विश्वास-प्रस्तुतिः
मार्जिते वाजिनेन चरन्ति सूक्तवाकशंयोर्वाकयोरन्यार्थत्वात् १
मूलम्
मार्जिते वाजिनेन चरन्ति सूक्तवाकशंयोर्वाकयोरन्यार्थत्वात् १
विश्वास-प्रस्तुतिः
यथोक्तं वाऽप्रसङ्गात् २
मूलम्
यथोक्तं वाऽप्रसङ्गात् २
विश्वास-प्रस्तुतिः
होतृचमसेन सोमं भक्षयतः ३
मूलम्
होतृचमसेन सोमं भक्षयतः ३
विश्वास-प्रस्तुतिः
हिन्व मे गात्राणि हरिवः शिवो मे सप्तर्षीनुपतिष्ठस्वोर्ध्वे मे नाभेः सीद मा मेऽवाङ्नाभिमति गा इति गात्राणि संस्पृशन्ते ४
मूलम्
हिन्व मे गात्राणि हरिवः शिवो मे सप्तर्षीनुपतिष्ठस्वोर्ध्वे मे नाभेः सीद मा मेऽवाङ्नाभिमति गा इति गात्राणि संस्पृशन्ते ४
विश्वास-प्रस्तुतिः
आप्यायस्वेति द्वाभ्यां चमसानालभन्ते ५
मूलम्
आप्यायस्वेति द्वाभ्यां चमसानालभन्ते ५
विश्वास-प्रस्तुतिः
सोमं वा सिञ्चन्ति मन्त्रेणाऽसम्भवात् ६
मूलम्
सोमं वा सिञ्चन्ति मन्त्रेणाऽसम्भवात् ६
विश्वास-प्रस्तुतिः
असर्वभक्षांस्तान् ७
मूलम्
असर्वभक्षांस्तान् ७
विश्वास-प्रस्तुतिः
दक्षिणस्स्य हविर्धानस्य पश्चादक्षं निदधाति चमसानधः ८
मूलम्
दक्षिणस्स्य हविर्धानस्य पश्चादक्षं निदधाति चमसानधः ८
विश्वास-प्रस्तुतिः
ते नाराशंसा आ वैश्वदेवात् ९
मूलम्
ते नाराशंसा आ वैश्वदेवात् ९
विश्वास-प्रस्तुतिः
पुरोडाशशकलमादाय समुपहूताः स्म इत्युक्त्वोत्तिष्ठति १०
मूलम्
पुरोडाशशकलमादाय समुपहूताः स्म इत्युक्त्वोत्तिष्ठति १०
विश्वास-प्रस्तुतिः
अच्छावाकायैनत्प्रयच्छन्नाहाऽच्छावाक वदस्व यत्ते वाद्यमिति ११
मूलम्
अच्छावाकायैनत्प्रयच्छन्नाहाऽच्छावाक वदस्व यत्ते वाद्यमिति ११
विश्वास-प्रस्तुतिः
उपो अस्मानिति ब्रुवति होतारमाहोपहवमयं ब्राह्मण इच्छते तं होतरुपह्वयस्वेति १२
मूलम्
उपो अस्मानिति ब्रुवति होतारमाहोपहवमयं ब्राह्मण इच्छते तं होतरुपह्वयस्वेति १२
विश्वास-प्रस्तुतिः
उपहूत उन्नीयमानायाऽनुवाचयति १३
मूलम्
उपहूत उन्नीयमानायाऽनुवाचयति १३
विश्वास-प्रस्तुतिः
अच्छावाकचमसमुन्नयति होत्राचमसवत्सर्वम् १४
मूलम्
अच्छावाकचमसमुन्नयति होत्राचमसवत्सर्वम् १४
विश्वास-प्रस्तुतिः
आनिधानात्कृत्वा १५
मूलम्
आनिधानात्कृत्वा १५
विश्वास-प्रस्तुतिः
पूर्वश्चाऽग्नीध्रादतः १६
मूलम्
पूर्वश्चाऽग्नीध्रादतः १६
विश्वास-प्रस्तुतिः
आग्नीध्रे हविर्यज्ञर्त्विज इडां प्राश्नन्ति १७
मूलम्
आग्नीध्रे हविर्यज्ञर्त्विज इडां प्राश्नन्ति १७
विश्वास-प्रस्तुतिः
पत्नी चाऽन्यच्छालायाम् १८
मूलम्
पत्नी चाऽन्यच्छालायाम् १८
विश्वास-प्रस्तुतिः
उपविष्टेऽच्छावाके १९
मूलम्
उपविष्टेऽच्छावाके १९