विश्वास-प्रस्तुतिः
वैश्वदेवं गृह्णाति १
मूलम्
वैश्वदेवं गृह्णाति १
विश्वास-प्रस्तुतिः
शुक्रपात्रेण द्रो णकलशादन्वारब्धे वौमास इति २
मूलम्
शुक्रपात्रेण द्रो णकलशादन्वारब्धे वौमास इति २
विश्वास-प्रस्तुतिः
शुक्रं पूतभृत्यासिच्य द्रो णकलशे पवित्रयोजनम् ३
मूलम्
शुक्रं पूतभृत्यासिच्य द्रो णकलशे पवित्रयोजनम् ३
विश्वास-प्रस्तुतिः
पशुपुरोडाशप्रथमान्त्सवनीयान्निर्वपति पयस्यावर्जम् ४
मूलम्
पशुपुरोडाशप्रथमान्त्सवनीयान्निर्वपति पयस्यावर्जम् ४
विश्वास-प्रस्तुतिः
स्तोत्रमुपाकरोति तृणाभ्यां ग्रहमुपस्पृश्योपावर्त्तध्वमिति ५
मूलम्
स्तोत्रमुपाकरोति तृणाभ्यां ग्रहमुपस्पृश्योपावर्त्तध्वमिति ५
विश्वास-प्रस्तुतिः
एवं धुर्येषु सर्वत्र ६
मूलम्
एवं धुर्येषु सर्वत्र ६
विश्वास-प्रस्तुतिः
सर्वभक्षाश्चमसाः ७
मूलम्
सर्वभक्षाश्चमसाः ७
विश्वास-प्रस्तुतिः
मार्जालीये पात्रप्रक्षालनम् ८
मूलम्
मार्जालीये पात्रप्रक्षालनम् ८
विश्वास-प्रस्तुतिः
उक्थ्यं विगृह्णाति त्रैधं देवेभ्यस्त्वेति सर्वेभ्यः ९
मूलम्
उक्थ्यं विगृह्णाति त्रैधं देवेभ्यस्त्वेति सर्वेभ्यः ९
विश्वास-प्रस्तुतिः
मित्रावरुणाभ्यां त्वेति वा प्रशास्त्रे १०
मूलम्
मित्रावरुणाभ्यां त्वेति वा प्रशास्त्रे १०
विश्वास-प्रस्तुतिः
तूष्णीं सादनम् ११
मूलम्
तूष्णीं सादनम् ११
विश्वास-प्रस्तुतिः
स्तोत्रमुपाकरोति १२
मूलम्
स्तोत्रमुपाकरोति १२
विश्वास-प्रस्तुतिः
उक्थशा यज सोमानामिति प्रैषोऽनाराशंसेषु १३
मूलम्
उक्थशा यज सोमानामिति प्रैषोऽनाराशंसेषु १३
विश्वास-प्रस्तुतिः
यस्य विग्रहस्तस्य प्रथमं चमसमुन्नयति १४
मूलम्
यस्य विग्रहस्तस्य प्रथमं चमसमुन्नयति १४
विश्वास-प्रस्तुतिः
ग्रहशेषं चाऽस्मिन्नासिञ्चति १५
मूलम्
ग्रहशेषं चाऽस्मिन्नासिञ्चति १५
विश्वास-प्रस्तुतिः
एवं प्रतिप्रस्थातोत्तराभ्याम् १६
मूलम्
एवं प्रतिप्रस्थातोत्तराभ्याम् १६
विश्वास-प्रस्तुतिः
इन्द्रा य त्वेति ब्राह्मणाच्छंसिने १७
मूलम्
इन्द्रा य त्वेति ब्राह्मणाच्छंसिने १७
विश्वास-प्रस्तुतिः
इन्द्रा ग्निभ्यां त्वेत्यच्छावाकाय १८
मूलम्
इन्द्रा ग्निभ्यां त्वेत्यच्छावाकाय १८
विश्वास-प्रस्तुतिः
प्रागच्छावाकविग्रहात्सोमोपावहरणम् १९
मूलम्
प्रागच्छावाकविग्रहात्सोमोपावहरणम् १९
विश्वास-प्रस्तुतिः
वसतीवर्यर्द्धं चाऽसिञ्चत्याधवनीये विश्वे देवा मरुत इन्द्रो अस्मानस्मिन् द्वितीये सवने न जह्युः । आयुष्मन्तः प्रियमेषां वदन्तो वयं देवानां सुमतौ स्यामेति २०
मूलम्
वसतीवर्यर्द्धं चाऽसिञ्चत्याधवनीये विश्वे देवा मरुत इन्द्रो अस्मानस्मिन् द्वितीये सवने न जह्युः । आयुष्मन्तः प्रियमेषां वदन्तो वयं देवानां सुमतौ स्यामेति २०
विश्वास-प्रस्तुतिः
एकधनार्धं च २१
मूलम्
एकधनार्धं च २१
विश्वास-प्रस्तुतिः
चरिते सर्वैः प्रशास्तः प्रसुहीति ब्रूयात् २२
मूलम्
चरिते सर्वैः प्रशास्तः प्रसुहीति ब्रूयात् २२
विश्वास-प्रस्तुतिः
प्रसूतानां सर्पणं प्रसूतानां सर्पणम् २३
मूलम्
प्रसूतानां सर्पणं प्रसूतानां सर्पणम् २३