुषां होमं हुत्वा प्रतिहर्त्तारमन्वारभेत वाऽदीक्षितः १८
विश्वास-प्रस्तुतिः
प्रस्तोत्राऽऽमन्त्रित एतं ते देव सवितःस्तुत सवितुः प्रसव इत्युक्त्वा प्रसौति १९
मूलम्
प्रस्तोत्राऽऽमन्त्रित एतं ते देव सवितःस्तुत सवितुः प्रसव इत्युक्त्वा प्रसौति १९
विश्वास-प्रस्तुतिः
देव सवितरेतद्बृहस्पते प्रेति वा २०
मूलम्
देव सवितरेतद्बृहस्पते प्रेति वा २०
विश्वास-प्रस्तुतिः
रश्मिना सत्यायेति वा प्रतिमन्त्रम् २१
मूलम्
रश्मिना सत्यायेति वा प्रतिमन्त्रम् २१
विश्वास-प्रस्तुतिः
येन प्रवेशनं तस्मिन्त्सर्पणम् २२
मूलम्
येन प्रवेशनं तस्मिन्त्सर्पणम् २२
विश्वास-प्रस्तुतिः
पूर्वेण यूपं परीत्याऽपरेण चेत् २३
मूलम्
पूर्वेण यूपं परीत्याऽपरेण चेत् २३
विश्वास-प्रस्तुतिः
प्रशास्तुर्दक्षिणतः आस्ते २४
मूलम्
प्रशास्तुर्दक्षिणतः आस्ते २४
विश्वास-प्रस्तुतिः
अपरेण धिष्ण्यानितरे २५
मूलम्
अपरेण धिष्ण्यानितरे २५
विश्वास-प्रस्तुतिः
नेष्टा च २६
मूलम्
नेष्टा च २६
विश्वास-प्रस्तुतिः
विसंस्थितसश्चरः प्रशास्तृधिष्ण्यं वोत्तरेणाऽपवमाने २७
मूलम्
विसंस्थितसश्चरः प्रशास्तृधिष्ण्यं वोत्तरेणाऽपवमाने २७
विश्वास-प्रस्तुतिः
स्वं स्वमितरे स्वं स्वमितरे २८
मूलम्
स्वं स्वमितरे स्वं स्वमितरे २८