विश्वास-प्रस्तुतिः
देवाय सवित्रेऽनुवाचयति १
मूलम्
देवाय सवित्रेऽनुवाचयति १
विश्वास-प्रस्तुतिः
अभक्षितेन महावैश्वदेवग्रहणमुपयामगृहीतोऽसि सुशर्माऽसीति २
मूलम्
अभक्षितेन महावैश्वदेवग्रहणमुपयामगृहीतोऽसि सुशर्माऽसीति २
विश्वास-प्रस्तुतिः
होता शंसति ३
मूलम्
होता शंसति ३
विश्वास-प्रस्तुतिः
एकया च दशभिश्चेति शस्यमाने द्व्दिदेवत्यानि प्रतिप्रस्थाता प्रक्षाल्य खरे निदधाति ४
मूलम्
एकया च दशभिश्चेति शस्यमाने द्व्दिदेवत्यानि प्रतिप्रस्थाता प्रक्षाल्य खरे निदधाति ४
विश्वास-प्रस्तुतिः
प्रद्यावा यज्ञैरित्येतासु मदामो दैवेति त्रिः प्रतिगरः ५
मूलम्
प्रद्यावा यज्ञैरित्येतासु मदामो दैवेति त्रिः प्रतिगरः ५
विश्वास-प्रस्तुतिः
स्वादुष्किलीयासु चेच्छन् ६
मूलम्
स्वादुष्किलीयासु चेच्छन् ६
विश्वास-प्रस्तुतिः
आ पात्रप्रक्षालनात्कृत्वा सौम्येन चरति ७
मूलम्
आ पात्रप्रक्षालनात्कृत्वा सौम्येन चरति ७
विश्वास-प्रस्तुतिः
आज्येनोभयतः परियजति ८
मूलम्
आज्येनोभयतः परियजति ८
विश्वास-प्रस्तुतिः
अन्यतरतो वा ९
मूलम्
अन्यतरतो वा ९
विश्वास-प्रस्तुतिः
घृतस्य यजेत्याह घृतशब्द उपांशु १०
मूलम्
घृतस्य यजेत्याह घृतशब्द उपांशु १०
विश्वास-प्रस्तुतिः
सौम्यस्य यजेति सौम्येन चरन् ११
मूलम्
सौम्यस्य यजेति सौम्येन चरन् ११
विश्वास-प्रस्तुतिः
यावदुक्तं सौम्यस्य पुनर्ग्रहणात् १२
मूलम्
यावदुक्तं सौम्यस्य पुनर्ग्रहणात् १२
विश्वास-प्रस्तुतिः
आज्यमासिच्योद्गात्रे सौम्यं प्रयच्छति । चतुर्गृहीतं प्रचरण्या धिष्ण्येषु जुहोति यथान्युप्तं प्रभावयञ्च्छालाकान्प्रदीप्य विभूरसीति प्रतिमन्त्रम् १३
मूलम्
आज्यमासिच्योद्गात्रे सौम्यं प्रयच्छति । चतुर्गृहीतं प्रचरण्या धिष्ण्येषु जुहोति यथान्युप्तं प्रभावयञ्च्छालाकान्प्रदीप्य विभूरसीति प्रतिमन्त्रम् १३
विश्वास-प्रस्तुतिः
आग्नीध्रीये पुनः पश्चादिच्छन् १४
मूलम्
आग्नीध्रीये पुनः पश्चादिच्छन् १४
विश्वास-प्रस्तुतिः
उपयामगृहीतोसि बृहस्पतिसुतस्येति प्रतिप्रस्थाता पात्नीवतं गृह्णाति १५
मूलम्
उपयामगृहीतोसि बृहस्पतिसुतस्येति प्रतिप्रस्थाता पात्नीवतं गृह्णाति १५
विश्वास-प्रस्तुतिः
प्रचरणीशेषेण श्रीणात्येनमहं परस्तादिति १६
मूलम्
प्रचरणीशेषेण श्रीणात्येनमहं परस्तादिति १६
विश्वास-प्रस्तुतिः
अग्नीत्पात्नीवतस्य यजेत्याह १७
मूलम्
अग्नीत्पात्नीवतस्य यजेत्याह १७
विश्वास-प्रस्तुतिः
अग्ना३इ पत्नीवन्नित्युत्तरार्धे जुहोति १८
मूलम्
अग्ना३इ पत्नीवन्नित्युत्तरार्धे जुहोति १८
विश्वास-प्रस्तुतिः
प्रेष्यति चाऽग्नीन्नेष्टुरुपस्थमासीद नेष्टः पत्नीमुदानयोद्गात्रा सङ्ख्यापयोन्नेतर्होतुश्चमसमनून्नय सोमं माऽतिरीरिच इति १९
मूलम्
प्रेष्यति चाऽग्नीन्नेष्टुरुपस्थमासीद नेष्टः पत्नीमुदानयोद्गात्रा सङ्ख्यापयोन्नेतर्होतुश्चमसमनून्नय सोमं माऽतिरीरिच इति १९
विश्वास-प्रस्तुतिः
प्रभावयेत्युक्थ्याऽदिषु २०
मूलम्
प्रभावयेत्युक्थ्याऽदिषु २०
विश्वास-प्रस्तुतिः
अग्नीध्रे भक्षणं वषट्कारोपह्वानाभ्याम् २१
मूलम्
अग्नीध्रे भक्षणं वषट्कारोपह्वानाभ्याम् २१
विश्वास-प्रस्तुतिः
स पात्र आसीदति नेष्टुरुपस्थम् २२
मूलम्
स पात्र आसीदति नेष्टुरुपस्थम् २२
विश्वास-प्रस्तुतिः
अत्र वा भक्षणं पात्रहरणसामर्थ्यात् २३
मूलम्
अत्र वा भक्षणं पात्रहरणसामर्थ्यात् २३
विश्वास-प्रस्तुतिः
अग्नीत्प्रक्षाल्य पात्रं खरे करोति २४
मूलम्
अग्नीत्प्रक्षाल्य पात्रं खरे करोति २४