विश्वास-प्रस्तुतिः
ऋतुग्रहैश्चरतो द्रो णकलशादुपयामगृहीतोऽसि मधवे त्वेति द्वादश प्रतिमन्त्रम् १
मूलम्
ऋतुग्रहैश्चरतो द्रो णकलशादुपयामगृहीतोऽसि मधवे त्वेति द्वादश प्रतिमन्त्रम् १
विश्वास-प्रस्तुतिः
अध्वर्योः पूर्वः पूर्वो मन्त्रः २
मूलम्
अध्वर्योः पूर्वः पूर्वो मन्त्रः २
विश्वास-प्रस्तुतिः
उत्तर उत्तरः प्रतिप्रस्थातुः ३
मूलम्
उत्तर उत्तरः प्रतिप्रस्थातुः ३
विश्वास-प्रस्तुतिः
युगपत्प्रथमौ गृह्णीत उत्तमौ च व्यत्यासं मध्ये प्रचरणम् च सर्वेषाम् ४
मूलम्
युगपत्प्रथमौ गृह्णीत उत्तमौ च व्यत्यासं मध्ये प्रचरणम् च सर्वेषाम् ४
विश्वास-प्रस्तुतिः
निष्क्रामत्येकः प्रविशतीतरः ५
मूलम्
निष्क्रामत्येकः प्रविशतीतरः ५
विश्वास-प्रस्तुतिः
उत्तर उत्तरः प्रतिप्रस्थाताऽपरकालत्वात् ६
मूलम्
उत्तर उत्तरः प्रतिप्रस्थाताऽपरकालत्वात् ६
विश्वास-प्रस्तुतिः
उभयतोऽध्वर्युं पात्रेण परिगृह्णाति ७
मूलम्
उभयतोऽध्वर्युं पात्रेण परिगृह्णाति ७
विश्वास-प्रस्तुतिः
सर्वहुताः प्रागुत्तमाभ्याम् ८
मूलम्
सर्वहुताः प्रागुत्तमाभ्याम् ८
विश्वास-प्रस्तुतिः
ऋतुनेति षट् प्रेष्यतः ९
मूलम्
ऋतुनेति षट् प्रेष्यतः ९
विश्वास-प्रस्तुतिः
ऋतुभिरिति चतुरः पात्रमुखे विपर्यस्य १०
मूलम्
ऋतुभिरिति चतुरः पात्रमुखे विपर्यस्य १०
विश्वास-प्रस्तुतिः
षड्वदुत्तमौ ११
मूलम्
षड्वदुत्तमौ ११
विश्वास-प्रस्तुतिः
यजमानः प्रेषितो होतरेतद्यजेति ब्रूयात् १२
मूलम्
यजमानः प्रेषितो होतरेतद्यजेति ब्रूयात् १२
विश्वास-प्रस्तुतिः
अध्वर्यू च १३
मूलम्
अध्वर्यू च १३
विश्वास-प्रस्तुतिः
त्रयोदशं गृह्णीयादिच्छन्नुपयामगृहीतोऽस्यंहसस्पतये त्वेति १४
मूलम्
त्रयोदशं गृह्णीयादिच्छन्नुपयामगृहीतोऽस्यंहसस्पतये त्वेति १४
विश्वास-प्रस्तुतिः
प्रतिप्रस्थातारमनु जुहोति १५
मूलम्
प्रतिप्रस्थातारमनु जुहोति १५
विश्वास-प्रस्तुतिः
अन्यतरस्मिञ्च्छेषौ कृत्वा वशिनैद्रा ग्नं गृह्णाति प्रतिप्रस्थातेन्द्रा ग्नी इति १६
मूलम्
अन्यतरस्मिञ्च्छेषौ कृत्वा वशिनैद्रा ग्नं गृह्णाति प्रतिप्रस्थातेन्द्रा ग्नी इति १६
विश्वास-प्रस्तुतिः
आहरति भक्षं होतृपोतृनेष्ट्रग्नीद्ब्राह्मणाच्छंसिप्रशास्तृभ्यः १७
मूलम्
आहरति भक्षं होतृपोतृनेष्ट्रग्नीद्ब्राह्मणाच्छंसिप्रशास्तृभ्यः १७
विश्वास-प्रस्तुतिः
विपर्यस्य पात्रं होतृपोतृनेष्ट्रच्छवाकानाम् १८
मूलम्
विपर्यस्य पात्रं होतृपोतृनेष्ट्रच्छवाकानाम् १८
विश्वास-प्रस्तुतिः
यावदुक्तं होतुर्यजमानयोगाद्वरणवत् १९
मूलम्
यावदुक्तं होतुर्यजमानयोगाद्वरणवत् १९
विश्वास-प्रस्तुतिः
कारणाद्वा होतृभक्षः २०
मूलम्
कारणाद्वा होतृभक्षः २०
विश्वास-प्रस्तुतिः
अप्राप्तेर्वरणम् २१
मूलम्
अप्राप्तेर्वरणम् २१
विश्वास-प्रस्तुतिः
विपर्यस्य पात्रं होतुर्द्विर्भक्षणम् २२
मूलम्
विपर्यस्य पात्रं होतुर्द्विर्भक्षणम् २२
विश्वास-प्रस्तुतिः
तावद्वा सर्वहुतत्वात्पूर्वेषाम् २३
मूलम्
तावद्वा सर्वहुतत्वात्पूर्वेषाम् २३
विश्वास-प्रस्तुतिः
निर्हत्य पात्रं होतुः पुरस्तात्प्राङास्ते २४
मूलम्
निर्हत्य पात्रं होतुः पुरस्तात्प्राङास्ते २४
विश्वास-प्रस्तुतिः
अभिहुतः शॐसावेत्यावृत्योथामोदैवेति प्रतिगृणाति प्रणवाऽवसानयोः २५
मूलम्
अभिहुतः शॐसावेत्यावृत्योथामोदैवेति प्रतिगृणाति प्रणवाऽवसानयोः २५
विश्वास-प्रस्तुतिः
ओमिति वा २६
मूलम्
ओमिति वा २६
विश्वास-प्रस्तुतिः
शस्त्रान्ते नित्यम् २७
मूलम्
शस्त्रान्ते नित्यम् २७
विश्वास-प्रस्तुतिः
वागन्तो वा पूर्वः २८
मूलम्
वागन्तो वा पूर्वः २८
विश्वास-प्रस्तुतिः
ऐन्द्रा ग्नमादायाऽश्राव्याऽहोक्थशा यज सोमस्येति २९
मूलम्
ऐन्द्रा ग्नमादायाऽश्राव्याऽहोक्थशा यज सोमस्येति २९
विश्वास-प्रस्तुतिः
एष प्रैषः सशस्त्राणाम् ३०
मूलम्
एष प्रैषः सशस्त्राणाम् ३०
विश्वास-प्रस्तुतिः
नाराशंसानां च कम्पनं हूयमाने ३१
मूलम्
नाराशंसानां च कम्पनं हूयमाने ३१
विश्वास-प्रस्तुतिः
निहितेषु चेद्धोमः सशस्त्रस्य ३२
मूलम्
निहितेषु चेद्धोमः सशस्त्रस्य ३२
विश्वास-प्रस्तुतिः
भक्षप्रभृत्यानिधानात्कृत्वा ३३
मूलम्
भक्षप्रभृत्यानिधानात्कृत्वा ३३