(अग्निष्टोमः)
विश्वास-प्रस्तुतिः
सर्पणादि माध्यन्दिनम् १
मूलम्
सर्पणादि माध्यन्दिनम् १
विश्वास-प्रस्तुतिः
होतृचमसे वसतीवरीः कृत्वा यजमानाय प्रयच्छत्युष्णीषं ग्रावस्तुते २
मूलम्
होतृचमसे वसतीवरीः कृत्वा यजमानाय प्रयच्छत्युष्णीषं ग्रावस्तुते २
विश्वास-प्रस्तुतिः
अद्र्यादानप्रभृति त्रिपर्यायानभिषवान्करोति ३
मूलम्
अद्र्यादानप्रभृति त्रिपर्यायानभिषवान्करोति ३
विश्वास-प्रस्तुतिः
आत्तमभि मिमीते ४
मूलम्
आत्तमभि मिमीते ४
विश्वास-प्रस्तुतिः
उपांशुसवनस्याऽनिङ्गनश्रुतेः ५
मूलम्
उपांशुसवनस्याऽनिङ्गनश्रुतेः ५
विश्वास-प्रस्तुतिः
इहा३ इहा३ इति प्रथमः पर्यायः ६
मूलम्
इहा३ इहा३ इति प्रथमः पर्यायः ६
विश्वास-प्रस्तुतिः
अविलम्बितो द्वितीयस्तूर्णस्तृतीयः ७
मूलम्
अविलम्बितो द्वितीयस्तूर्णस्तृतीयः ७
विश्वास-प्रस्तुतिः
अविलम्बितस्थान उत्तमे बृहत् बृहदिति ८
मूलम्
अविलम्बितस्थान उत्तमे बृहत् बृहदिति ८
विश्वास-प्रस्तुतिः
अर्धं वाऽविशेषोपदेशात् ९
मूलम्
अर्धं वाऽविशेषोपदेशात् ९
विश्वास-प्रस्तुतिः
शुक्रप्रभृति चतुर्णां ग्रहणम् १०
मूलम्
शुक्रप्रभृति चतुर्णां ग्रहणम् १०
विश्वास-प्रस्तुतिः
आग्रयणं स्वतृतीयाभ्यो धाराभ्यः ११
मूलम्
आग्रयणं स्वतृतीयाभ्यो धाराभ्यः ११
विश्वास-प्रस्तुतिः
प्रागुक्थ्यान्मरुत्वतीयमृतुपात्रेणेन्द्र मरुत्व इति १२
मूलम्
प्रागुक्थ्यान्मरुत्वतीयमृतुपात्रेणेन्द्र मरुत्व इति १२
विश्वास-प्रस्तुतिः
उत्तरमेके १३
मूलम्
उत्तरमेके १३
विश्वास-प्रस्तुतिः
समन्वारब्धनिष्क्रमणादि करोत्याऽग्नीदग्नीनिति प्रैषात् १४
मूलम्
समन्वारब्धनिष्क्रमणादि करोत्याऽग्नीदग्नीनिति प्रैषात् १४
विश्वास-प्रस्तुतिः
सदसि पवमानोपाकरणम् १५
मूलम्
सदसि पवमानोपाकरणम् १५
विश्वास-प्रस्तुतिः
अहर्गणे च सर्वत्र प्रायणीयोदयनीयवर्जम् १६
मूलम्
अहर्गणे च सर्वत्र प्रायणीयोदयनीयवर्जम् १६
विश्वास-प्रस्तुतिः
पशुनेहीत्यपकृष्य दधिघर्माय दध्याहर दक्षिणा उपावर्त्तयेति प्रैषोपचयः १७
मूलम्
पशुनेहीत्यपकृष्य दधिघर्माय दध्याहर दक्षिणा उपावर्त्तयेति प्रैषोपचयः १७
विश्वास-प्रस्तुतिः
सप्रवर्ग्ये दधिघर्मः १८
मूलम्
सप्रवर्ग्ये दधिघर्मः १८
विश्वास-प्रस्तुतिः
उपविश्य सदसः पुरस्तात्सपवित्रायामग्निहोत्रहवण्यां ग्रहणं यथोक्तम् १९
मूलम्
उपविश्य सदसः पुरस्तात्सपवित्रायामग्निहोत्रहवण्यां ग्रहणं यथोक्तम् १९
विश्वास-प्रस्तुतिः
होतर्वदस्व यत्ते वाद्यमित्याह । वाद्यान्ते श्रातं हविरित्युतिष्ठन्नाह २०
मूलम्
होतर्वदस्व यत्ते वाद्यमित्याह । वाद्यान्ते श्रातं हविरित्युतिष्ठन्नाह २०
विश्वास-प्रस्तुतिः
दधिघर्मस्य यजेति प्रेष्यति २१
मूलम्
दधिघर्मस्य यजेति प्रेष्यति २१
विश्वास-प्रस्तुतिः
हुतशेषं घर्मर्त्विजः सयजमानाः समुपहावं भक्षयन्ति यथोक्तम् २२
मूलम्
हुतशेषं घर्मर्त्विजः सयजमानाः समुपहावं भक्षयन्ति यथोक्तम् २२
विश्वास-प्रस्तुतिः
प्राणभक्षं वाऽदीक्षिताः २३
मूलम्
प्राणभक्षं वाऽदीक्षिताः २३
विश्वास-प्रस्तुतिः
पशुपुरोडाशेन प्रचर्य पुरोडाशादि करोत्या धिष्ण्यनिधानात् २४
मूलम्
पशुपुरोडाशेन प्रचर्य पुरोडाशादि करोत्या धिष्ण्यनिधानात् २४
विश्वास-प्रस्तुतिः
उन्नीयमानेभ्यश्चानुवाचनप्रभृत्याचमसनिधानात् २५
मूलम्
उन्नीयमानेभ्यश्चानुवाचनप्रभृत्याचमसनिधानात् २५