विश्वास-प्रस्तुतिः
उभयतो यूपं प्रत्यङ्मुखौ जुहुतः । सा प्रथमेत्यध्वर्युः प्रथमम् १
मूलम्
उभयतो यूपं प्रत्यङ्मुखौ जुहुतः । सा प्रथमेत्यध्वर्युः प्रथमम् १
विश्वास-प्रस्तुतिः
तमनु प्रतिप्रस्थाता २
मूलम्
तमनु प्रतिप्रस्थाता २
विश्वास-प्रस्तुतिः
चमसाध्वर्यवश्च ३
मूलम्
चमसाध्वर्यवश्च ३
विश्वास-प्रस्तुतिः
प्रेष्यति च ४
मूलम्
प्रेष्यति च ४
विश्वास-प्रस्तुतिः
प्रैतु होतुश्चमसः प्रब्रह्मणः प्रोग्दातृणां प्रयजमानस्य प्रयन्तु सदस्यानां होत्राणां चमसाध्वर्यव उपावर्त्तध्वं शुक्रस्याऽभ्युन्नयध्वमिति ५
मूलम्
प्रैतु होतुश्चमसः प्रब्रह्मणः प्रोग्दातृणां प्रयजमानस्य प्रयन्तु सदस्यानां होत्राणां चमसाध्वर्यव उपावर्त्तध्वं शुक्रस्याऽभ्युन्नयध्वमिति ५
विश्वास-प्रस्तुतिः
आगत्य प्रतिप्रस्थाता शेषं शुक्रपात्रेऽवनयति ६
मूलम्
आगत्य प्रतिप्रस्थाता शेषं शुक्रपात्रेऽवनयति ६
विश्वास-प्रस्तुतिः
तं स होतृचमसे ७
मूलम्
तं स होतृचमसे ७
विश्वास-प्रस्तुतिः
पञ्चसून्नयन्ति ८
मूलम्
पञ्चसून्नयन्ति ८
विश्वास-प्रस्तुतिः
तानाश्राव्याऽश्राव्य प्रेष्यति नामग्राहं यज यजेति प्रशास्त्रादीन् ९
मूलम्
तानाश्राव्याऽश्राव्य प्रेष्यति नामग्राहं यज यजेति प्रशास्त्रादीन् ९
विश्वास-प्रस्तुतिः
ब्रह्मन्यजेति ब्राह्मणाच्छंसिनम् १०
मूलम्
ब्रह्मन्यजेति ब्राह्मणाच्छंसिनम् १०
विश्वास-प्रस्तुतिः
प्रथमं हुत्वोत्तमं वा तृम्पन्त्विति जपति ११
मूलम्
प्रथमं हुत्वोत्तमं वा तृम्पन्त्विति जपति ११
विश्वास-प्रस्तुतिः
होतारं प्रत्यङ्ङुपसीदत्ययाडग्नीदिति १२
मूलम्
होतारं प्रत्यङ्ङुपसीदत्ययाडग्नीदिति १२
विश्वास-प्रस्तुतिः
द्विदेवत्यान् भक्षयति पूर्वः प्रथमचोदनाद्धोमाभिषवकारी भक्षयेदिति श्रुतेः १३
मूलम्
द्विदेवत्यान् भक्षयति पूर्वः प्रथमचोदनाद्धोमाभिषवकारी भक्षयेदिति श्रुतेः १३
विश्वास-प्रस्तुतिः
होता वा वचनमन्त्रवर्णकारणेभ्यः १४
मूलम्
होता वा वचनमन्त्रवर्णकारणेभ्यः १४
विश्वास-प्रस्तुतिः
नाऽध्वर्युः समभिव्याहारात् १५
मूलम्
नाऽध्वर्युः समभिव्याहारात् १५
विश्वास-प्रस्तुतिः
मन्त्राणां चाऽविधानात् १६
मूलम्
मन्त्राणां चाऽविधानात् १६
विश्वास-प्रस्तुतिः
कारणस्य च समत्वात् १७
मूलम्
कारणस्य च समत्वात् १७
विश्वास-प्रस्तुतिः
ऐन्द्र वायवं प्रतिगृह्णात्यैतु वसुः पुरुवसुरिति १८
मूलम्
ऐन्द्र वायवं प्रतिगृह्णात्यैतु वसुः पुरुवसुरिति १८
विश्वास-प्रस्तुतिः
होतृवद्भक्षणम् वाग्देवी जुषाणा सोमस्य तृप्यतु सह प्राणेन स्वाहेत्येवं सर्वत्र सोमानां भक्षणम् १९
मूलम्
होतृवद्भक्षणम् वाग्देवी जुषाणा सोमस्य तृप्यतु सह प्राणेन स्वाहेत्येवं सर्वत्र सोमानां भक्षणम् १९
विश्वास-प्रस्तुतिः
वचनादन्यत् २९
मूलम्
वचनादन्यत् २९
विश्वास-प्रस्तुतिः
भक्षे हि मेति वा यथालिङ्गम् २१
मूलम्
भक्षे हि मेति वा यथालिङ्गम् २१
विश्वास-प्रस्तुतिः
एवमितरौ प्रतिमन्त्रमैतु वसुर्विदद्वसुरैतु वसुः संयद्वसुरिति २२
मूलम्
एवमितरौ प्रतिमन्त्रमैतु वसुर्विदद्वसुरैतु वसुः संयद्वसुरिति २२
विश्वास-प्रस्तुतिः
शेषं शेषं होतृचमसेऽवनयति २३
मूलम्
शेषं शेषं होतृचमसेऽवनयति २३
विश्वास-प्रस्तुतिः
पुरोडाशमात्रामैन्द्र वायवे प्रास्यति पयस्यां मैत्रावरुण आश्विने धानाः २४
मूलम्
पुरोडाशमात्रामैन्द्र वायवे प्रास्यति पयस्यां मैत्रावरुण आश्विने धानाः २४
विश्वास-प्रस्तुतिः
तानि प्रतिप्रस्थाता दक्षिणस्य हविर्धानस्योत्तरे वर्त्मनि निदधाति २५
मूलम्
तानि प्रतिप्रस्थाता दक्षिणस्य हविर्धानस्योत्तरे वर्त्मनि निदधाति २५
विश्वास-प्रस्तुतिः
इडामादधाति २६
मूलम्
इडामादधाति २६
विश्वास-प्रस्तुतिः
चमसांश्चोद्यच्छन्ति २७
मूलम्
चमसांश्चोद्यच्छन्ति २७