विश्वास-प्रस्तुतिः
शुक्रामन्थिभ्यां चरतः १
मूलम्
शुक्रामन्थिभ्यां चरतः १
विश्वास-प्रस्तुतिः
शुक्रेणाऽध्वर्युर्मन्थिना प्रतिप्रस्थाता २

प्रोक्षिताऽप्रोक्षितौ यूपशकलावादायाऽपिधानं प्रोक्षिताभ्याम् अपमार्जनमप्रोक्षिताभ्यामपमृष्टः शण्ड इत्यध्वर्युरपृमृष्टो मर्क इति प्रतिप्रस्थाता ३

देवास्त्वेति निष्क्रामतो यथालिङ्गम् ४
मूलम्
देवास्त्वेति निष्क्रामतो यथालिङ्गम् ४
विश्वास-प्रस्तुतिः
अपरेणोत्तरवेदिमरत्नी सन्धायोत्तरवेदिश्रोण्योर्निधत्तोऽविसृजन्तौ दक्षिणस्यामध्वर्युरुत्तरस्यां प्रतिप्रस्थाताऽनाधृष्टाऽसीति ५

सुवीर इति दक्षिणं यूपदेशं गच्छत्यध्वर्युः सुप्रजा इति प्रतिप्रस्थातोत्तरम् ६

अप्रेण यूपमरत्नी सन्धत्तः सञ्जग्मान इति यथालिङ्गम् ७

पूर्वेणाऽशक्तौ ८
मूलम्
पूर्वेणाऽशक्तौ ८
विश्वास-प्रस्तुतिः
अप्रोक्षितौ निरस्यतो निरस्तः शण्ड इत्यध्वर्युर्निरस्तो मर्क इति प्रतिप्रस्थाता ९

आहवनीये प्रोक्षितौ प्रास्यतः शुक्रस्याऽधिष्ठानमित्यध्वर्युर्मन्थिन इति प्रतिप्रस्थाता १०

अच्छिन्नस्येति जपित्वाऽश्राव्याऽह प्रातःसवस्य शुक्रवतो मधुश्चुत इन्द्रा य सोमान्प्रस्थितान्प्रेष्येति ११

१०
मूलम्
१०