विश्वास-प्रस्तुतिः
समुद्रे त इत्यृजीषकुम्भं प्लावयति १
मूलम्
समुद्रे त इत्यृजीषकुम्भं प्लावयति १
विश्वास-प्रस्तुतिः
देवीराप इति विसृज्योपतिष्ठते २
मूलम्
देवीराप इति विसृज्योपतिष्ठते २
विश्वास-प्रस्तुतिः
अवभृथेति मज्जयति ३
मूलम्
अवभृथेति मज्जयति ३
विश्वास-प्रस्तुतिः
कृष्णाजिनान्तं च मा मैन्द्र यंज्यैष्ठ्यं श्रैष्ठ्यं व्यौषीरिति ४
मूलम्
कृष्णाजिनान्तं च मा मैन्द्र यंज्यैष्ठ्यं श्रैष्ठ्यं व्यौषीरिति ४
विश्वास-प्रस्तुतिः
पुत्रायैनत्प्रदाय वरुणप्रघासवत्स्नानप्रभृत्या समिदाधानात् ५
मूलम्
पुत्रायैनत्प्रदाय वरुणप्रघासवत्स्नानप्रभृत्या समिदाधानात् ५
विश्वास-प्रस्तुतिः
सोमलिप्तं प्रास्यति ६
मूलम्
सोमलिप्तं प्रास्यति ६
विश्वास-प्रस्तुतिः
अदानं पूर्वयोः ७
मूलम्
अदानं पूर्वयोः ७
विश्वास-प्रस्तुतिः
उद्वयमित्युन्नेत्रोन्नीता आमहीयां जपन्तो गच्छन्ति अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान् । किं नूनमस्मान् कृणवदरातिः किमु धूर्तिरमृतं मर्त्यस्येति ८
मूलम्
उद्वयमित्युन्नेत्रोन्नीता आमहीयां जपन्तो गच्छन्ति अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान् । किं नूनमस्मान् कृणवदरातिः किमु धूर्तिरमृतं मर्त्यस्येति ८
विश्वास-प्रस्तुतिः
शालाद्वार्यमपरेणाऽस्ते यजमानः कृष्णाजिनमङ्के कृत्वा । स्रुवाहुतिं जुहोति मैन्द्र यंज्यैष्ठ्यं श्रैष्ठ्यम्मग्निर्दधातु स्वाहेति ९
मूलम्
शालाद्वार्यमपरेणाऽस्ते यजमानः कृष्णाजिनमङ्के कृत्वा । स्रुवाहुतिं जुहोति मैन्द्र यंज्यैष्ठ्यं श्रैष्ठ्यम्मग्निर्दधातु स्वाहेति ९
विश्वास-प्रस्तुतिः
कृष्णाजिनं निधायोदयनीया प्रायणीयावत् १०
मूलम्
कृष्णाजिनं निधायोदयनीया प्रायणीयावत् १०
विश्वास-प्रस्तुतिः
पथ्यास्वस्तिश्चतुर्थी ११
मूलम्
पथ्यास्वस्तिश्चतुर्थी ११
विश्वास-प्रस्तुतिः
पात्रप्रोक्षणाद्याऽज्यासादनात्सवनीयवत् परिव्ययणादि मैत्रावरुणी वशाऽनूबन्ध्या १२
मूलम्
पात्रप्रोक्षणाद्याऽज्यासादनात्सवनीयवत् परिव्ययणादि मैत्रावरुणी वशाऽनूबन्ध्या १२
विश्वास-प्रस्तुतिः
स्वर्ववगूहनादि वा कृतत्वात् १३
मूलम्
स्वर्ववगूहनादि वा कृतत्वात् १३
विश्वास-प्रस्तुतिः
वशाऽभाव उक्षा १४
मूलम्
वशाऽभाव उक्षा १४
विश्वास-प्रस्तुतिः
उभयाऽभावे पयस्या १५
मूलम्
उभयाऽभावे पयस्या १५
विश्वास-प्रस्तुतिः
आसाद्यैनामाज्यभागप्रभृतीडान्तामेके १६
मूलम्
आसाद्यैनामाज्यभागप्रभृतीडान्तामेके १६
विश्वास-प्रस्तुतिः
उदवसानीयाऽग्नेयः पञ्चकपालः समारूढनिर्मथिते १७
मूलम्
उदवसानीयाऽग्नेयः पञ्चकपालः समारूढनिर्मथिते १७
विश्वास-प्रस्तुतिः
हिरण्यं दक्षिणाऽनड्वान्वा १८
मूलम्
हिरण्यं दक्षिणाऽनड्वान्वा १८
विश्वास-प्रस्तुतिः
पशुवद्वाऽहुतिः १९
मूलम्
पशुवद्वाऽहुतिः १९
विश्वास-प्रस्तुतिः
तदन्ते सायमाहुतिः २०
मूलम्
तदन्ते सायमाहुतिः २०
विश्वास-प्रस्तुतिः
सोमाङ्गं सन्निधिविरोधाभ्याम् २१
मूलम्
सोमाङ्गं सन्निधिविरोधाभ्याम् २१
विश्वास-प्रस्तुतिः
नित्या वा प्रातराहुतिः श्रुतेः २२
मूलम्
नित्या वा प्रातराहुतिः श्रुतेः २२
विश्वास-प्रस्तुतिः
नियतक्रियाऽतः २३
मूलम्
नियतक्रियाऽतः २३
विश्वास-प्रस्तुतिः
एष प्रथमः सोमः २४
मूलम्
एष प्रथमः सोमः २४
विश्वास-प्रस्तुतिः
आदीप्य प्रविशन्ति २५
मूलम्
आदीप्य प्रविशन्ति २५
विश्वास-प्रस्तुतिः
षडुत्तरेऽत्यग्निष्टोम उक्थ्यः षोडशी वाजपेयोऽतिरात्रोऽप्तोर्यामः २६
मूलम्
षडुत्तरेऽत्यग्निष्टोम उक्थ्यः षोडशी वाजपेयोऽतिरात्रोऽप्तोर्यामः २६
विश्वास-प्रस्तुतिः
तेषामुक्थ्योऽच्छावाकमभि सन्तिष्ठते होतारमितरे २७
मूलम्
तेषामुक्थ्योऽच्छावाकमभि सन्तिष्ठते होतारमितरे २७
विश्वास-प्रस्तुतिः
वैश्यराजन्ययोः सोमे न्यग्रोधस्तिभीनुपनह्येच्छन् भक्षाय २८
मूलम्
वैश्यराजन्ययोः सोमे न्यग्रोधस्तिभीनुपनह्येच्छन् भक्षाय २८
विश्वास-प्रस्तुतिः
क्रयणप्रभृत्यनुसोममावृत्य समानमासादनं प्रागभिषवात् २९
मूलम्
क्रयणप्रभृत्यनुसोममावृत्य समानमासादनं प्रागभिषवात् २९
विश्वास-प्रस्तुतिः
चमसोन्नयनकाले वाऽहृत्य दघ्नोन्मृद्य तच्चमसममनून्नयेत् ३०
मूलम्
चमसोन्नयनकाले वाऽहृत्य दघ्नोन्मृद्य तच्चमसममनून्नयेत् ३०
विश्वास-प्रस्तुतिः
हूयमानेषु कुशतरुणेन जुहोत्यहं त्वदस्मीत्यहं त्वदस्मीति ३१
मूलम्
हूयमानेषु कुशतरुणेन जुहोत्यहं त्वदस्मीत्यहं त्वदस्मीति ३१