विश्वास-प्रस्तुतिः
आग्रयणमादायऽसिञ्चति पवित्रेऽधिपूतभृतम् १
मूलम्

प्रतिप्रस्थाता च संस्रवौ २
मूलम्
प्रतिप्रस्थाता च संस्रवौ २
विश्वास-प्रस्तुतिः
आधवनीयादुन्नेतोदञ्चनेन चमसेन वा ३
मूलम्
आधवनीयादुन्नेतोदञ्चनेन चमसेन वा ३
विश्वास-प्रस्तुतिः
तत आग्रयणं गृह्णाति ४
मूलम्
तत आग्रयणं गृह्णाति ४
विश्वास-प्रस्तुतिः
उक्थ्यं चोत्तरेष्वेकया ५
मूलम्
उक्थ्यं चोत्तरेष्वेकया ५
विश्वास-प्रस्तुतिः
पूतभृत्याशिरमासिञ्चत्याशीर्म ऊर्जमुत सुप्रजास्त्वमिषं दधातु द्र विणं सुवर्चसम् । सञ्जयन् क्षेत्राणि सहसाऽहमिन्द्र कृण्वानोऽन्यानधरान्त्सपत्नानिति ६

श्रदस्मै नर इत्येनमवेक्षते पत्नी ७
मूलम्
श्रदस्मै नर इत्येनमवेक्षते पत्नी ७
विश्वास-प्रस्तुतिः
समन्वारब्धनिष्क्रमणादि करोति माध्यन्दिनवत् ८

पशौ संवदस्वेत्युपचयस्थाने ९
मूलम्
पशौ संवदस्वेत्युपचयस्थाने ९
विश्वास-प्रस्तुतिः
प्रातःसवनप्रभृत्यासंवादाच्छ्रुतेः शमित्रनुशासनप्रभृतीडान्तं कृत्वा पुरोडाशादि चेडाभक्षात् १०

चमसैरेव ११
मूलम्
चमसैरेव ११
विश्वास-प्रस्तुतिः
होतृचमसं गृहीत्वाऽऽश्राव्याह तृतीयस्य सवनस्य ऋभुमतो विभुवतो वाजवतो बृहस्पतिमतो विश्वदेव्यावतस्तीव्रान् १२

आशीर्वत इन्द्रा य सोमान्प्रस्थितान्प्रेष्येत्याशीर्वत इति शुक्रस्थाने १३

प्रागिडाभक्षाद्धविर्धाने यथास्वं चमसेषूपाऽस्यन्ति पुरोडाशमात्रा अनुदकाः पिण्डपितृयज्ञवद्दानप्रभृति प्रागवघ्राणात् १४

यजमानपितृभ्यो वा तस्य फलाऽधिकारात् १५
मूलम्
यजमानपितृभ्यो वा तस्य फलाऽधिकारात् १५
विश्वास-प्रस्तुतिः
भक्षयित्वेडामुपांश्वन्तर्यामपात्रयोरन्यतरेण सावित्रग्रहणं वाममद्येति काले पात्नीवतमितरेण १६