विश्वास-प्रस्तुतिः
इन्द्रा य मरुत्वतेऽनुवाचयति १
मूलम्
इन्द्रा य मरुत्वतेऽनुवाचयति १
विश्वास-प्रस्तुतिः
अदानमतः २
मूलम्
अदानमतः २
विश्वास-प्रस्तुतिः
ऋतुपात्रेण मरुत्वतीयग्रहणमुपयामगृहीतोऽसि मरुतां त्वौजस इति ३
मूलम्
ऋतुपात्रेण मरुत्वतीयग्रहणमुपयामगृहीतोऽसि मरुतां त्वौजस इति ३
विश्वास-प्रस्तुतिः
अध्वर्युमनु जुहोति ४
मूलम्
अध्वर्युमनु जुहोति ४
विश्वास-प्रस्तुतिः
सशस्त्रे त्वानुपूर्व्ययोगात् ५
मूलम्
सशस्त्रे त्वानुपूर्व्ययोगात् ५
विश्वास-प्रस्तुतिः
तृतीयश्रुतेश्च ६
मूलम्
तृतीयश्रुतेश्च ६
विश्वास-प्रस्तुतिः
वशिना मरुत्वतीयग्रहणं मरुत्वन्तमिति ७
मूलम्
वशिना मरुत्वतीयग्रहणं मरुत्वन्तमिति ७
विश्वास-प्रस्तुतिः
निर्हृते पात्रे होता शंसति ८
मूलम्
निर्हृते पात्रे होता शंसति ८
विश्वास-प्रस्तुतिः
जनिष्ठा उग्र इत्येतस्यां मदामो दैवेति प्रतिगरः सकृत् ९
मूलम्
जनिष्ठा उग्र इत्येतस्यां मदामो दैवेति प्रतिगरः सकृत् ९
विश्वास-प्रस्तुतिः
तत्स्थाने विकृतौ १०
मूलम्
तत्स्थाने विकृतौ १०
विश्वास-प्रस्तुतिः
आ निधानात्कृत्वा माहेन्द्रं गृह्णाति वैश्वदेववन्महाँ इन्द्र इति ११
मूलम्
आ निधानात्कृत्वा माहेन्द्रं गृह्णाति वैश्वदेववन्महाँ इन्द्र इति ११
विश्वास-प्रस्तुतिः
शुक्रं पूतभृत्थासिच्य पृष्ठमुपाकृत्य प्रेष्यत्यभिषोतारोऽभिषुणुतौलूखलानुद्वादयताऽग्नीदाशिरं विनय सौम्यस्य वित्तादिति १२
मूलम्
शुक्रं पूतभृत्थासिच्य पृष्ठमुपाकृत्य प्रेष्यत्यभिषोतारोऽभिषुणुतौलूखलानुद्वादयताऽग्नीदाशिरं विनय सौम्यस्य वित्तादिति १२
विश्वास-प्रस्तुतिः
ऋजीषमिश्रमंशुमभिषुण्वन्ति यथा कथा चाऽनुदकम् १३
मूलम्
ऋजीषमिश्रमंशुमभिषुण्वन्ति यथा कथा चाऽनुदकम् १३
विश्वास-प्रस्तुतिः
आधवनीये करोति १४
मूलम्
आधवनीये करोति १४
विश्वास-प्रस्तुतिः
त्रिपर्यायान्वाऽभिषवोपदेशात् १५
मूलम्
त्रिपर्यायान्वाऽभिषवोपदेशात् १५
विश्वास-प्रस्तुतिः
भानाऽभिमर्शनवर्जं कृतत्वात् १६
मूलम्
भानाऽभिमर्शनवर्जं कृतत्वात् १६
विश्वास-प्रस्तुतिः
पूतृभृति पावनं शुक्राऽभावात् १७
मूलम्
पूतृभृति पावनं शुक्राऽभावात् १७
विश्वास-प्रस्तुतिः
स्तूयमाने कुम्भे चर्जीषस्याऽधानम् १८
मूलम्
स्तूयमाने कुम्भे चर्जीषस्याऽधानम् १८
विश्वास-प्रस्तुतिः
सवनीया अपयस्याः १९
मूलम्
सवनीया अपयस्याः १९
विश्वास-प्रस्तुतिः
सौम्यश्चरुर्वारुणश्चैककपालोऽधिकौ २०
मूलम्
सौम्यश्चरुर्वारुणश्चैककपालोऽधिकौ २०
विश्वास-प्रस्तुतिः
आ पात्रप्रक्षालनात्कृत्वोक्थ्यं विगृह्णाति पुर्ववदिन्द्रा य त्वेति सर्वेभ्यः २१
मूलम्
आ पात्रप्रक्षालनात्कृत्वोक्थ्यं विगृह्णाति पुर्ववदिन्द्रा य त्वेति सर्वेभ्यः २१
विश्वास-प्रस्तुतिः
वसतीवरीश्चाऽसिञ्चतीदं तृतीयं सवनं कवीनामृतस्य ये चमसमरयन्त । ते सौधन्वनाः स्वरानवशानाः स्विष्टिं नोऽभि वसीयो नयन्त्विति २२
मूलम्
वसतीवरीश्चाऽसिञ्चतीदं तृतीयं सवनं कवीनामृतस्य ये चमसमरयन्त । ते सौधन्वनाः स्वरानवशानाः स्विष्टिं नोऽभि वसीयो नयन्त्विति २२
विश्वास-प्रस्तुतिः
एकधनशेषं च २३
मूलम्
एकधनशेषं च २३
विश्वास-प्रस्तुतिः
प्रसूताऽन्तं भवति २४
मूलम्
प्रसूताऽन्तं भवति २४