विश्वास-प्रस्तुतिः
एहि यजमानेत्याह हविर्धानं प्रविशन्त्यध्वर्युयजमानप्रतिप्रस्थात्रग्नीदुन्नेतारः १
मूलम्

पत्नी चाऽपरेण २
मूलम्
पत्नी चाऽपरेण २
विश्वास-प्रस्तुतिः
अपिहितद्वार आदित्यपात्रमादाय संस्रवाँ श्चोपरि पूतभृतस्तत आदित्यग्रहं गृह्णाति संस्रवेभ्यः कदा चनेति ३

अपगृह्य पुनः कदा चनेति ४
मूलम्
अपगृह्य पुनः कदा चनेति ४
विश्वास-प्रस्तुतिः
दध्ना श्रीणात्येनं पश्चिमेऽन्ते मध्ये वा यज्ञो देवानामिति ५

उपांशुसवनेन मिश्रयति विवस्वन्नादित्येति ६

उपांशुसवनमुन्नेत्रे प्रयच्छत्यासृज ग्राव्ण इति चाऽह ७

आधवनीये चमसे वा सोमवति ग्राव्णोऽवधाय स्थाने निदधाति ८

अपावृतद्वारे निष्क्रामतो ग्रहमपिधाय पाणिना स्थाल्या वा ९

अन्वारब्ध आदित्येभ्योऽनुब्रूहीत्याह । प्रैषाऽनुवाचनयोरन्यतरस्मिन्नाह प्रियेभ्यः प्रियधामभ्यः प्रियव्रतेभ्यो महस्वसरस्य पतिभ्य उरोरन्तरिक्षस्याध्यक्षेभ्य इति १०

हुत्वा प्रतिप्रस्थात्रे प्रयच्छति शेषौ ११

अत्र सर्पणमादित्यग्रहस्य प्राक्तृतीयसवनश्रुतेः १२