विश्वास-प्रस्तुतिः
यज्ञायज्ञियं स्तोत्रमुपाकरोति होतृचमसमुपस्पृश्य १
मूलम्

प्रोर्णुते चेच्छन्नुद्गातृवत् २
मूलम्
प्रोर्णुते चेच्छन्नुद्गातृवत् २
विश्वास-प्रस्तुतिः
पत्नीं सदः प्रवेश्याऽपरेणोत्तरत उपविष्टामुद्गात्रा समीक्षयति प्रजापतिर्वृषाऽसीति ३

पान्नेजनीभिरभिषिञ्चति विवृत्य दक्षिणोरुम् ४

उद्गात्राऽनुज्ञाता गच्छति ईक्षिता वा त्रिः ५

एवा न इन्द्रो मघवेति शस्यमाने ध्रुवं होतृचमसेऽवनयति ध्रुवं ध्रुवेणेति ६

अवनयामिस्थाने गृह्णमीति वा ७
मूलम्
अवनयामिस्थाने गृह्णमीति वा ७
विश्वास-प्रस्तुतिः
वैश्वानरं यजमानस्य गृहीतश्चेत् ८
मूलम्
वैश्वानरं यजमानस्य गृहीतश्चेत् ८
विश्वास-प्रस्तुतिः
पात्रपक्षालनान्तेऽनुयाजाः समिदादि ९
मूलम्
पात्रपक्षालनान्तेऽनुयाजाः समिदादि ९
विश्वास-प्रस्तुतिः
उक्थ्यविग्रहणमुत्तरेष्विन्द्रा वरुणाभ्यामिन्द्रा बृहस्पतिभ्यामिन्द्रा विष्णुभ्यामिति १०

स्तुतशस्त्रे अधिके षोडशी चेत् ११
मूलम्
स्तुतशस्त्रे अधिके षोडशी चेत् ११
विश्वास-प्रस्तुतिः
तृतीयसवने प्रसवः १२
मूलम्
तृतीयसवने प्रसवः १२
विश्वास-प्रस्तुतिः
स्रुग्व्यूहनमग्नेर्वनस्पतेरिन्द्र स्य वसुमतो रुद्र वत आदित्यवत ऋभुमतो विभुमतो वाजवतो बृहस्पतिमतो विश्वदेव्यावतः सोमस्योज्जितिमित्यग्निवनस्पतिरिन्द्रो वसुमान् रुद्र वानादित्यवानृभुमानिव्भुमान्वाजवान् बृहस्पतिमान्विश्वदेव्यावान्त्सोमस्तमपुनदन्त्विति १३

पशुदेवतावनस्पतेभ्यो वा सोमोपदेशादितरासाम् १४

सर्वा वा सवनीयसौम्यभावात् १५
मूलम्
सर्वा वा सवनीयसौम्यभावात् १५