विश्वास-प्रस्तुतिः
विमुच्य स्रुचौ द्रो णकलशे हारियोजनग्रहणमुपयामगृहीतोऽसि हरिरसीति १
मूलम्
विमुच्य स्रुचौ द्रो णकलशे हारियोजनग्रहणमुपयामगृहीतोऽसि हरिरसीति १
विश्वास-प्रस्तुतिः
धाताश्चाऽवपति हर्योर्धाना इति २
मूलम्
धाताश्चाऽवपति हर्योर्धाना इति २
विश्वास-प्रस्तुतिः
उन्नेताऽनुवाचयति मूर्धनि कृत्वा धानासोमेभ्योऽनुब्रूहीति ३
मूलम्
उन्नेताऽनुवाचयति मूर्धनि कृत्वा धानासोमेभ्योऽनुब्रूहीति ३
विश्वास-प्रस्तुतिः
आश्राव्याऽह धानासोमान् प्रस्थितान् न्प्रेष्येति ४
मूलम्
आश्राव्याऽह धानासोमान् प्रस्थितान् न्प्रेष्येति ४
विश्वास-प्रस्तुतिः
भक्षं हरेदिच्छन् ५
मूलम्
भक्षं हरेदिच्छन् ५
विश्वास-प्रस्तुतिः
उत्तरवेदौ वा निधाय विलाभम् ६
मूलम्
उत्तरवेदौ वा निधाय विलाभम् ६
विश्वास-प्रस्तुतिः
यस्ते अश्वसनिरिति प्राणभक्षं भक्षयित्वोत्तरवेदौ निवपन्ति ७
मूलम्
यस्ते अश्वसनिरिति प्राणभक्षं भक्षयित्वोत्तरवेदौ निवपन्ति ७
विश्वास-प्रस्तुतिः
शकलाऽधानं देवकृतस्येति प्रतिमन्त्रम् ८
मूलम्
शकलाऽधानं देवकृतस्येति प्रतिमन्त्रम् ८
विश्वास-प्रस्तुतिः
अपरेण चात्वालं यथास्वं चमसान्पूर्णपात्रानवमृशन्ति हरितकुशानवधाय संवर्चसेति ९
मूलम्
अपरेण चात्वालं यथास्वं चमसान्पूर्णपात्रानवमृशन्ति हरितकुशानवधाय संवर्चसेति ९
विश्वास-प्रस्तुतिः
मुखान्यालभन्ते १०
मूलम्
मुखान्यालभन्ते १०
विश्वास-प्रस्तुतिः
दधिक्राव्ण इत्याग्नीध्रे दधिभक्षणम् ११
मूलम्
दधिक्राव्ण इत्याग्नीध्रे दधिभक्षणम् ११
विश्वास-प्रस्तुतिः
पत्नीसंयाजाः पशुवत् १२
मूलम्
पत्नीसंयाजाः पशुवत् १२
विश्वास-प्रस्तुतिः
समिन्द्र ण इति नव समिष्टयजूंषि जुहोति प्रतिमन्त्रम् १३
मूलम्
समिन्द्र ण इति नव समिष्टयजूंषि जुहोति प्रतिमन्त्रम् १३
विश्वास-प्रस्तुतिः
आसन्द्यौदुम्बर्यौ चात्वालं हरति । सोमलिप्तं च १४
मूलम्
आसन्द्यौदुम्बर्यौ चात्वालं हरति । सोमलिप्तं च १४
विश्वास-प्रस्तुतिः
कृष्णविषाणमेखले चात्वाले प्रास्यति माऽहिर्भूरिति १५
मूलम्
कृष्णविषाणमेखले चात्वाले प्रास्यति माऽहिर्भूरिति १५
विश्वास-प्रस्तुतिः
प्रतिप्रस्थाता च शङ्कुयोक्त्रे तूष्णीम् १६
मूलम्
प्रतिप्रस्थाता च शङ्कुयोक्त्रे तूष्णीम् १६
विश्वास-प्रस्तुतिः
उरुं हीति वाचयति यजमानम् १७
मूलम्
उरुं हीति वाचयति यजमानम् १७
विश्वास-प्रस्तुतिः
साम प्रेष्यति गाय ब्रूहीति वा १८
मूलम्
साम प्रेष्यति गाय ब्रूहीति वा १८
विश्वास-प्रस्तुतिः
व्यध्वोदकान्तयोश्च १९
मूलम्
व्यध्वोदकान्तयोश्च १९
विश्वास-प्रस्तुतिः
सर्वे निधनमुपयन्ति २०
मूलम्
सर्वे निधनमुपयन्ति २०
विश्वास-प्रस्तुतिः
आहृतमादायाऽवभृथं गच्छन्ति स्यन्दमानानां स्थावराः अ २१
मूलम्
आहृतमादायाऽवभृथं गच्छन्ति स्यन्दमानानां स्थावराः अ २१
विश्वास-प्रस्तुतिः
तदभावेऽन्याः २२
मूलम्
तदभावेऽन्याः २२
विश्वास-प्रस्तुतिः
नमो वरुणायेति वाचयत्यपोऽवक्रमयन् २३
मूलम्
नमो वरुणायेति वाचयत्यपोऽवक्रमयन् २३
विश्वास-प्रस्तुतिः
प्रास्य समिधं चतुर्गृहीतेनाऽभिजुहोत्यग्नेरनीकमिति २४
मूलम्
प्रास्य समिधं चतुर्गृहीतेनाऽभिजुहोत्यग्नेरनीकमिति २४
विश्वास-प्रस्तुतिः
अपरेण प्रयाजान्बर्हिर्वर्जम् २५
मूलम्
अपरेण प्रयाजान्बर्हिर्वर्जम् २५
विश्वास-प्रस्तुतिः
अप्सु जुहोति २६
मूलम्
अप्सु जुहोति २६
विश्वास-प्रस्तुतिः
एककपालेनाऽवदायं चरन्तीति २७
मूलम्
एककपालेनाऽवदायं चरन्तीति २७
विश्वास-प्रस्तुतिः
ऋजीषस्येच्छन्नवद्येदग्नीवरुणाभ्यां सर्वहुतं शेषम् २८
मूलम्
ऋजीषस्येच्छन्नवद्येदग्नीवरुणाभ्यां सर्वहुतं शेषम् २८
विश्वास-प्रस्तुतिः
ऋजीषस्य च सकृत्पूर्वे चेत् २९
मूलम्
ऋजीषस्य च सकृत्पूर्वे चेत् २९
विश्वास-प्रस्तुतिः
वश एतत्कुर्यात् ३०
मूलम्
वश एतत्कुर्यात् ३०
विश्वास-प्रस्तुतिः
यजमानोक्तावाज्यभागौ बर्हिर्वर्जं चाऽनुयाजौ ३१
मूलम्
यजमानोक्तावाज्यभागौ बर्हिर्वर्जं चाऽनुयाजौ ३१
विश्वास-प्रस्तुतिः
अन्यतरत्कृत्वा ३२
मूलम्
अन्यतरत्कृत्वा ३२