विश्वास-प्रस्तुतिः

दशसून्नयति १

मूलम्

दशसून्नयति १

विश्वास-प्रस्तुतिः

माध्यन्दिनस्य सवनस्य निष्केवल्यस्य भागस्य शुक्रवतो मधुश्चुत इन्द्रा य सोमान्प्रस्थितान् प्रेष्येति २

मूलम्

माध्यन्दिनस्य सवनस्य निष्केवल्यस्य भागस्य शुक्रवतो मधुश्चुत इन्द्रा य सोमान्प्रस्थितान् प्रेष्येति २

विश्वास-प्रस्तुतिः

मन्थीवत इति वा मधुश्चुतस्थाने ३

मूलम्

मन्थीवत इति वा मधुश्चुतस्थाने ३

विश्वास-प्रस्तुतिः

इडां भक्षयित्वा शालाद्वार्ये दाक्षिणहोमो वासःप्रबद्धं हिरण्यं हवन्यामवधाय चतुर्गृहीतमुदु त्यमिति ४

मूलम्

इडां भक्षयित्वा शालाद्वार्ये दाक्षिणहोमो वासःप्रबद्धं हिरण्यं हवन्यामवधाय चतुर्गृहीतमुदु त्यमिति ४

विश्वास-प्रस्तुतिः

चित्रं देवानामिति द्वितीयाम् ५

मूलम्

चित्रं देवानामिति द्वितीयाम् ५

विश्वास-प्रस्तुतिः

आग्नीध्रीयेऽग्ने नयेति ६

मूलम्

आग्नीध्रीयेऽग्ने नयेति ६

विश्वास-प्रस्तुतिः

अयन्न इत्यपरामश्वं चेद्युक्तं दद्यादयुक्तं वा ७

मूलम्

अयन्न इत्यपरामश्वं चेद्युक्तं दद्यादयुक्तं वा ७

विश्वास-प्रस्तुतिः

वासो हिरण्यं ददाति ८

मूलम्

वासो हिरण्यं ददाति ८

विश्वास-प्रस्तुतिः

सहिरण्यो यजमानः शालां पूर्वेण तिष्ठन्नभिमन्त्रयते दक्षिणा बहिर्वेदि तिष्ठन्तीर्दक्षिणतो रूपेण व इति ९

मूलम्

सहिरण्यो यजमानः शालां पूर्वेण तिष्ठन्नभिमन्त्रयते दक्षिणा बहिर्वेदि तिष्ठन्तीर्दक्षिणतो रूपेण व इति ९

विश्वास-प्रस्तुतिः

गवां शतं द्वादशं वाऽतिक्रामति १०

मूलम्

गवां शतं द्वादशं वाऽतिक्रामति १०

विश्वास-प्रस्तुतिः

मन्थौदनतिलमाषाश्च ११

मूलम्

मन्थौदनतिलमाषाश्च ११

विश्वास-प्रस्तुतिः

अन्तरा शालासदसि दक्षिणेनाऽग्नीध्रं तीर्थेन १२

मूलम्

अन्तरा शालासदसि दक्षिणेनाऽग्नीध्रं तीर्थेन १२

विश्वास-प्रस्तुतिः

सुब्रह्मण्यां च प्रेष्यति वा १३

मूलम्

सुब्रह्मण्यां च प्रेष्यति वा १३

विश्वास-प्रस्तुतिः

आऽग्नीध्रादनु गच्छति सुन्वन् १४

मूलम्

आऽग्नीध्रादनु गच्छति सुन्वन् १४

विश्वास-प्रस्तुतिः

प्रागनुवाचनाच्च १५

मूलम्

प्रागनुवाचनाच्च १५

विश्वास-प्रस्तुतिः

सदो गच्छति वि स्वरिति १६

मूलम्

सदो गच्छति वि स्वरिति १६

विश्वास-प्रस्तुतिः

प्रेक्षते यतस्व सदस्यैरिति सदस्यान् १७

मूलम्

प्रेक्षते यतस्व सदस्यैरिति सदस्यान् १७

विश्वास-प्रस्तुतिः

ब्राह्मणमद्येत्याग्नीध्रगमनम् १८

मूलम्

ब्राह्मणमद्येत्याग्नीध्रगमनम् १८

विश्वास-प्रस्तुतिः

उपविश्य हिरण्यमस्मै ददात्यस्मद्रा ता इति १९

मूलम्

उपविश्य हिरण्यमस्मै ददात्यस्मद्रा ता इति १९

विश्वास-प्रस्तुतिः

आत्रेयाय चाऽग्नीध्रवत्सदसः पुरस्तादुपविष्टाय क आत्रेयं क आत्रेयमिति त्रिरुक्त्वा सकृच्छेषमहालेयमवालेयमकौद्रे यमशौभ्रेयमवारथ्यमगौपवनमिति २०

मूलम्

आत्रेयाय चाऽग्नीध्रवत्सदसः पुरस्तादुपविष्टाय क आत्रेयं क आत्रेयमिति त्रिरुक्त्वा सकृच्छेषमहालेयमवालेयमकौद्रे यमशौभ्रेयमवारथ्यमगौपवनमिति २०

विश्वास-प्रस्तुतिः

ऋत्विग्भ्यो दक्षिणा ददाति २१

मूलम्

ऋत्विग्भ्यो दक्षिणा ददाति २१

विश्वास-प्रस्तुतिः

पृथक् शतानि च पुरुषभेदात् २२

मूलम्

पृथक् शतानि च पुरुषभेदात् २२

विश्वास-प्रस्तुतिः

प्रतिविभागो वा कर्मप्राधान्यात् २३

मूलम्

प्रतिविभागो वा कर्मप्राधान्यात् २३

विश्वास-प्रस्तुतिः

यथाऽरम्भं द्वादश द्वादशाऽद्येभ्यः षट्षड्द्वितीयेभ्य श्चतस्रश्चतस्रस्तृतीयेभ्यस्तिस्रस्तिस्र इतरेभ्यः २४

मूलम्

यथाऽरम्भं द्वादश द्वादशाऽद्येभ्यः षट्षड्द्वितीयेभ्य श्चतस्रश्चतस्रस्तृतीयेभ्यस्तिस्रस्तिस्र इतरेभ्यः २४

विश्वास-प्रस्तुतिः

ब्रह्मोद्गातृहोतृभ्यः २५

मूलम्

ब्रह्मोद्गातृहोतृभ्यः २५

विश्वास-प्रस्तुतिः

अध्वर्युभ्यां च हविर्धान उपविष्टाभ्याम् २६

मूलम्

अध्वर्युभ्यां च हविर्धान उपविष्टाभ्याम् २६

विश्वास-प्रस्तुतिः

अग्नये त्वेति हिरण्यं प्रतिगृह्णीतः २७

मूलम्

अग्नये त्वेति हिरण्यं प्रतिगृह्णीतः २७

विश्वास-प्रस्तुतिः

रुद्रा य त्वेति गां बृहस्पतये त्वेति वासो यमाय त्वेत्यश्वम् २८

मूलम्

रुद्रा य त्वेति गां बृहस्पतये त्वेति वासो यमाय त्वेत्यश्वम् २८

विश्वास-प्रस्तुतिः

कोऽदादित्यन्यत् २९

मूलम्

कोऽदादित्यन्यत् २९

विश्वास-प्रस्तुतिः

इच्छतो मन्त्रवचनम् ३०

मूलम्

इच्छतो मन्त्रवचनम् ३०

विश्वास-प्रस्तुतिः

प्रत्येत्य प्रस्तोतृप्रशास्तृब्राह्मणाच्छंसिपोतृनेष्ट्रच्छावाकोन्नेतृग्रावस्तुत्सुब्रह्मण्येभ्यः ३१

मूलम्

प्रत्येत्य प्रस्तोतृप्रशास्तृब्राह्मणाच्छंसिपोतृनेष्ट्रच्छावाकोन्नेतृग्रावस्तुत्सुब्रह्मण्येभ्यः ३१

विश्वास-प्रस्तुतिः

प्रसृप्तेश्चाऽन्यत् । कण्वकश्यपयाचमानवर्जम् ३२

मूलम्

प्रसृप्तेश्चाऽन्यत् । कण्वकश्यपयाचमानवर्जम् ३२

विश्वास-प्रस्तुतिः

ज्ञातये चाऽश्रोत्रियाय ३४

मूलम्

ज्ञातये चाऽश्रोत्रियाय ३४

विश्वास-प्रस्तुतिः

न रजतं दद्याद् बर्हिषि पुराऽस्य संवत्सराद् गृहे रुदन्तीति श्रुतेः ३५

मूलम्

न रजतं दद्याद् बर्हिषि पुराऽस्य संवत्सराद् गृहे रुदन्तीति श्रुतेः ३५

विश्वास-प्रस्तुतिः

पत्नी च ददाति ३६

मूलम्

पत्नी च ददाति ३६

विश्वास-प्रस्तुतिः

सर्वेभ्यो दत्त्वा प्रतिहर्त्रे पश्चात् ३७

मूलम्

सर्वेभ्यो दत्त्वा प्रतिहर्त्रे पश्चात् ३७